Monday 31 August 2020

शिक्षा Part III

 

        शिक्षाग्रन्थानामुद्देश्यं न केवलं वर्णोच्चारणशुद्धये अपि तु शिष्ठा-चारादि शीलसंरक्षणाय च। व्यास-लक्ष्मी-भारद्वाज-आरण्य-शम्भु-आपिशली-पाणिनि-कौहलीय-वासिष्ठशिक्षाः इति प्रधानशिक्षाः नव, याज्ञ्यवल्क्य- आत्रेय-नारदीय-गौतम-लोमश-कौण्डिन्य-प्लाक्षायम-अगस्त्य-व्याळिशिक्षाः इति उपशिक्षाः नव इति आहत्य अष्टादशशिक्षाः सन्ति। शिक्षाग्रन्थानां मुख्योद्देस्श्यं वेदग्रन्थानां रक्षणमेव॥

                                                ..... अनुवर्तते......., 

Sunday 30 August 2020

शिक्षा Part II


वेदमन्त्राणामुच्चारणं तावत् उत्तमरूपेण भवितव्यम्। अत एव-

यथा व्याघ्री हरेत् पुत्रान् दंष्ट्राभिर्न च पीडयेत्।

भीता-पतनभेदाभ्यां तद्वद्वर्णान् प्रयोजयेत्॥

एवं वर्णाः प्रयोक्तव्याः नाव्यक्ता न च पीडिताः॥30,31 इति  नारदीयशिक्षा बोधयति। वेदमन्त्राणां वर्णानामुच्चारणक्रमे  अधो-निर्दिष्ठाः अष्ट अंशाः व्याशिक्षायां श्लोकरूपेण उपदिष्टाः सन्ति।

ध्वनिः स्थानं च करणं प्रयत्नः कालता स्वरः।

देवता जातिः एतैश्च वर्णाः ज्ञेयाः विचक्षणैः॥  अपि च –

मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह।

च वाक् वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्॥ इति प्रथितः श्लोकः वेदमन्त्राणां वर्णानामुच्चारणशुद्धिमधिकृत्य द्रढयति।

                                                ..... अनुवर्तते.......,

Saturday 29 August 2020

वेदस्य षडङ्गेषु - शिक्षा Part I


         वेदस्य षडङ्गेषु प्रथमं भवति शिक्षा"शिक्षा घ्राणं तु वेदस्य"        इति लक्षणानुसारं वेदात्मकस्य पुरुषस्य नासिकारूपेण भवति शिक्षा।  यतो हि नासिकां विना कस्यचन पुरुषस्य मुखसौन्दर्यं न प्राप्यते।     "स्वर-वर्णाद्युच्चारण-प्रकारो यत्र शिक्ष्यते उपदिश्यते सा शिक्षा" इति वेदभाष्यकारः सायणाचार्यः, शिक्षायाः लक्षणं ददौ। तैत्तिरीयोपनिषद् "अथ शीक्षां व्याख्यास्यामः, वर्णः, स्वरः, मात्रा, बलम्, साम, सन्तानः इत्युक्तः शीक्षाध्यायः" इति शिक्षायाः मुख्यत्वं बोधयति॥

                                                ..... अनुवर्तते.......,

Friday 28 August 2020

वेदाङ्गानि Part I

 

        समस्तज्ञानराश्याः न केवलम् अक्षय्यभाण्डाकारोऽस्ति वेदः अपि तु भारतीयानां प्राचीनसभ्यता-संस्कृतिः-धर्मादीनां आधारभूतः कश्चित् स्तम्भः भवतीत्यत्र न कोऽपि संशयः। वेदः मनुष्येभ्यः धर्म-अर्थ-काम-मोक्षादीनां चतुर्णां पुरुषार्थानां प्रतिपादनं तावत् तस्य षड्विधैः अङ्गैः करोति। अङ्ग्यन्ते = ज्ञायन्ते अमीभिः इति अङ्गानि। यदि अस्माभिः वेदाय पुरुष-स्वरूपं दीयते, तस्य

छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते।
ज्योतिषामयनं   चक्षुः  निरुक्तं  श्रोत्रमुच्यते ॥
शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं  स्मृतम् ॥

अर्थात् मुखं व्याकरणम्, घ्राणं शिक्षा, लोचनद्वयं ज्यौतिषम्, कर्णद्वयं निरुक्तम्, हस्तद्वयं कल्पः, पादद्वयं छन्दः इति मुख्यात्मकानि अङ्गानि षड् भवन्ति॥

 

                                                ..... अनुवर्तते......., 

Thursday 27 August 2020

सूत्रकालः (600 B.C. to 200 B.C)

