Wednesday, 15 July 2020

दक्षिणायनपुण्यकालः


      भगवान् श्रीकृष्णः श्रीमद्भगवद्गीतायां "कालः कलयताम् 
अहम् " इति वदति। सः कालः प्रतिवर्षं दक्षिणानायनम् उत्त-
रायणम् इति अयनाभ्यां  द्विधा विभज्यते। तयोः दक्षिणाना-
यनम् पुण्यकालः इत्यभिधीयते। तमधिकृत्य किञ्चित् जानीमः-
  1.  दक्षिणानायने अर्थात् वर्षाकाले भगवान् सूर्यः पूर्वस्यां दिशि 
      उदित्वा  दक्षिणदिग्भागपुरस्सरं पश्चिमायां दिशि अस्तं गच्छति॥
  2. तदात्वे भगवान् सूर्यः आर्द्रा, पुनर्वसुः, पुष्यम्, आश्लेषा, मखा,       पूर्वफल्गुणी, उत्तरफल्गुणी,हस्ता, चित्रा, स्वातिः इति   दशतारागमपुरस्सरं गच्छति। अस्मिन् समये एव वृष्टिर्भवति 
    इति कारणेन वर्षासमयः इति आह्वयते। अमुं विषयं कालिदासः, रघुवंशे द्वादशसर्गे "दक्षिणां दिशम् ऋक्षेषु वार्षिकेषु इव भास्करः" इति सूचयति॥
 3. अस्मिन् समये परिव्राजकाः अर्थात् यतयः उत सन्न्यासिनः
स्वस्वचातुर्यमास्यव्रतम् अनुतिष्ठन्ति॥ 

No comments:

Post a Comment

ĀVAṆI 1 AND ṢAṢṬHĪ VRATA - 18th August 2026

  On 18 August 2026, Tamil Nadu observes Āva ṇ i 1, the first day of the auspicious Tamil month of Āva ṇ i. The day also coincides with Śu...