Friday 31 July 2020

श्रीवरलक्ष्मीव्रतम्



Varalakshmi devi | Durga goddess, Goddess lakshmi, Devi durga

     संसारेऽस्मिन् अस्माकं सर्वेषां जननं तावत् अस्मत्पुण्यपापा-नुसारमेव अजायत। एतस्मिन् जन्मनि अस्माकं जीवनं सुखेन यापनार्थं विविधमार्गेषु बहुधा प्रयत्नं कुर्वन्तः स्मः। तादृशमार्गेषु भक्तिभावनया कामपि देवतामुद्दिश्य उपवासादि-व्रतानि, पूजादयश्च भवन्ति। तादृशव्रतेषु श्रीवरलक्ष्मीव्रतम् अन्यतमं भवति। तदधिकृत्य किञ्चित् जानीमः-

   1.            श्रीवरलक्ष्मीव्रतम् नाम श्रीमहाविष्णोः पत्नीं श्रीमहालक्ष्मी-  मुद्दिश्य क्रियमाणं व्रतम् भवति।

   2.            एतत्-श्रीवरलक्ष्मीव्रतं प्रतिसंवत्सरे ग्रीष्मर्तौ कर्कटकमासे (आषाढमासे) पौर्णमास्याः पूर्वस्मिन् शुक्रवासरे सर्वैः विशेषेण अनुष्ठीयते। शार्वरी नाम संवत्सरे, दक्षिणायने, ग्रीष्मर्तौ, कटकमासे, शुक्लपक्षे (आषाढमासे) मूलानक्षत्र-युक्ते अस्मिन् दिने (31.07.2020) शुक्र(भृगु)वासरे,द्वादश्यां  शुभतिथौ अर्थात् अद्य महता वैभवेन अभिनन्द्यते।

   3.            श्रीमहालक्ष्मीः अष्टविधैश्वर्याणां, नवविधनिधीनां,सौवर्ण्य-सौभाग्य-सौमाङ्गल्यादीनां च स्वरूपिणी विराजते। अनेन श्रीमहालक्ष्मीः दारिद्र्यनाशिनी इति च स्तूयते।

   4.            अस्मिन् दिने जनाः सर्वे, विशिष्य स्त्रियः, प्रातःकाले, अभ्यङ्गस्नानं कृत्वा, शुद्धात्मना दैनन्दिनपूजादीन् समाप्य,  वरलक्ष्म्याः प्रतिकृतिरूपामेकां प्रतिमां प्रकल्प्य विविधाभिः मालादिभिः अलङ्कृत्य श्रीमहालक्ष्मीमहिम्नः स्तोत्रादिकं पारायणं च कृत्वा श्रीमहालक्ष्मीं पूजयन्ति।

   5.            स्वकीयं गृहं प्रति आगतवद्भ्यः सर्वाभ्यः महिलाभ्यः ताम्बूलादिकं स्वादुभक्षणानि च वितरणं कृत्वा मोदन्ते।

अतः वयं सर्वे श्रीमहालक्ष्मीं  स्तुत्वा दारिद्र्यतां दूरीकृत्य सकलविध-सौभाग्य-सौमाङ्गल्यादींश्च प्राप्त्वा सुखं जीवामः॥


Varalakshmi Vratham Kalash Decoration Pics

Thursday 30 July 2020

कृषिविद्या


Image result for image of farming

      कृषीलवाः अस्मभ्यं, तथा अस्माकं सुखमयजीवन-यापनाय च, भूमौ व्रीहि-सस्य-धान्यादीन् बहुप्रयत्नेन संवर्धयन्तः, अन्नपाना-दीन्  सज्जी-कुर्वन्तः  विराजन्ते। तादृशीं  कृषिविद्यां किञ्चित् जानीमः। 

    Farmers busy sowing paddy seeds - The Hindu    Farmers busy in sowing the seeds of rice in a rice field

