Monday, 13 July 2020

धन्वन्तरिप्रशंसायां त्रीणि वाक्यानि



      मानवानां जीवने मुख्यतया आवश्यकानि आयुः, आरोग्यम्, सौख्यम् इति त्रीणि एव भवन्ति। अतः एतानि त्रीणि वाक्यानि अस्माभिः अधुना ध्येयानि॥ तानि,
  1.  आरोग्यमेव मानवजीवने अतिमुख्यतमं भवति। अधुना तावत्,  कोराणा-पीडया आकुलानाम् अस्माकम् इतोऽपि जागरूकता 
   आवश्यकं भवति। तदर्थं एतद् विपरीतकृमिजात-विषूचिकात्मक-कोराणा-निवारणार्थं भगवन्तं धन्वन्तरिं ध्यात्वा स्तुत्वा च 
   आरोग्यं प्राप्य सुखं जीवामः॥
  2. भगवान् धन्वन्तरिः इतरदैवतैः भिन्नः, कुतः इति चैत्, एषः 
    भगवान्, अमृतकलशं, जलौका इति जलजीवप्राणिं, ओषधीगुच्छं 
    तथा एकां सूचीमिति चत्वारि वस्तूनि स्वकीयेभ्यः चतुर्बाहुभ्यः   धारयन् अस्मान् रक्षति॥
  3. प्रतिवर्षं दीपावलीसमये अर्थात् तुलामासे अमावास्यायाः पूर्वं           धन्वन्तरिजयन्ती सर्वैः सम्मान्यते। भगवन्तं धन्वन्तरिम् 
    इत्थं स्तुत्वा पूजयामः-           
  "शङ्खं चक्रं जलौकां दधदमृतघटं चारु दोर्भिश्चतुर्भिः
   सूक्ष्मस्वच्छादि हृद्यांशुकपरिविलसनं मौलिमम्भोजनेत्रम्।
   कालाम्बोधोज्ज्वलाङ्गं कटितटविलसच्चारुपीताम्बराढ्यं
   वन्दे धन्वन्तरिं तं निखिलगदवनं प्रौढदावाग्निनीलम्॥"
  "अच्युत-अनन्त-गोविन्द-विष्णो-नारायण-अमृत।
   रोगान् मे नाशय अशेषान् आशु धन्वन्तरे हरे॥"
                                   
        ॥आयुरारोग्यसौख्यं वयं प्राप्स्यामः॥

No comments:

Post a Comment

SEVEN FASCINATING TOPICS FROM SANSKRIT LITERATURE - 7. THE KATHASARITSAGARA

  THE KATHĀSARITSĀGARA: AN OCEAN OF INTERTWINED STORIES The Kathāsaritsāgara , meaning “The Ocean of the Streams of Stories,” is one of t...