Monday 12 April 2021

श्रीमन्महाभारतम् - Part I ( श्रीमन्महाभारतम् - पञ्चमो वेदः)

 

इतिहासयोर्द्वयोः द्वितीयं भवति श्रीमन्महाभारतम्। वेदोपबृह्मणानां मध्ये श्रीमन्महाभारतम् उत्तमोत्तमं भवति। परमकारुणिकेण भगवता महर्षिणा कृतमित् -

कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम्।

को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत्॥ इत्यनेन ज्ञायते। इतिहासत्वं च श्रीमन्महाभारतस्यैव मुख्यं, ऋग्वेदं, सामवेदं, यजुर्वेदमथर्वमवेदमितिहासपुराणं पञ्चमम् इति छान्दोग्योपनिषदि इतिहासपुराणनाम्ना निर्दिष्टं वर्तते॥

यस्य द्वैपायनः पुत्रस्स्वयं विष्णुरजायत।

प्रकाशो जनितो येन महाभारत चन्द्रमाः॥ इति मत्स्यपुराणे।

बिभेति गहनाच्छास्त्रान्नरस्तीव्रादिवौषधात्।

भारतश्शास्त्रसारोऽयमतः काव्यात्मना कृतः॥

आस्तिक्यारोहसोपानमेतद्भारतमुच्यते।

तच्छ्रुत्वा स्वर्गनरकौ लोकस्साक्षादिवेक्षते॥

अजिह्मो भारतः पन्था निर्वाणपथगामिनाम्।

मोक्षधर्मार्थकामानां प्रपञ्चो भारते कृतः॥

एवंविधं भारतं वै प्रोक्तं येन महात्मना।

सोऽयन्नारायणस्साक्षाद्वयासरूपी महामुनिः॥

कार्ष्ण्यं वेदं पञ्चमं तद्न्महाभारतं स्मृतम्॥ इति भविष्यत्पुराणे।

 

                                                  ..... अनुवर्तते.......,

Sunday 11 April 2021

श्रीमद्रामायणम् Part VII (श्रीमद्रामायणस्य साहित्यिकं महत्त्वम्)

 


    श्रीमद्वाल्मीकिप्रणीतमेतदादिमहाकाव्यं श्रीमद्रामायणं संस्कृतवाङ्मयस्य अनुपमं रत्नभूतं विद्यते। काव्यक्षेत्रे एतस्य        विलक्षणं साहित्यिकं महत्त्वं वर्तते। तद्यथा -

1.  रसः - मा निषाद प्रतिष्ठां त्वगमः शाश्वतीः समाः।

         यत्क्रौञ्चमिथुनादेकम् अवधीः कामकोहितम्॥ इति क्रौञ्चवधरूपकारुण्यद्योतनघचनात् उद्भूतरामायणे ग्रन्थे करुणरसस्य एव प्राधान्यम् - रामायणे हि करुणो रसः।     नवरुचिरं ग्रन्थरत्नमेतत् श्रीमद्रामायणम्। अत्र यथास्थानं सर्वेषामपि रसानामभिव्यक्तिश्च दृश्यते। तत्र विप्रलम्भशृङ्गारस्य तथा करुणरसस्य चाभिव्यक्तौ चरमोत्कर्षत्वं लक्ष्यते॥

2.  छन्दः - श्रीमदादिकविवाल्मीकिमुखात् निर्गतस्य अनुष्टुभ् छन्दसः एव अत्र प्राधान्यं वर्तते। सर्गान्ते उपजाति- भुजङ्गप्रयात-पुष्पिताग्रा इत्यादीनि अन्यच्छन्दांसि अपि लभ्यन्ते॥

3.  अलङ्कारः - श्रीमद्रामायणे अनुप्रास-यमक-उपमा-रूपक-उत्प्रेक्षा-अर्थान्तरन्यासादि शब्दार्थालङ्काराः स्वाभाविक-तया प्रयुक्ताः॥

4.  भाषा भावश्च - श्रीमद्रामायणे काव्यसौन्दर्यदृष्ट्या भाषा सहजा सरला प्रवाहात्मिका च वर्तते॥