 

    वेदकालादनन्तरं वेदाङ्गानां तथा तेषु मुख्यतया कल्पनाम्नः अङ्गस्य श्रौत-गृह्य-धर्म-शुल्बनामानां सूत्राणां वर्धनमासीत्यनेन सूत्रकालः इति पृथक् प्रसिद्धः कालः समजायत। तदात्वे वेदात्म-कस्य ब्राह्मणस्य काले संस्कारविशेषाः अधिकतया संवर्धिताः आसन्। तेषामवगमने तथा अनुष्ठाने च महत्कष्टमनुभूतम्। अतः तत्सुगमार्थं प्रत्येकस्य वेदस्य कल्पाख्ये वेदाङ्गे श्रौत-गृह्य-धर्म-शुल्बनामानि सूत्राणि तथा भारतदर्शनमकुट-भूतं ब्रह्मसूत्राणि च समजायन्त। एतस्य कालनिर्णयः क्रिस्तोः पूर्वं माकिं षष्ठशताब्दौ आरभ्य द्वितीयशताब्दिपर्यन्तमासीदिति सर्वेषां विदुषां सम्मतम्॥

Wednesday 26 August 2020

कतिचन वेदात्मकविषयाः

        

        एवं चतुर्णां वेदानां ज्ञानं प्राप्तेऽपि, पुनः वेदान्तर्गतानां मन्त्राणां ब्राह्मणानां आरण्यकानाम् उपनिषदां च ज्ञापनं कुर्वन्ति भाषाशास्त्र तथा भाषाचरितप्राज्ञाः। अतः अस्माभिः एतदवगन्तव्यो विषयोऽस्ति यत् मन्त्र-ब्राह्मणयोरात्मकः वेदःइति। तत्र ब्राह्मण-आरण्यक-उपनिषदिति त्रिकात्मकं भवति ब्राह्मणम्। एकैको वेदस्तावत्  स्वकीयैः ब्राह्मणैर्युक्ते विलसति। एकैकमपि ब्राह्मणं तावत् स्व-स्व-यजनकर्म-संबद्धमन्त्रान्, क्रियाकलापान्, यजनधर्मान्, प्रत्यक्षेण वा सूक्ष्मेङ्गितया वा संबद्धमिति दृश्यते। ऋग्वेदस्य अधिकारी होता इति, सामवेदस्य अधिकारी उद्गाथा इति, यजुर्वेदस्य अधिकारी अध्वर्युः इति, अथर्ववेदस्य अधिकारी ब्रह्मा इति च कथ्यते॥

                                                                                             .....अनुवर्तते....,

Tuesday 25 August 2020

अथर्ववेद: Part V

 


        अथर्ववेदस्य ब्राह्मणं पूर्वगोपथम् उत्तरगोपथमिति द्विधा        विभक्तं गोपथब्राह्मणमिति एकमेव उपलब्धमस्ति अथर्ववेदस्य    शिक्षाग्रन्थः माण्डूकी शिक्षा इत्युच्यते। अथर्ववेदस्य व्याकरणात्मकं प्रातिशाख्यं अथर्ववेदीय-प्रातिशाख्यमित्यस्ति। अथर्ववेदस्य    नक्षत्रकल्पः, वैतानश्रौतसूत्रं, संहिताविध्यात्मक-कौशिकगृह्यसूत्रं, आङ्गिरसकल्पः, शान्तिकल्पः इति पञ्चविधकल्पेषु कल्पद्वय-मेवोपलभ्यते। अथर्ववेदस्य 31 उपनिषदः संबद्धाः अपि प्रश्न-      मुण्डक-माण्डूक्योपनिषदः मुख्यतया मन्यन्ते।  अथर्ववेदस्य        ज्यौतिषम् आथर्वणज्यौतिषमिति नाम्ना 162 पद्यात्मकत्वेन       दृश्यते॥

Monday 24 August 2020

अथर्ववेदः Part IV



        अथर्ववेदः ब्रह्मविषयकदार्शनिकसिद्धान्ताः, भैषज्य-कर्माणि, दुःस्वप्न-दुःशकुननिवारणाय शान्तिकर्माणि तथा पौष्टिककर्माणि, राजनीति, राष्ट्रिय-सामाजिक-पारिवारिक-राजनीतिक-धार्मिक-सामञ्जस्यार्थं मर्त्यानां परस्परसौहार्दभावनाः, अनिष्टदूरीकरणार्थं क्षमायाचना, देवप्रार्थना, प्रायश्चित्तादि कर्माणि, स्वास्थ्य तथा दीर्घायुष्प्राप्त्यर्थम् आयुष्यकर्माणि, दैत्य-राक्षस-शत्रूणां मारण-मोचन-उच्चाटन-वशीकरणादि अभिचार-कर्माणि चेत्यादीनि समग्रं संयक् प्रतिपादयति॥

