Tuesday, 7 July 2020

कविकुलरक्षकः राजानकहर्षवर्धनः




      भारतदेशे अनेके राजानः प्रभावन्तोऽभवन्। ते न केवलं शस्त्रैः अस्त्रैश्च राज्यं न शासितवन्तः, अपि तु शास्त्रैः कलाभिश्च प्रजाः रक्षितवन्तः।  तेषु राजसु हर्षवर्धनः विख्यातोऽभवत्। तमधिकृत्य किञ्चित् जानीमः-
1. हर्ष इति नाम्ना षट् कवयः आसन् इति श्रूयते। नैषधीयचरित-कर्ता श्रीहर्षः इति, काव्यप्रकाशस्य प्रदीप इति व्याख्याकारस्य गोविन्दठाकहरस्य कनिष्ठः भ्राता इति, धारा-नगरीय-प्रथित-भोजराजस्य कश्चन पितृव्यः इति,  काश्मीरदेशस्य कश्चन शासकः इति, क्रिस्तोः परं द्वितीयशताब्दीयः कश्चन श्रीहर्ष-विक्रमादित्यः इति, कान्यकुब्जराष्ट्रस्य स्थानेश्वराधीशः श्रीहर्षवर्धनः इत्यादयः विराजन्ते स्म॥
2.             एतेषु कान्यकुब्जराष्ट्रस्य स्थानेश्वराधीशः श्रीहर्षवर्धनः एव रत्नावली, प्रयदर्शिका, नागानन्दम् इति नाटकादीनां कर्ता।
3.            अहो प्रभावो वाग्देव्याः यन्मातङ्गदिवाकरः।
श्रीहर्षस्याभवत् सभ्यः समो बाणमयूरयोः॥ इति राजशेखरेण श्रीहर्ष इत्यवनिवर्तिषु पार्थिवेषु,
नाम्नैव केवलमजायत वस्तुतस्तु।
गीर्हर्ष  एव निजसंसदि येन राज्ञा
सम्पूजितःकनककोटिशतेन बाणः॥ इति सोड्डलेन
सम्मानितोऽभवत् स्थानेश्वराधीशः श्रीहर्षवर्धनः॥
4.            अशठमलोलजिह्मं त्यागिनमनुरागिणं विशेषज्ञम्।
यदि नाश्रयति नरं  श्रीः श्रीरेव हि वञ्चिता तत्र॥ इति वल्लभदेवेन स्थानेश्वराधीशस्य श्रीहर्षवर्धनस्य काव्यरचना संस्तुता॥
5. श्रीहर्षो निपुणः कविः परिषदप्येषा गुणग्राहिणी, इति
राज्यं  निर्जितशत्रु योग्यसचिवे न्यस्तः समस्तो भरः,
संयक्पालनलालिताः प्रशमिताशेषोपसर्गाः प्रजाः।
इति च स्वयमात्मानं रत्नावलीनाटके प्रशंसयामास॥

No comments:

Post a Comment

ĀVAṆI 1 AND ṢAṢṬHĪ VRATA - 18th August 2026

  On 18 August 2026, Tamil Nadu observes Āva ṇ i 1, the first day of the auspicious Tamil month of Āva ṇ i. The day also coincides with Śu...