Tuesday 6 October 2020

इतिहासपुराणानि Part IV

 श्रीमद्रामायण-श्रीमन्महाभारतयोः इति द्वयोः इतिहासयोः श्रीमद्रामायणं पुरातनम्। श्रीमद्रामायणे दृश्यमानानां वर्ण्यमानानां रघु-दशरथ-रामप्रभृतीनां सूर्यवंशीयानां  राज्ञां, वसिष्ठ-विश्वामित्र-अगस्त्य-भरद्वाजादिमहर्षीणां, वालि-सुग्रीवनामयोः सहोदरयोः, रावण-कुम्भकर्ण-विभीषणानामानां भ्रातॄणां, हनुमान्, जाम्बवान् इति  नेतॄणां नायकानांश्च अनेककथापात्राणां वर्णनं श्रीमन्महाभारतेऽपि लभ्यते। श्रीमन्महाभारते वनपर्वणि युधिष्ठिरसमाश्वसनरूपेण "रामोपाख्यानम्" इति कथनं सर्वैरपि  ज्ञातुं द्रष्टुं च शक्यते॥   

 

                                        ..... अनुवर्तते.......,

Monday 5 October 2020

इतिहासपुराणानि Part III

 इतिहासः इत्यस्य निरुक्तदिशा "इति ह आस" अर्थात् इत्थम् आसीत्     उत एवं समभवत् इत्यर्थसिद्धिः। अतः पुरा संभूतानि चरितानि बहूनि इतिहास तथा पुराणात्मकानि भवन्ति। वस्तुतः आख्यानमित्यस्य पुरातनकथनमित्येव भवति। संस्कृतभाषायां विद्यमानानि कथाख्यानादीनि इतिहासपुराणसंज्ञया, इतराणि अन्यानि काव्यसंज्ञया   च व्यपदिश्यन्ते। संस्कृतभाषायां द्वे इतिहासे भवतः। ते श्रीमद्रामायणं श्रीमन्महाभारतञ्च। तयोः इतिहासयोः द्वयोः श्रीमद्रामायणं प्रथमं तथा श्रीमन्महाभारतं द्वितीयमिति सर्वपण्डितपिण्डितसम्मतम्॥

Sunday 4 October 2020

इतिहासपुराणानि Part II

         इतिहासपुराणसमयस्तावत्  संस्कृतवाङ्मयस्य वैदिकलौकिक-कालयोरन्तरेऽर्धपथो भवति। इतिहासपुराणेषु लौकिकसंस्कृतापेक्षया वैदिकसंस्कृतसमानतया आर्षिकशब्दप्रयोगाः वैयाकरणात् स्वतन्त्राः आर्षत्वात् साधवः इति अमन्यन्त। आख्यान-इतिहास-पुराणादि शब्दाः वेदैः पूर्वं प्रतिपाद्यमानत्वात्  "इतिहासपुराणाभ्यां वेदः समुपबृंहयेत्" इति सूक्तिमनुसृत्य इतिहासपुराणादयः वैदिकविषयाविष्करणाय महर्षिवचोभिः परिपुष्टा जाता। यम-यमीसंवादः, पुरूरव-ऊर्वशीसंवादः इत्यादीनि आख्यानानि वैदिक-साहित्येषु नाटकीय-आख्यायिकभूताः बहवः अंशाः दृश्यन्ते। प्रायशः एतद्युज्यते यत् वैदिकाः अर्वाचीन-नाटकीयांशैः, लौकिकाः पुरातनीयैः आख्यायिकांशैश्च निवेशिताः इत्यत्र न कोऽपि संशयः वर्तते॥      

                                             ..... अनुवर्तते.......,

Saturday 3 October 2020

इतिहासपुराणानि Part I

     "भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा" इति आभाणकः अस्माकं भारतदेशस्य संस्कृतभाषा तथा अस्माकं भारतीयानांच संस्कृतिश्च अनितरसाधारणा तथा समस्तलोकसमेषां सम्मता इति उद्घोषयति। एतद्विषयं करतलामलकीकरोति अस्माकं भारतदेशस्यश्रीमद्रामायणं श्रीमन्महाभारतमिति इतिहासद्वयम्। श्रीमद्रामायण-महाभारत-मितीतिहासद्वयं चतुर्वेदानां तथा तत्तद्वेदानां षड्वेदाङ्गानां च सारं निष्पिष्य सर्वान् मानवान् नेये मार्गे नयन् समस्तलोकपावनात्मकं  सुषमया शोभयद्विराजते। समस्तजनपावनं सकललोकपापशमार्हं सर्वशास्त्रातिरिक्तसारं समस्तसाक्षराणां नेत्रात्मकं विलसति एतदितिहासद्वयम्॥

                                                ..... अनुवर्तते.......,

Friday 2 October 2020

ज्यौतिषम् Part VII

    भगवाञ्चतुर्मुखब्रह्मा जैमिनिमहर्षिमुखेण ज्यौतिषशास्त्रं प्रवर्तितवान्। सः जैमिनिमहर्षिः ज्यौतिषशास्त्रं सूत्ररूपेण उपादिदेश। "उपदेशं व्याख्यास्यामः" इति प्रथमसूत्रं भवति। भगवाञ्चतुर्मुखब्रह्मा ज्यौतिषशास्त्रं  नारदमहर्ष्यारभ्य इतरबहुभ्यः महर्षिभ्योऽपि उपादिदेश, तत्  नारदमहर्षिः नारदसंहिता इति स्वकीये ग्रन्थे     

ब्रह्माऽऽचार्यो वसिष्टोऽत्रिः मनुः पौलस्त्यरोमशौ। 

मरीचिरङ्गिराव्यासः नारदः शौनको भृगुः॥                       

श्यवनो यवनो गर्गः कश्यपश्च पराशरः।                           

अष्टादशैते गम्भीराः ज्योतिश्शास्त्रप्रवर्तकाः॥                  

इत्यतिशयेन उल्लिलेख। इतोऽपि वराहमिहिरः, कल्याणवर्मन्, मन्दिरेश्वरः, कालिदासः इत्यादयः महाकवयः महर्षयश्च बृहज्जातकम्, सारावलिः, फलदीपिका, ज्योतिर्विदाभरणम् इत्यादीन् बहुग्रन्थान् व्यरचयन्॥

Thursday 1 October 2020

ज्यौतिषम् Part VI

अप्राप्यप्राप्तिः योगः, प्राप्तरक्षणं क्षेमः, तदेव योगक्षेमः इति सर्वैः ज्ञायते। तत्तु ज्यौतिषशास्त्रेण प्राप्तुं शक्यते। इतोऽपि एतद्विषयः ज्ञातव्यः यत् अधोलिखितः एकः बृहत्पाराशर्यहोराशास्त्रश्लोकः                                      अहोरात्राद्यन्तलोपात् होरेति प्रोच्यते बुधैः।                                  तस्य  हि  ज्ञानमात्रेण  जातकर्मफलं  वदेत्॥                          अर्थात् अहोरात्र इति पदस्य आद्यन्तात्मकयोः अ-त्र इति वर्णयोः लोपेण होरा इति शब्दः जायते। होरा अथवा लग्नः इत्यस्य ज्ञानमात्रेण मानवानां जातककर्मणः शुभाशुभफलं वक्तुं शक्यते॥

 

 

                                    ..... अनुवर्तते.......,

XSABARI (SABARl)

  XSABARI (SABARl)   XSABARI (SABARl) was an aged woman of the tribe of forest-dwellers. Sri Rama, during his life in the forest, gave h...