                                                       ..... अनुवर्तते......., 



Sunday 23 August 2020

अथर्ववेद: Part III

 


        अथर्ववेदस्य पैप्पलाद, तौद, मौद, शौनक, जाजल, जलद,      ब्रह्मवद, देवदर्श, चारणवैद्य इति नवशाखाः सन्ति। एतासु  शौनक-      शाखा पूर्णतया तथा पैप्पलादशाखा तु अपूर्णतया च एवोपलभ्यन्ते,        न तु अन्याः। अथर्ववेदे 20 काण्डाः, 730 सूक्तानि, 36 प्रपाठकाः,      5987 मन्त्राश्च वर्तन्ते॥

Saturday 22 August 2020

अथर्ववेद: Part II

         


        आदौ चतुर्मुखब्रह्मा लोकसृजने समये भृगु नामानं महर्षिमसृजत्। तमेव भृगु नामानं महर्षिं ब्रह्मा "अथर्वाऽनमेतास्वे-वाप्स्वन्विच्छ"  इति मन्त्रेण अथर्वा इति आहूतवानिति कारणेन, तथा अनन्तरं जलेन आवृतो भूत्वा ब्रह्मा अङ्गिरा नामानं महर्षिमसृजत्। अनेन अथर्ववेदस्य अपरनाम अथर्वाङ्गिरोवेदः

      यज्ञकर्मसु ब्रह्मत्वप्रतिपादनेन, ब्रह्मविषयक दार्शनिकचिन्तन-गाथात्मकेन, ब्रह्मानाम्ना महर्षिणा दृष्टानां मन्त्रसङ्कलनेन च अथर्ववेदस्य अपरनाम ब्रह्मवेदः

      विभिन्नरोगानां तथा तेषाम् ओषधीभिः शमनत्वप्रयोगाः बहवः अस्मिन् वेदे चर्चीक्रियन्ते इत्यनेन अथर्ववेदस्य अपरनाम भिषग्वेदः

            स्वराज्यरक्षणार्थं राजकर्मसंबन्धितानि बहूनि सूक्तानि अस्मिन् वेदे उपलभ्यन्ते इत्यनेन अथर्ववेदस्य अपरनाम क्षत्रवेदः

Friday 21 August 2020

अथर्ववेदः Part I

       

          छन्दो निबद्धः ऋग्वेदः, गानात्मकः सामवेदः, गद्यात्मकः यजुर्वेदः  इति त्रयी नामसु वेदत्रयेषु अथर्ववेदः नान्वितोऽपि, तेषां त्रयाणां      वेदानां गुणैः अर्थात् छन्दसान्वितं, गानान्वितं, गद्यान्वितमिति त्रिभिः गुणैः अन्वितो विराजते।  अथर्ववेदस्य अथर्वाङ्गिरोवेदः, ब्रह्मवेदः, भिषग्वेदः, तथा क्षत्रवेदः इति अपरानि नामानि वर्तन्ते। थुर्वी हिंसने    इति धातोः निष्पन्नोऽयं शब्दः वैदिकशब्दानां परोक्षवृत्तिसाधर्म्यानाम्  आधारे थुर्वी इति धातुः थर्व इति रूपे परिणतोऽभवत्। अतः,              यतः हिंसा न भवेत् तस्य नाम अथर्वः इत्यर्थसिद्धिः॥  

                                                      ..... अनुवर्तते......., 

Thursday 20 August 2020

यजुर्वेद: Part V

         

