Sunday 2 August 2020

संस्कृतवाङ्मयम् - Part II

   एतानि उपरि (पूर्वं) सूचितानि इतिहासवचनानि सर्वाणि मानवान् उत्तममार्गं प्राप्तुं प्रणुदन्ति। विना संस्कृतभाषाप्रभावेन न किञ्चिदपि शास्त्रं वा ज्ञानं वा द्रष्टुं शक्यते। वैद्यशास्त्रे चरकसंहिता सकलदेशपण्डितैः अतीव प्रस्तूयते। भरतमुनेः नाट्यशास्त्रं गीत, वाद्य, नृत्यकलाकाराणां मार्गदर्शि भवति। संस्कृतगणितशास्त्रज्ञस्य आर्यभट्टस्य O इति पूज्यमिति संख्यावाचकं सर्वगणितशास्त्रज्ञानां कृते ज्ञानधनकोषभूतमस्ति। सङ्गणकशास्त्रे (Computer Science) पाणिनिमहर्षिणा कृता अष्टाध्यायी अविनाभावभूता अस्ति॥

      संस्कृतसाहित्येषु बहूणि महाकाव्यानि असंख्यकानि सन्ति। तत्र नगराणि, समुद्राः, पर्वताः, चन्द्रोदयः, सूर्योदयः, षड्विध-ऋतुवर्णनानि, शत्रूणां निग्रहः, राज्यपरिपालन आलोचना, राजपुत्रजन्म, विवाहः इत्यादयः संयक् मधुरतया वर्णिताः विराजन्ते। मानो हि महतां धनम्, वसुधैककुडुम्बकम्, हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकाऽपि वा, एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः, हितं मनोहारि च दुर्लभं वचः, शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम् इत्यादीनि नीतिबोधकानि वचनानि अतीव प्रसिद्धानि॥

                                                         ..... -अनुवर्तते.......,

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...