Monday, 5 April 2021

श्रीमद्रामायणम् Part IV (श्रीमद्रामायणस्य कालक्रमः)

 


    विद्वांसः श्रीमद्रामायणस्य रचनाकालं निम्नाङ्कितप्रकारेण स्थिरीकुर्वन्ति।

1. मगधनरेशः अजातशत्रुः (500 क्रि.पू) पाटलिपुत्रस्य स्थापनां कृतवान्। अनेनैव राज्ञा शत्रोराक्रमणात् रक्षार्थं गङ्गानदी-शोणानद्योः सङ्गमस्थले दुर्गमेकं निरमिमीत। श्रीमद्रामायणे गङ्गानदी-शोणानद्योः सङ्गमात् श्रीराम(वन)गमनं वर्णितमस्ति। किन्तु दुर्गस्य उल्लेखनं नास्ति। अतः  श्रीमद्रामायणस्य रचनाकालः 500 क्रि.पू प्रागेव सिद्ध्यति॥

2. श्रीमद्रामायणे कोशलनरेशस्य राजधानी अयोध्या इति वर्णिता अस्ति। परन्तु बौद्ध-जैनग्रन्थेषु नगरमिदं साकेत नाम्ना प्रसिद्धं दृश्यते। श्रीरामपुत्रो लवः, स्वराजधानीं श्रावस्त्यां स्थापितवान्। बुद्धस्य समये कौशलनरेशः श्रावस्त्यामेव राज्यं करोति स्म। अतः श्रीमद्रामायणस्य रचना बुद्धात् प्रागेव भवितुमर्हति॥

3. श्रीमद्रामायणे विशाला मिथिला चेति द्वे राज्ये वर्णिते भवतः। बुद्धस्य समये एते द्वे नगर्यौ अपि वैशाली-राज्यान्तर्गतमेव वर्णिते भवतः। अनेनैव प्रमाणेन श्रीमद्रामायणं बुद्धादपि प्राचीनमिति सिद्ध्यति॥

    इत्थं श्रीमद्रामायणस्य रचना संहितायाः एवं ब्राह्ममकालस्य च पश्चात् तथा बौद्धकालात् प्राक् अर्थात् 500 क्रि.पू सञ्जाता भवेत्। अतः श्रीमद्रामायणस्य रचनाकालः 500 क्रि.पू प्रागेव स्वीकर्तव्यः इति समीचीनं प्रतिभाति॥

No comments:

Post a Comment

SEVEN FASCINATING TOPICS FROM SANSKRIT LITERATURE - 7. THE KATHASARITSAGARA

  THE KATHĀSARITSĀGARA: AN OCEAN OF INTERTWINED STORIES The Kathāsaritsāgara , meaning “The Ocean of the Streams of Stories,” is one of t...