Friday, 1 January 2021

इतिहासपुराणानि Part V - श्रीमद्रामायणम् Part I

 


आदिकविर्वाल्मीकिः, तेन विरचितं महाकाव्यं श्रीमद्रामायणं विशिष्टेनोदात्तत्वेन, भाषाया माधुर्य-ओज-प्रसादादिगुणैः समन्वितेन, रचनाशैल्याः प्राञ्चलतया, भावानानां मनोहारिण्या विवृत्त्या, सर्वेषां रसानां यथास्थानं उपन्यासात्, भारतीयायाः संस्कृतेः विशदं विवरणात्, तात्कालिकसभ्यतायाः सुस्पष्टचित्रणेन, आचारसंहितायाः सङ्कलनेन, नीतिशिक्षायाः सङ्ग्रहेण, आयुर्वेद-धनुर्वेद-गान्धर्ववेदादीनां यथायथञ्च उपयोगात्, गाम्भीर्येण, अर्थगौरवेण, ललितपदपद्धत्याः, अलङ्काराणां सुनियोजनेन, छन्दसां सङ्गीतात्मकत्वेन च विशालेऽस्मिन् काव्यमयाकाशे प्रकर्षेण चकास्तितमाम्। अत एव भूयो भूयो महाकाव्यमिदं संस्तूयते प्रशस्यते चाभिवन्द्यते इदानीमपि विद्वद्धौरेयैर्विदग्धैः इत्यत्र न कोऽपि संशयः॥

 

                           ..... अनुवर्तते.......,

No comments:

Post a Comment

PANDYAS OF TAMIL NADU AND THE SANSKRIT SOURCES

  The Pandyas were one of the ancient and important Tamil dynasties of South India. Their kingdom occupied the southern part of present-da...