        कृष्णयजुर्वेदस्य षडशीतिशाखासु (86) अद्यत्वे केवलं तैत्तिरीय,मैत्रायणी,कठ,कपिष्ठल नाम्ना चतस्रः शाखाः एव    उपलभ्यन्ते। कृष्णयजुर्वेदस्य मन्त्रम्, ब्राह्मणम्, आरण्यकम्        इत्यादयः "त्रीणि मन्त्रब्राह्मणारण्यकानि यस्मिन् वेदशब्दराशौ           सह तरन्ति पठ्यन्ते, असौ तित्तिरिः" इति उक्त्या तैत्तिरीयनाम्ना ज्ञायन्ते। कृष्णयजुर्वेदस्य तैत्तिरीयशाखा तैत्तिरीयसंहिता इत्यपि आह्वयते। कृष्णयजुर्वेदस्य ब्राह्मणम् तैत्तिरीय ब्राह्मणं वर्तते।        काठक ब्राह्मणम् इति श्रुतं ब्राह्मणम् अधुना नोपलभ्यते। तैत्तिरीय ब्राह्मणं काण्डनाम्ना भागत्रयात्मकं भवति। तत् अष्टकनाम्ना ज्ञायते।    तत् प्रश्नमित्यपि श्रूयते।  अस्य अवान्तरविभाजने 343 अनुवाकाः    सन्ति। कृष्णयजुर्वेदस्य उपनिषदः 32 द्वात्रिंशत्। तासु तैत्तिरीय, मैत्रायणीय, कठ, श्वेताश्वतरोपनिषदः प्रमुखाः भवन्ति। कृष्ण-    यजुर्वेदस्य कल्पग्रन्थेषु बौधायन, आपस्तम्ब, सत्याषाढ, मानव, वैखानस, भारद्वाज, वाराह इति सप्तश्रौतसूत्राणि। बौधायन,    आपस्तम्ब, सत्याषाढ, मानव, काठक इति पञ्चगृह्यसूत्राणि।      बौधायन, आपस्तम्ब, सत्याषाढ इति त्रीणि धर्मसूत्राणि।          बौधायन, आपस्तम्ब, मानव इति शुल्बसूत्राणि। कृष्णजुर्वेदस्य व्याकरणांशात्मकं प्रातिशाख्यं तैत्तिरीयप्रातिशाख्यमिति चोच्यते। कृष्णयजुर्वेदस्य शिक्षाग्रन्थेषु संहिताशिक्षेति अपरनाम्नी भरद्वाज-  शिक्षा, व्यासशिक्षा इति शिक्षाद्वयं प्रसिद्धं भवति॥                

                                                 ..... अनुवर्तते......., 

Wednesday 19 August 2020

यजुर्वेद: Part IV

        

        शुक्लयजुर्वेदस्य संबद्धसमस्तग्रन्थानां प्रवर्तकः तथा प्रवचनकर्ता भगवान् याज्ञ्यवल्क्यमहर्षिः विराजते।  शुक्लयजुर्वेदस्य ब्राह्मणं "शतं पन्थानो यस्य तच्छतपथम्" इत्युक्तरीत्या शतपथ ब्राह्मणमिति ज्ञायते। एतत् "नौर्हि वा एषा स्वर्ग्या। यदग्निहोत्रम्। यज्ञो वै श्रेष्ठतमं कर्म" इति रीत्या अग्निहोत्रादि यज्ञमीमांसा- विचारं करोति। शुक्लयजुर्वेदस्य आरण्यकं बृहदारण्यकमिति ज्ञायते। शुक्लयजुर्वेदस्य उपनिषद् एकोनविंशत्युपनिषत्सु ईशावास्यं तथा बृहदारण्यकोपनिषच्च प्रसिद्धा भवति। शुक्लयजुर्वेदस्य कल्पग्रन्थेषु कात्यायनश्रौतसूत्रम् (अस्मिन् कात्यायन श्राद्धसूत्रमतिप्रसिद्धम्), पारस्कर-बैजवाप इति गृह्यसूत्रद्वयम्, कात्यायनशुलबसूत्रम् इति ज्ञायते। शुक्लयजुर्वेदस्य व्याकरणांशात्मकं प्रातिशाख्यं वाजसनीय-प्रातिशाख्यमिति चोच्यते॥    

                                ..... अनुवर्तते......., 

Tuesday 18 August 2020

यजुर्वेद: Part III

                    उत्तरभारतवर्षस्य मध्यभागे विद्यमानाः कुरु-पाञ्चालयोः    देशाश्च  यजुर्वेदे निर्दिश्यन्ते। यजुर्वेदस्य शाखास्तावत् नानाः      भवन्ति।  तत्र आदिमा कठशाखा। कपिष्ठशाखा इदानीं नोपलभ्यते। भगवान् पतञ्जलिः काठकं कालापं च ग्रामे ग्रामे अवर्तेतामिति उल्लिलेख। अयोध्यायां द्वयमिदं सभाजितमिति श्रीमद्रामायणात् अवगम्यते। इतोऽपि तैत्तिरीय, वाजसनेय, काण्व, माध्यन्दिन,      शापेय, तापायनीय, कापाल, पौण्ड्रवत्स, आवटिक, परमावटिक, पाराशर्य, वैधेय, वैनेय, औधोय, गालव, वैजव, कात्यायनीयाः        इति अनेकाः। एतेषु कृष्णयजुर्वेदीयाः तैत्तिरीय, मैत्रायणीय, कठ, कपिष्ठलशाखाः एव इदानीमुपलभ्यन्ते। वाजसनेय, माध्यन्दिन, काण्वशाखाः शुक्लयजुर्वेदीयाः॥

