Tuesday, 4 August 2020

संस्कृतवाङ्मयम् Part IV

      संस्कृतभाषायाः साहित्यसागरे बहूणि अमूल्यानि रत्नानि उपलभ्यन्ते। अलङ्कार-गुण-रीति-ध्वनि-रस-वक्रोक्ति-औचित्य संप्रदायाः संस्कृतभाषायाः तथा संस्कृतसाहित्यस्य च औन्नत्यं,     महत्त्वं, प्रामुख्यं च प्रकटीकुर्वन्ति।॥

      भास-कालिदास-सुबन्धु-बाण-भारवि-माघ-श्रीहर्ष-कुमारदास-भवभूति-भट्टि-भर्तृहरि-त्रिविक्रमभट्ट-अनन्तभट्ट-राजानकसुन्दर-पाण्ड्य-राजानकमहेन्द्रवर्म-राजानकहर्षवर्धन-मुरारि-शूद्रक-भोज-राज-विशाखदत्त-भरत-भामह-वामन-दण्डी-उद्भट-वाग्भट-मम्मट-आनन्दवर्धन-क्षेमेन्द्र-जयदेव-राजशेखर-अभिनवगुप्त-शङ्कुक-सिंहभूपाल-विश्वनाथ-जगन्नाथ-विद्यानाथ-कल्हण-बिल्हण-जल्हण-श्रीमदानन्दतीर्थ-श्रीमदादिशङ्कर-श्रीमद्रामानुज-श्रीवत्साङ्कमिश्र-श्रीमद्वेदान्तदेशिक-वेङ्कटाध्वरि-श्रीमधुसूदनसरस्वती-श्रीमद्वल्लभाचार्य-श्रीमदप्पय्यदीक्षित-कृष्णमिश्र-नीलकण्ठदीक्षित-चतुरदामोदर-पुरन्दरदास-अन्नमय्य-त्यागराज-मुद्दुस्वामिदीक्षिताः इत्यादयः विविधसाहित्यमार्गेषु संस्कृतवाङ्मयप्रचारकाः महाकवयः प्रबन्धारः निबन्धारः संस्कृतसारस्वतसौरभं वितन्वन्ति स्म॥

      "महाभाष्यं वा पठनीयं महाराज्यं वा शासनीयम्" इति न्यायानुसारम् अस्माभिः साधारणमानवैः महाराज्यं किमपि न शासितुमर्हम् इत्यपि महाभाष्यादिग्रन्थरत्नानि अस्माभिः सर्वैः पठितुं शक्यते एव इत्यत्र कोऽपि न सन्देहः। अतः एतादृशं माहात्म्ययुक्तं भाषासु मुख्यं संस्कृतम् अस्माभिः सदा श्रवणीयम्, यथाकथञ्चित् लेखनीयम्, यथाशक्ति भाषणीयम् अथवा वदनीयं, मुख्यतया पठनीयमेव

      एवं वयं एतान् विषयान् सर्वान् क्रमशः अर्थात् वेदात् आरभ्य एतावत् आधुनिककालपर्यन्तं विलसितं, विकासितं, विहारितं संस्कृतभाषायाः स्वरूपं तदा तदा जानीमः॥

                                                      ..... -अनुवर्तते......., 

No comments:

Post a Comment

INTERNATIONAL LITERACY DAY

  Today, 8 september 2026, is international literacy day. A very suitable UNESCO quotation, “Literacy is a fundamental human right for all...