Sunday, 4 October 2020

इतिहासपुराणानि Part II

         इतिहासपुराणसमयस्तावत्  संस्कृतवाङ्मयस्य वैदिकलौकिक-कालयोरन्तरेऽर्धपथो भवति। इतिहासपुराणेषु लौकिकसंस्कृतापेक्षया वैदिकसंस्कृतसमानतया आर्षिकशब्दप्रयोगाः वैयाकरणात् स्वतन्त्राः आर्षत्वात् साधवः इति अमन्यन्त। आख्यान-इतिहास-पुराणादि शब्दाः वेदैः पूर्वं प्रतिपाद्यमानत्वात्  "इतिहासपुराणाभ्यां वेदः समुपबृंहयेत्" इति सूक्तिमनुसृत्य इतिहासपुराणादयः वैदिकविषयाविष्करणाय महर्षिवचोभिः परिपुष्टा जाता। यम-यमीसंवादः, पुरूरव-ऊर्वशीसंवादः इत्यादीनि आख्यानानि वैदिक-साहित्येषु नाटकीय-आख्यायिकभूताः बहवः अंशाः दृश्यन्ते। प्रायशः एतद्युज्यते यत् वैदिकाः अर्वाचीन-नाटकीयांशैः, लौकिकाः पुरातनीयैः आख्यायिकांशैश्च निवेशिताः इत्यत्र न कोऽपि संशयः वर्तते॥      

                                             ..... अनुवर्तते.......,

No comments:

Post a Comment

PANDYAS OF TAMIL NADU AND THE SANSKRIT SOURCES

  The Pandyas were one of the ancient and important Tamil dynasties of South India. Their kingdom occupied the southern part of present-da...