 

                                    ..... अनुवर्तते.......,

Monday 17 August 2020

यजुर्वेदः Part II

         यज्ञस्य मात्रां वि मिमीत उ त्वः इति ऋग्वेदमन्त्रानुसारं  याज्ञिकदृष्ट्या यजुर्वेदस्य अध्वर्युवेदः इति अपरनाम वर्तते। आदित्यपरम्पराप्राप्तो मन्त्रसमुदायः शुक्लयजुर्वेदः इति, चतुर्मुख-    ब्रह्मणः प्राप्तो मन्त्रसमुदायः कृष्णयजुर्वेदः इति च यजुर्वेदः द्विविधः  भवति।                                                                                                         ..... अनुवर्तते.......,

Sunday 16 August 2020

यजुर्वेदः Part I

  

      वेदेषु चतुर्षु प्रथमः छन्दो निबद्धः ऋग्वेदः,द्वितीयःसामवेदः

तृतीयःगद्यात्मकः यजुर्वेदः। यज यजने इति धातोः निष्पन्नः यजुः 

शब्दः इति यास्कमुनिः स्वकीये ग्रन्थे निरुक्ते (7-20) सूचयति। 

एषः यजुर्वेदः सामवेद इव ऋग्वेदात् बहून् मन्त्रान् स्वीकृतादपि       

स्वयं बहुमन्त्रयुक्तो विलसति। एषः वेदः यागादि कर्माणि कथं 

करणीयानि इति स्पष्टयति॥



                                                        ..... अनुवर्तते......., 

Saturday 15 August 2020

सामवेद: Part VI


           सामवेदस्य वेदाङ्गेषु श्रौत-गृह्य-धर्म-शुल्बेति चतुर्विधकल्प-    शास्त्रेषु द्राह्यायण-लाट्यायन इति श्रौतसूत्रद्वयमस्ति। खादिर-      गोभिल इति गृह्यसूत्रद्वयमस्ति। गौतमधर्मसूत्रं प्रसिद्धं भवतिI          साम वेदे शुल्बसूत्रं नोपलभ्यते॥

      सामवेदस्य नारदीय-गौतम-लोमश इति शिक्षात्रयमस्ति। व्याकरणरूपे सामवेदपेरातिशाख्यम्स्ति। सामवेदोपनिषद् छान्दोग्योपनिषद् भवति॥

      सामवेदात् सङ्गीतशास्त्रं प्रादुरभूत्। "सामवेदादिदं गीतं      संजग्राह पितामहः" (1-25) इति शार्ङ्गदेवः इति स्पष्टयति। अयमेवावांशं भरतमुनिः "सामभ्यो गीतमेव च" इति द्रढयति॥                                                                    

                                                ..... अनुवर्तते......., 

Friday 14 August 2020

सामवेद: Part V

 

        लोकसृष्टिक्रमे आदौ भगवान् चतुर्मुखब्रह्मा सन्ततीनाम् आहार-रूपभेदैः साम्नां परिकल्पनं चकार। क्रुष्ट, प्रथम, द्वितीय, तृतीय, चतुर्थ, मन्द्र तथा अतिस्वार इति साम्नः सप्तस्वरेभ्यः क्रमशः, देव-मानव-पशु-गन्धर्व-अप्सरो-सपक्षिसमूहपितृगण-असुरगणसहितसंपूर्णस्थावर-जङ्गमादीनां उललेखनं तथा मानव- दैनन्दिनजीवनस्य विद्यमान दृष्टादृष्टमनोरथानां परिपूर्त्यर्थं साम्नां विधानानि अधोनिरदिष्टरूपेण सामवेद-ब्राह्मणानि प्रतिपाद्यन्ते॥ 


क्रमसंख्या

अभीष्टम्

सामनाम

गानसङ्केताः

1

श्रीसाधनम्

अङ्गिरसां हरिश्रीनिधनम्

ग्रामगेयगान 5,9,1.