1. क्षेत्रे कदा बीजानि वपनीयानि इत्युक्ते-

      वैशाखे वपनं श्रेष्ठं ज्येष्ठे तु मध्यमं स्मृतम्।

      आषाढे चाधमं प्रोक्तं श्रावणे चाधमाधमम्॥

  रोपणार्थं तु बीजानां शुचौ वपनमुत्तमम्।

  श्रावणे चाधमं प्रोक्तं भाद्रे चैवाधमाधमम्॥

  वृषान्ते मिथुनादा च त्राण्यहानि रजस्वला।

  बीजं न वाजयेत्तत्र जनः पापाद्विनश्यति ॥ - कृषिपराशरम्

इति ग्रन्थः,

2. तथा कस्मिन् काले कीदृशानि सस्यानि संवर्धितव्यानि इति विषयं

     ततः प्रभूतोदकमल्पोदकं वा सस्यं वापयेत्।

     शालि-व्रीहि-कोद्रव-तिल-प्रयङ्गु-दारक-वरकाः पूर्ववापाः।

     मुद्ग-माष-शैम्ब्याः मध्यवापाः।

  कुसुम्भ-मसूर-कुलत्थ-यव-गोधूम-कलाय-अतसी-सर्षपाः   पश्चाद्वापाः।   2.24 ।

  इति कौटिल्य-अर्थशास्त्रम् इति ग्रन्थश्च  सूचयतः।

3. एतान् कृषिविद्याज्ञानविषयान् केचन महाकवयोऽपि स्वकीयेषु साहित्येषु उल्लेखनं कुर्वन्ति।

     चीयते बालिशस्यापि सत्क्षेत्रपतिता कृषिः।

     न शालेः स्तम्बकरिता वप्तुर्गुणमपेक्षते॥

          इति ①विशाखदत्तो नाम महाकविः स्वकीये मुद्राराक्षसे,            "कृषीवलः ज्ञानी वा भवतु अज्ञानी वा भवतु, सः ज्ञात्वा वा          अज्ञात्वा वा कृषिकार्याणि कृतवानपि, व्रीह्यादि शालीनां           प्रभूतमयानि उत्पन्नानां फलितत्वादीनि क्षेत्राणां गुणमेव            द्योतयति न तु कृषीवलस्य" इति उल्लिलेख ।Traditional Water Saving Methods in Indian Agriculture  What are the modern methods of irrigation practised in India? - Quora

     ②अभिवर्षयति योऽनुपालयन्विधिबीजानि विवेकवारिणा।

        स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति॥

          इति महाकविः भारविरपि स्वकीये किरार्जुनीये, अमुं                      विषयमेव उक्त्यन्तरेण द्रढयति अर्थात्  "कृषीवलः युक्ते              समये क्षेत्रे वीजानि वपनं कृत्वा युक्ते समये तानि बीजानि              जलसिञ्चनेन उत अभिवर्षणेन युक्ते समये फलप्राप्तिं च                 लभते" इत्येव


Wednesday 29 July 2020

लड्डुकम्


Image result for Image of Laddu

    मानवाः वयं सर्वे भोजनप्रियाः। भोजनेषु बहुषु सत्सु स्वादु अथवा मिष्टानि भक्ष्याणि सर्वेभ्यः प्रियतमानि। मिष्टभक्षणेषु लड्डुकानि तावत् सर्वेभ्यः रोचन्ते। तदधिकृत्य अहमेकं श्लोकमेकं व्यरचयम्। अत्रायं श्लोकः-                            

                             Besan ladoo recipe - How to make besan ladoo - Besan laddu ...                                                 

             पिष्ठं नीरे मृदितचणकं पूरितं रन्ध्रदर्व्यां

बिन्द्वाकारं कणकणमयं भर्जितं भ्राष्ट्रपात्रे।

गोलं कृत्वा गुढमधुरसैः वर्तुलाकारतुल्यं

             मात्रा दत्तं वयमनुदिनं लड्डुकं खादयामः॥

What kind of laddu does Chhota Bheem like? - Quora

XSABARI (SABARl)

  XSABARI (SABARl)   XSABARI (SABARl) was an aged woman of the tribe of forest-dwellers. Sri Rama, during his life in the forest, gave h...