Sunday, 11 April 2021

श्रीमद्रामायणम् Part VII (श्रीमद्रामायणस्य साहित्यिकं महत्त्वम्)

 


    श्रीमद्वाल्मीकिप्रणीतमेतदादिमहाकाव्यं श्रीमद्रामायणं संस्कृतवाङ्मयस्य अनुपमं रत्नभूतं विद्यते। काव्यक्षेत्रे एतस्य        विलक्षणं साहित्यिकं महत्त्वं वर्तते। तद्यथा -

1.  रसः - मा निषाद प्रतिष्ठां त्वगमः शाश्वतीः समाः।

         यत्क्रौञ्चमिथुनादेकम् अवधीः कामकोहितम्॥ इति क्रौञ्चवधरूपकारुण्यद्योतनघचनात् उद्भूतरामायणे ग्रन्थे करुणरसस्य एव प्राधान्यम् - रामायणे हि करुणो रसः।     नवरुचिरं ग्रन्थरत्नमेतत् श्रीमद्रामायणम्। अत्र यथास्थानं सर्वेषामपि रसानामभिव्यक्तिश्च दृश्यते। तत्र विप्रलम्भशृङ्गारस्य तथा करुणरसस्य चाभिव्यक्तौ चरमोत्कर्षत्वं लक्ष्यते॥

2.  छन्दः - श्रीमदादिकविवाल्मीकिमुखात् निर्गतस्य अनुष्टुभ् छन्दसः एव अत्र प्राधान्यं वर्तते। सर्गान्ते उपजाति- भुजङ्गप्रयात-पुष्पिताग्रा इत्यादीनि अन्यच्छन्दांसि अपि लभ्यन्ते॥

3.  अलङ्कारः - श्रीमद्रामायणे अनुप्रास-यमक-उपमा-रूपक-उत्प्रेक्षा-अर्थान्तरन्यासादि शब्दार्थालङ्काराः स्वाभाविक-तया प्रयुक्ताः॥

4.  भाषा भावश्च - श्रीमद्रामायणे काव्यसौन्दर्यदृष्ट्या भाषा सहजा सरला प्रवाहात्मिका च वर्तते॥

5.  पञ्चसन्धयः - श्रीमद्रामायणे मुखसन्धिः, प्रतिमुखसन्धिः, गर्भसन्धिः, विमर्शसन्धिः, निर्वहणसन्धिश्च इत्यादि पञ्चसन्धयः यथासन्दर्भं प्रयुङ्क्ताः दृश्यन्ते॥

इत्थं रघुवंशं, जानकीहरणम्, रामायणचम्पूः,उत्तररामचरितम् इत्यादि ग्रन्थानाम् उपजीव्यत्वात् श्रीमद्रामायणस्य काव्य-वैशिष्ट्यं, साहित्यिकमहत्त्वं च स्वयमेव सिद्ध्यति॥

No comments:

Post a Comment

PANDYAS OF TAMIL NADU AND THE SANSKRIT SOURCES

  The Pandyas were one of the ancient and important Tamil dynasties of South India. Their kingdom occupied the southern part of present-da...