2

यशोलाभः

इन्द्रस्य यशः

ग्राम. 6,2,

1-248

3

सुन्दरदीर्घायुपुत्रलाभः

अपत्यम्

आरण्यकगान 3,4,1

4

अभीप्सितस्त्रीप्राप्तिः

अश्विनोः साम

ग्राम. 5,6,

2-172

5

रोगशान्तिः

काशीतम्

ग्राम. 1,3,

1-33

6

मोक्षः

पर्क

ग्राम. 1,1,1,1

7

कन्याभ्यः वरलाभः

शौनःशेपे

ग्राम. 1,1,

1-2,7

 

                                               ..... अनुवर्तते.......,

Thursday 13 August 2020

सामवेद: Part IV

 

        बृहदारण्यकोपनिषदः  "सा च अमश्चेति तत्साम्नः सामत्वम्" इति वाक्येण सा इत्यस्य ऋक् इत्यर्थः तथा अम इत्यस्य गानम् इत्यर्थः, सा तथा अम इत्युभयोः साम इति व्युत्पादनमभवत्॥

      सामवेदे 1.प्रौढ(ताण्ड्य),  2.षड्विंश,  3.सामविधान,  4.आर्षेय,  5.देवताध्याय,  6.छान्दोग्य,  7.संहित,  8.वंश इत्यादीनि अष्टविधानि ब्राह्मणानि सन्ति॥

      

                                               ..... अनुवर्तते.......,

Wednesday 12 August 2020

सामवेदः Part III

 

        सामवेदे एकसहस्रशाखाः आसन्निति "सहस्रवर्त्मा सामवेदः"    इति महाभाष्ये महर्षिः पतञ्जलिः उल्लिलेख। सामतर्पणसन्दर्भे  1.राणायन,  2.सात्यमुग्रि-व्यास,  3.भागुरि-औलुण्डि,  4.गौल्मुलवि,  5.भानुमान,  6.औपमन्यव,  7.दाराल,  8.गार्ग्य,  9.सावर्णि,  10.वार्षगणि,  11.कुथुमि,  12.शालिहोत्र,  13.जैमिनि इत्येतेषां सामगानां आचार्याणां कृते अधुनाऽपि तर्पणादिकर्माणि क्रियन्ते        इति ज्ञायते॥

      उपर्युक्तेषु राणायन, कुथुमि तथा जैमिनीति आचार्याणां नामभिः प्रसिद्धाः राणायनीय, कौथुमीय तथा जैमिनीया इति तिस्रः शाखाः अद्यत्वे लभमानाः सन्ति। एतासु त्रिषु, राणायनीय-शाखा दक्षिण   भारते व्यवह्रियते। कौथुमीयशाखा विन्ध्याचलात् उत्तरभारते तथा केरळदेशे जैमिनीयशाखायाः अध्ययन-अध्यापन-पद्धतिः च दरीदृश्यते। सामवेदस्य प्रत्येकस्याः शाखायाः उच्चारण-गतिभेदैः नागरपद्धतिः, मद्रपद्धतिः, गोवर्धनीपद्धतिः इत्यादि नैक-पद्धतयः भवन्ति॥

      सामवेदे अनेकान्  अवान्तरस्वरान्  अतिरिच्य सप्तस्वराणां माध्यमेन गीतिपूर्ण-स्वरूपाः लभ्यन्ते। "गीतिषु सामाख्या" इति जैमिनीयसूत्रे गीतिप्रधानमन्त्रैः जैमिनीय-शाखा इति ज्ञायते॥

                                                     ..... अनुवर्तते......., 

Tuesday 11 August 2020

सामवेदः Part II

 

        महर्षिः वेदव्यासः एकभागात्मभूतं समग्रवेदमन्त्रान्, सर्वे       मानवाः अपि ज्ञातुं गातुं तथा समस्तवेदमन्त्रग्रहणाय समर्थाः           भवितुं परमया कृपया लोकोपकारार्थं  ऋग्सामयजुरथर्वरूपेण चतुर्धा   विभभाज।  वेदान् चतुर्धा विभजनानन्तरं महर्षिः वेदव्यासः, सामवेदं प्रथमं   जैमिनिमहर्षये उपादिदेश।

                                                     ..... अनुवर्तते......., 

Monday 10 August 2020

सामवेदः Part I

 

        वेदेषु चतुर्षु द्वितीयः, स्वपञ्चसप्ततिमन्त्रान् विहाय            ऋग्वेदात् सर्वानपि भागान् स्वीकृत्य सोमयागक्रियाक्रमानुरोधेन  युक्तत्वात् तथा कैश्चित् रागविशेषैः गीयमानत्वात् श्रोत्रानन्द-    दायकत्वात् च साम इत्यन्वर्थं प्राप सामवेदः। "वेदानां साम-        वेदोऽस्मि" इति श्रीकृष्णभगवान् श्रीमद्भगवद्गीतायामुक्तवान्               "ऋचः सामानि जज्ञिरे" इति वेदोक्तिरेव ऋग्वेदात् सामवेदो                जनितः इति सूचयति॥

                                               ..... अनुवर्तते.......,

Sunday 9 August 2020

ऋग्वेदः Part II

        

