Thursday, 14 January 2021

श्रीमद्रामायणम् Part III

 श्रीमद्रामायणे आख्यानानि -

    आदिकाव्ये श्रीमद्रामायणे रामकथामतिरिच्य कानिचन मूलकथायाः सम्बद्धानि, कानिचन प्रासङ्गिकरूपेण च आख्यानानि उपलभ्यन्ते। तानि -

1. शुनःशेफाख्यानम् (हरिश्चन्द्रोपाख्यानम्) - अत्र महर्षिविश्वामित्रस्य उपदेशेन अजीगर्तपुत्रः शुनःशेफः वरुणदेवं पूजयित्वा स्वस्य प्राणरक्षां कृतवान्॥

2. ऋष्यशृङ्गाख्यानम् (बालकाण्डे) - ऋष्यशृङ्गः अङ्गदेशाधिपतेः रोमपादस्य जामाता आसीत्। एतस्यैव ऋष्यशृङ्गस्य आध्यक्ष्ये महाराजः दशरथः पुत्रकामेष्टियागं चकार॥

3. गङगावतरणाख्यानम् (बालकाण्डे) - राज्ञः सगरस्य अश्वमेधयज्ञादारभ्य तस्य प्रपौत्रेण भगीरथेन महता तपोबलेन पृथिव्यां गङगावतरणस्य कथा वर्णिता अस्ति॥

एतदतिरिच्य श्रीमद्रामायणे मरुतानामुत्पत्त्याख्यानम्, अहल्यो-द्धारणाख्यानम्, कार्तिकेयोत्पत्त्याख्यानम्, मैत्रावरुणाख्यानम्, अष्टावक्राख्यानम्, मेनका-विश्वामित्राख्यानम्, पुरूरवाख्यानम् इत्यादीनि उल्लिखितानि विराजन्ते॥

                                           
                                                         ..... अनुवर्तते.......,

No comments:

Post a Comment

ĀVAṆI 1 AND ṢAṢṬHĪ VRATA - 18th August 2026

  On 18 August 2026, Tamil Nadu observes Āva ṇ i 1, the first day of the auspicious Tamil month of Āva ṇ i. The day also coincides with Śu...