Friday, 2 October 2020

ज्यौतिषम् Part VII

    भगवाञ्चतुर्मुखब्रह्मा जैमिनिमहर्षिमुखेण ज्यौतिषशास्त्रं प्रवर्तितवान्। सः जैमिनिमहर्षिः ज्यौतिषशास्त्रं सूत्ररूपेण उपादिदेश। "उपदेशं व्याख्यास्यामः" इति प्रथमसूत्रं भवति। भगवाञ्चतुर्मुखब्रह्मा ज्यौतिषशास्त्रं  नारदमहर्ष्यारभ्य इतरबहुभ्यः महर्षिभ्योऽपि उपादिदेश, तत्  नारदमहर्षिः नारदसंहिता इति स्वकीये ग्रन्थे     

ब्रह्माऽऽचार्यो वसिष्टोऽत्रिः मनुः पौलस्त्यरोमशौ। 

मरीचिरङ्गिराव्यासः नारदः शौनको भृगुः॥                       

श्यवनो यवनो गर्गः कश्यपश्च पराशरः।                           

अष्टादशैते गम्भीराः ज्योतिश्शास्त्रप्रवर्तकाः॥                  

इत्यतिशयेन उल्लिलेख। इतोऽपि वराहमिहिरः, कल्याणवर्मन्, मन्दिरेश्वरः, कालिदासः इत्यादयः महाकवयः महर्षयश्च बृहज्जातकम्, सारावलिः, फलदीपिका, ज्योतिर्विदाभरणम् इत्यादीन् बहुग्रन्थान् व्यरचयन्॥

No comments:

Post a Comment

SEVEN FASCINATING TOPICS - 5 MEGHADUTA

      MEGHADUTA: THE CLOUD MESSENGER POETRY   Meghadūta (“The Cloud Messenger”) is one of the most celebrated lyrical poems of Kālidāsa ,...