        ऋग्वेदे 64 अध्यायाः, 8 अष्टकाः, 10 मण्डलाः, 2006 वर्गाः, 1000 सूक्ताः, 84 अनुवाकाः, 10,440 मन्त्राः सन्तीति कात्यायनीय श्रौतसूत्राणि इति स्वकीयेन प्रचुरिते पुस्तके श्रीविद्याधरगौडपादैः भूमिकायाम् उल्लिलेख। प्रति मण्डले 141, 43, 62, 58, 87,75, 104,92,114, 141 इति क्रमशः आहत्य 1017 इति सूक्तानां सङ्ख्या निर्धारितरूपेण संप्रति दृश्यते।
         ऋग्वेदपरम्परा पैलर्षेः आरब्धा। संप्रति शाकल,बाष्कल, आश्व-
लायन, शाङ्खायन, माण्डूकायन इति नामभिः पञ्चशाखाः उपलभ्यन्ते।

         ऋग्वेदे प्रथमो मन्त्रः "अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्। होतारं रत्नधातमम्" इति। शाकलशाखानुसारेण "समानी व आकूतिः" इत्येव अन्तिमो मन्त्र इति, बाष्कलशाखानुसारेण "तच्छंयोरावृणीमहे" इत्येव अन्तिमो मन्त्र इति च भिन्नमताः।

        ऋग्वेदे प्रबन्ध-काव्य-नाटक-कथन-उपकथनरूपेण माकिं 20 सूक्तानि दृश्यन्ते। प्रसिद्ध, रोचक, नैतिक-मूल्यप्रदायक आख्यायिकाभिः संवादसूक्तानि  विलसन्ति। तेषु पुरूरवा-ऊर्वशीसंवादः, यमयमी-संवादः,सरमा-पाणिसंवादः मुख्यतमाः। श्रीसूक्तं, रात्रि-सूक्तं, मेधा-  सूक्तं, शिवसङ्कल्पसूक्तं तथा  संज्ञानसूक्तमित्यादीनि दृश्यन्ते।

        ऋग्वेदे  शौनकशिक्षा वासिष्ठशिक्षा इति शिक्षाद्वयमस्ति।   अस्मिन् ऋग्वेदस्य प्रातिशाख्यम् उत व्याकरणं तावत् ऋग्वेद-प्रातिशाख्य-मिति कथ्यते। आश्वलायनगृह्यसूत्रम्, शाङ्खायनगृह्य-सूत्रमिति ऋग्वेदीयगृह्यसूत्राणि। धर्मसूत्रं तावत् आश्वलायनधर्मसूत्र-मिति उच्यते। ऋग्वेदीय ब्राह्मणम्, आरण्यकम्, संहिता, उपनिषद् इत्यादयः ऐतरेय इति नाम्ना आह्वयते।

                                                      ..... अनुवर्तते.......,

Saturday 8 August 2020

ऋग्वेदः Part I

         

        वेदेषु प्रधानतमः, प्राचीनतमः प्रथमश्च ऋग्वेदः। ऋच स्तुतौ इति धातोः निष्पन्नः ऋक्शब्दः। अर्थात् स्तोत्ररूपाभिः ऋग्भिः घटितत्वात् अन्वर्थाभिधानः।

Friday 7 August 2020

को नाम वेदः


     वेदस्तावत् श्रवणमाध्यमत्वात् श्रुतिः इति, आम्नायः इति, आगमः इति च आह्वयते। येन केनापि न लिखितत्वात् वेदः अपौरुषेयः इति    च कथ्यते॥

वेदोऽखिलो धर्ममूलम्,
यस्य निःश्वसितं वेदाः,
वेदो नारायणः साक्षात्।
प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते।
एवं  विदन्ति  वेदेन  तस्माद्वेदस्य  वेदता॥
"देवपितृमनुष्याणां वेदःचक्षुः सनातन"। 
"मन्त्रब्राह्मणयोर्वेदनामधेयम्" इति श्रूयते।
अनन्ता वै वेदाः,
अनादिनिधना नित्याः वागुत्सृष्टा स्वयंभुवा।
आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः॥
श्रुतिः स्त्री वेद आम्नायस्त्रयी,
               स्त्रियामृक् सामयजुषी इति वेदास्त्रयस्त्रयी,                    
           चातुर्वर्ण्यं त्रयो लोकाश्चत्वारश्चाश्रमाः पृथक्।                     
             भूतं भव्यं भविष्यं च सर्वं वेदात् प्रसिद्ध्यति॥
                    नैव वेदाः प्लीयन्ते महाप्रलयेऽपि।

