Thursday 16 July 2020

पशुपक्षिसंरक्षणम्


अयं लोकस्तावत् चित्-अचित्-ईश्वरात्मकः विभाति। 
मानवेभ्यः  इतरजन्तुवः श्रेष्ठहीनाः अपि, ते अपि 
माननीयाः, पूजनीयाः एव। यतो हि-
1."समोऽहं सर्वभूतेषु" इति श्रीमद्भगवद्गीता-वचन-
    रीत्या भगवान् सर्वेषु भूतेषु अन्तर्यामित्वरूपेण विराजते॥
2.  "अद्रोहः सर्वभूतेषु" इति श्रीमद्भगवद्गीता-वचन-रीत्या 
     न केवलं मानवान् अपि तु इतरान् जन्तून् अपि न 
     हिंसीयात्, यतो हि एषः दैवीगुणः॥
3.  पशु-पक्षिगणान् कदापि न हिंसीयात्। पशुषु मुख्यतया 
     गावः धेनवश्च पूजनीयतमाः। "सर्वदेवमयाी धेनुः" इति 
     सर्वैः संपूज्यते॥
4.  सर्वेषु कालेषु, मुख्यतया ग्रीष्मकाले चण्डरश्मिनः सूर्यस्य   तीव्रातपैः पीडिताः पशु-पक्षिगणाः, अस्माभिः आहार-   जलपानैः सान्त्वनरूपेण आराधनीय़ाः॥
5.  अनेन सर्वभूतस्थो भगवान् परमात्मा अस्मत्सु सुप्रसन्नः 
    निश्चयं भवति। अतः पशु-पक्षिगणरक्षणम् अवश्यं कुर्मः॥

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...