Wednesday, 8 July 2020

नेत्रपरिरक्षणम्


मनुष्याणां जीवनं सुखेन यापनार्थं बहवः विषयः उपकुर्वन्ति l मनुष्यस्तावत्  शिरः प्रभृति सर्वैः अङ्गैः स्रष्ट्रा सृष्टः। 
सर्वेषु अङ्गेषु शिरः प्रधानं सर्वेन्द्रियाणां नयनं प्रधानम्। अतः
अस्माकं नयनद्वयं रक्षणीयमस्माभिः। तदधिकृत्य शास्त्राणि किं वदन्ति इति किञ्चित् जानीमः॥
1.             सर्वस्य लोचनं शास्त्रम्। गणितं लक्षणग्रन्थो नेत्रद्वयसमो नृणाम्॥
2.            दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि इति मालविकाग्निमित्रे कालिदासस्य वचनम्।
तत्तत् भूमिपतिः पत्न्यै दर्शयन् प्रियदर्शनः। नृपतिः नयचक्षुः इति रघुवंशे कालिदासस्य वचनम्॥
   3.पश्येम शरदः शतम्। चक्षोः सूर्यो अजायत। इति वेदवचनम्॥
   4.अतिमनोहरम् आह्लादनं दृष्टेः। इति अच्छोदसरवर्णने        बाणभट्टस्य वचनम्॥
  5.     यस्य प्रसादकलया बधिरः शृणोति
     पङगुः प्रधावति च जवेन च वक्ति मूकः।
     अन्धः प्रपश्यति सुतं लभते च वन्ध्या
     तं देवमेव वरदं शरणं गतोऽस्मि॥ इति वरदराजं यामुनाचार्यः
      हरितवारणभृत्यसमाह्वयं
     करिगिरौ वरदस्त्वमपूर्विकाम्।
     दृशमलम्भय एव हि सुन्दर
     स्फुटमदाश्च परश्शतमीदृशम्॥ इति सुन्दरबाहुस्तवे
     अब्जपाणिपदपङ्कजनेत्रम् इति वरदराजं
     वरदराजस्तवे कूरेश इति श्रीवत्साङ्कमिश्रः...।
     अव्याजसुन्दरमनुत्तरमप्रमेयम्
       अप्राकृतं परममङ्गलमङ्घ्रिपद्मम्।
       सन्दर्शयेदपि सकृद्भवतीति दयार्द्रा
       द्रष्टास्मि केन तदहं तु विलोचनेन॥  
       इति श्लोके परममङ्गलं तवाङ्घ्रिपद्मं केन विलोचनेन अहं द्रष्टास्मि इति पृष्ट्वा सर्वं द्रष्टुं नेत्रं ददातु इति मीनाक्षीदेवीम्  आनन्दसागरस्तवे श्रीनीलकण्ठदीक्षितः च प्रार्थयन्ति॥

No comments:

Post a Comment

SEVEN FASCINATING TOPICS FROM SANSKRIT LITERATURE - 7. THE KATHASARITSAGARA

  THE KATHĀSARITSĀGARA: AN OCEAN OF INTERTWINED STORIES The Kathāsaritsāgara , meaning “The Ocean of the Streams of Stories,” is one of t...