Friday, 3 July 2020

आयुर्वेदः

      
      शास्त्रेषु बहुषु आयुर्वेदशास्त्रमन्यतममस्ति । वेद्यते अनेन इति वेदः। प्राणिनां जीवनस्य आयुः अधिकृत्य येन वेद्यते तदायुर्वेदः। तथा तेषां प्राणिनां दीर्घायुष्यं प्रति विविधक्रिया-कलापान् बोधयति आयुर्वेदः तदधिकृत्य किञ्चित् जानीमः॥
1. भगवता आदिवैद्यराजेन धन्वन्तरिणा अथर्ववेदस्य उपाङ्गरूपेण आयुर्वेदः प्रतिपादितः। तमनुसृत्य आत्रेयः, काश्यपः, सुश्रुतः, वाग्भटः, चरकः इत्यादयः महान्तः एतमायुर्वेदं विस्तीर्णदृशा उपादिदेशुः॥
2. प्राणिनां मुख्यतया मानवानां तापत्रयमस्ति, तत्र प्रथमम् आध्यात्मिकं यत् कायिक-वाचिक-मानसिकादिभिः उद्भूतं दुःखम्, द्वितीयं तावत् आधिभौतिकम् यत् पञ्चभूतात्मकैः प्राणिभिः प्रभावितं झञ्झावात-भूकम्पादिकं दुःखम्, तृतीयं च आधिदैविकं यत् यक्षरक्षादिभिः प्रादुर्भूतं दुःखम् इति तापत्रयनिवारणाय आयुर्वेदः महता उपकरोति॥
3.प्राणिनां रोगाः के, कीदृशाः, तेषां रोगाणां प्रादुर्भाव-हेतवः, रोगात् मोक्षः, रोगमोक्षाय ओषधीभिः भैषजसज्जीकरणं तथा तेषां प्रयोजनमित्येषां बोधकः आयुर्वेदः॥
4.रोगानां निवारणाय कफ-वात-पित्तादीनां दोषाणां ज्ञापको भवति आयुर्वेदः॥
5.शल्यचिकित्सा, शालक्यचिकित्सा, कायचिकित्सा, भूत-विद्याचिकित्सा, कुमारप्रियाचिकित्सा, अक्तचिकित्सा, रसायनचिकित्सा, वाजीकरणचिकित्सादयः आयुर्वेदस्य अङ्गाः भवन्ति॥
6. सुश्रुतसंहीता, काश्यपसंहिता, चरकसंहिता, अष्टाङ्ग-हृदयः   इत्यादयः प्रसिद्धाः आयुर्वेदग्रन्थाः भवन्ति॥

No comments:

Post a Comment

SEVEN FASCINATING TOPICS FROM SANSKRIT LITERATURE - 7. THE KATHASARITSAGARA

  THE KATHĀSARITSĀGARA: AN OCEAN OF INTERTWINED STORIES The Kathāsaritsāgara , meaning “The Ocean of the Streams of Stories,” is one of t...