5.  पञ्चसन्धयः - श्रीमद्रामायणे मुखसन्धिः, प्रतिमुखसन्धिः, गर्भसन्धिः, विमर्शसन्धिः, निर्वहणसन्धिश्च इत्यादि पञ्चसन्धयः यथासन्दर्भं प्रयुङ्क्ताः दृश्यन्ते॥

इत्थं रघुवंशं, जानकीहरणम्, रामायणचम्पूः,उत्तररामचरितम् इत्यादि ग्रन्थानाम् उपजीव्यत्वात् श्रीमद्रामायणस्य काव्य-वैशिष्ट्यं, साहित्यिकमहत्त्वं च स्वयमेव सिद्ध्यति॥

Thursday 8 April 2021

श्रीमद्रामायणम् Part VI (श्रीमद्रामायणस्य उपजीव्यत्वम् उत प्रेरकत्वम्)

 

    महाकाव्यं श्रीमद्रामायणं परवर्तिनां काव्यानां नाटकानां चोपजीव्यत्वेन संस्तूयते। महाकाव्यमेतदाश्रित्य प्रवृत्तानि कानिचित् काव्यानि नाटकानि च उदाह्रियन्ते . . . . ,

श्रीमद्रामायणनाम्ना अन्यग्रन्थाः -

1.  अध्यात्मरामायणम्,      2. अद्भुतरामायणम्,

3. अगस्त्यरामायणम्,       4. आनन्दरामायणम्,

5. मयन्दरामायणम्,         6. भुसुण्डिरामायणम्।

काव्यग्रन्थाः -

   1. महाकविना कालिदासेन कृतं रघुवंशमहाकाव्यम्,

   2. महाकविना कुमारदासेन कृतं जानकीहरणम्,

  3. महाकविना प्रवरसेनेन कृतं सेतुबन्धमहाकाव्यम्,

  4. महाकविना भट्टिना कृतं रावणवधमिति भट्टिमहाकाव्यम्,

  5. महाकविना क्षेनेन्द्रेण कृतं रामायणमञ्जरी।

नाटकानि -

  1. महाकविना भासेन कृतम् प्रतिमानाटकम् अभिषेकनाटकञ्च,

  2. महाकविभवभूतिना कृतं महावीरचरितम् उत्तररामचरितञ्च,

  3. महाकविना मुरारिना कृतम् अनर्घराघवम्,

  4. महाकविना राजशेखरेण कृतं बालरामायणम्,

  5. महाकविना दिङ्नागेन कृतं कुन्दमालानाटकम्,

  6. महाकविना जयदेवेन कृतं प्रसन्नराघवम्,

  7. महाकविना दामोदरमिश्रेण कृतं हनुमन्नाटमिति महानाटकम्।       

चम्पूकाव्यानि -

  1. महाराजेन भोजेन कृता रामायणचम्पूः,

  2. महाकविना अनन्तभट्टेण कृता रामकथा,

  3. महाकविना वेङ्कटाध्वरिणा कृता उत्तरचम्पूः,

  4. महाकविना लक्ष्मणभट्टेण कृतं चम्पूरामायणम्।   

Tuesday 6 April 2021

श्रीमद्रामायणम् Part V (श्रीमद्रामायणकालीनः समाजः )


    श्रीमद्रामायणकालिकसमाजे परिवारस्य स्वरूपं पितृसत्तात्मकं आसीत्। यथा - पितरि शुश्रूषा तस्य वा वचनक्रिया। अयोध्यातः पितुराज्ञया एव रामः वनं अगच्छत्। पतिव्रताः - स्त्रीषु सीता-अनसूया-कौशल्या-सुलोचना इत्यादीनां नामानि प्रसिद्धानि आसन्। तद्यथा - स्त्रीणाम् आर्यस्वभावानां परमं दैवतं पतिः। शिक्षायाः स्वरूपं मौखिकम् आसीत्। बालकाः प्रायः गुरुकुलेषु आचार्याणां सान्निध्ये उषित्वा अध्ययनं कुर्वन्ति स्म। राजकुलानां बालकानां कृते अन्याभिः विद्याभिः कलाभिश्च सह सैन्यविद्यायाः अध्ययनमनिवार्यमासीत्। वेदविद्यायाः अध्ययनमपि सर्वेभ्य एव अत्यावश्यकमसीत्। तदानीं, ब्राह्मण-क्षत्रिय-वैश्य-शूद्राः इति चत्वारः वर्णाः, ब्रह्मचर्य-गृहस्थ-वानप्रस्थ-सन्न्यासाः इति चत्वारः आश्रमाः, गर्भाधान-जातकर्म-नामकरण-अन्नप्राशन-यज्ञोपवीताः इत्यादयः षोडशसंस्काराश्च प्रचलिताः आसन्॥