    महाप्रलयकालेऽपि सूक्ष्मरूपेण परमात्मनि वेदराशिः स्थितः।

      एवमुपरिनिर्दिष्टैः वाक्यैः वेदानां तत्त्वं संयक् ज्ञायते। इतोऽपि "इष्टप्राप्तये निष्टपरिहाराय च अलौकिकोपायं यो ग्रन्थः वेदयति सः वेदः" इति "वेदो नाम वेद्यन्ते ज्ञाप्यन्ते धर्मार्थकाममोक्षाः अनेनेति व्युत्पत्त्या चतुर्वर्गज्ञानसाधनभूतो ग्रन्थ-विशेषः" इति सुगमः। किं बहुणा, "शब्दातिरिक्तं शब्दोपजीविप्रमाणातिरिक्तं च यत्प्रमाणं तज्जन्यप्रमितिविषयानतिरिक्तार्थको यो यस्तदन्यत्वे सति आमुष्मिकसुखजनकोच्चारणकत्वे सति जन्यज्ञानाजन्यो यो प्रमाणशब्दस्तत्त्वं वेदत्वम् " इति वेदार्थपारिजात इति ग्रन्थे आचार्यचरणाः स्वामिनः श्रीकरपात्रमहाराजानां वेदभाष्यकाराः वेदशब्दस्य लक्षणात्मकं तात्पर्यार्थं अनुगृहीतवन्तः॥  

      वेदमन्त्रान् ये दृष्ट्वा लोकोपकारार्थं ये प्रकटितवन्तः ते मन्त्रदृष्टारः इति सम्मान्यन्ते। मन्त्रान् सङ्कलय्य सद्रूपेण सज्जी-कृतत्वात् तत् सङ्कलनं संहिता इति उच्यते। देवताः उद्दिश्य द्रव्यत्यागरूपेण यज्ञेन तासां देवतानां प्रीणनार्थं वेदमन्त्राः भवन्ति।

                                                ..... अनुवर्तते.......,


Thursday 6 August 2020

संस्कृतभाषायाः वैदिककालः

        

        संस्कृतभाषा तावत् तद्गत-नानाविध-ग्रन्थ-समुदाय-स्वभाव-विशेषानुरोधेन वैदिकी लौकिकीति द्वेधा विभज्यते इति पूर्वं अपश्याम। भारतीय-सारस्वतसंबन्धी चरित्रकालः वैदिककालः लौकिककालः इत्युभयोः आद्यः क्रिस्तवाब्दारम्भात् बहुपूर्वमेव पञ्चशतोत्तर-सहस्रवत्सरीतः समारभ्य तत्रैव द्वितीयशतकाब्द-पर्यन्तं व्यापृतः इति (1500 – 200 ) विदुषां सम्मतिः। वैदिक-कालस्य अन्तिमभागादनन्तरं लौकिककालस्य स्थितिरिति तेषां सर्वसम्मतनिर्णयः॥
      तत्र वैदिक्यां वेदाः वेदाङ्गानि भागं लभन्ते। श्रीमद्भागवतं
वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः।
वेदो नारायणः साक्षात् स्वयम्भूरिव शुश्रुम॥
(6-1-40) इति वदति। वेदशब्दस्तावत् ज्ञानार्थबोधकः। तत्र  

अदादिगणीय विद ज्ञाने इति धातोः करणे घञ् प्रत्यययुक्तेन निष्पन्नः। अर्थात्  वेत्ति- जानाति धर्मादिपुरुषार्थचतुष्टयोपायान् अनेन इति वेदः।

② दिवादिगण विद सत्तायां भावे घञ् प्रत्यययुक्तेन वेदः इति।③रुधादिगण विद विचारणे करणार्थे घञ् प्रत्यययुक्तेन विन्दे - विचारयति सृष्ठ्यादि प्रक्रियामनेन इति वेदः,

④तुदादिगण विदॢ लाभे इति धातोः करणार्थे घञ् प्रत्यययुक्तेन विन्दते-लभते धर्मादिपुरुषार्थान् अनेन इति वेदः,
⑤चुरादिगण विद चेतनाख्याननिवासेषु इति धातोः करणार्थे घञ् प्रत्यययुक्तेन वेदयति-सृष्ट्यादि पूर्वकल्पानुसारेण सर्वेषां प्राणिनां कर्म, तेषां नाम, आख्यानानि तथा निवासयोग्यस्थानानि अधिकृत्य अस्मभ्यं सूचयति इति वेदः इति पञ्चधा वेदार्थःअस्माभिः ज्ञायते॥

                                                ..... अनुवर्तते.......,


XSABARI (SABARl)

  XSABARI (SABARl)   XSABARI (SABARl) was an aged woman of the tribe of forest-dwellers. Sri Rama, during his life in the forest, gave h...