    वाल्मीकि-भरद्वाज-विश्वामित्रादि ऋषीणाम् आश्रमेषु निरन्तरं यज्ञ-अग्निहोत्र-वेदाध्ययन-युद्धविद्यादीनाम् अध्ययनं भवति स्म। रामायणकालीनसमाजे अष्टविधाः विवाहाः प्रचलिताः आसन्॥

       इत्थं रामायणे उल्लिखितैः अनेकैः उदाहरणैः स्पष्टं भवति यत् तदानीं भारतीयसमाजस्य स्थितिः उन्नता आसीत्। समाजे सर्वेषामेव सुख-सौविध्यानि एवम् उन्नतेः अवसराः संप्राप्ताः आसन्। अद्यापि प्रायः इदमेव मन्यते यत् रामायणकालीनसमाजः सर्वप्रकारेण समुन्नतः, समृद्धः, आदर्शपूर्णः, सुदृढः, सुसङ्घटितश्च आसीत्॥

Monday 5 April 2021

श्रीमद्रामायणम् Part IV (श्रीमद्रामायणस्य कालक्रमः)

 


    विद्वांसः श्रीमद्रामायणस्य रचनाकालं निम्नाङ्कितप्रकारेण स्थिरीकुर्वन्ति।

1. मगधनरेशः अजातशत्रुः (500 क्रि.पू) पाटलिपुत्रस्य स्थापनां कृतवान्। अनेनैव राज्ञा शत्रोराक्रमणात् रक्षार्थं गङ्गानदी-शोणानद्योः सङ्गमस्थले दुर्गमेकं निरमिमीत। श्रीमद्रामायणे गङ्गानदी-शोणानद्योः सङ्गमात् श्रीराम(वन)गमनं वर्णितमस्ति। किन्तु दुर्गस्य उल्लेखनं नास्ति। अतः  श्रीमद्रामायणस्य रचनाकालः 500 क्रि.पू प्रागेव सिद्ध्यति॥

2. श्रीमद्रामायणे कोशलनरेशस्य राजधानी अयोध्या इति वर्णिता अस्ति। परन्तु बौद्ध-जैनग्रन्थेषु नगरमिदं साकेत नाम्ना प्रसिद्धं दृश्यते। श्रीरामपुत्रो लवः, स्वराजधानीं श्रावस्त्यां स्थापितवान्। बुद्धस्य समये कौशलनरेशः श्रावस्त्यामेव राज्यं करोति स्म। अतः श्रीमद्रामायणस्य रचना बुद्धात् प्रागेव भवितुमर्हति॥

3. श्रीमद्रामायणे विशाला मिथिला चेति द्वे राज्ये वर्णिते भवतः। बुद्धस्य समये एते द्वे नगर्यौ अपि वैशाली-राज्यान्तर्गतमेव वर्णिते भवतः। अनेनैव प्रमाणेन श्रीमद्रामायणं बुद्धादपि प्राचीनमिति सिद्ध्यति॥

    इत्थं श्रीमद्रामायणस्य रचना संहितायाः एवं ब्राह्ममकालस्य च पश्चात् तथा बौद्धकालात् प्राक् अर्थात् 500 क्रि.पू सञ्जाता भवेत्। अतः श्रीमद्रामायणस्य रचनाकालः 500 क्रि.पू प्रागेव स्वीकर्तव्यः इति समीचीनं प्रतिभाति॥

XSABARI (SABARl)

  XSABARI (SABARl)   XSABARI (SABARl) was an aged woman of the tribe of forest-dwellers. Sri Rama, during his life in the forest, gave h...