Wednesday, 19 August 2020

यजुर्वेद: Part IV

        

        शुक्लयजुर्वेदस्य संबद्धसमस्तग्रन्थानां प्रवर्तकः तथा प्रवचनकर्ता भगवान् याज्ञ्यवल्क्यमहर्षिः विराजते।  शुक्लयजुर्वेदस्य ब्राह्मणं "शतं पन्थानो यस्य तच्छतपथम्" इत्युक्तरीत्या शतपथ ब्राह्मणमिति ज्ञायते। एतत् "नौर्हि वा एषा स्वर्ग्या। यदग्निहोत्रम्। यज्ञो वै श्रेष्ठतमं कर्म" इति रीत्या अग्निहोत्रादि यज्ञमीमांसा- विचारं करोति। शुक्लयजुर्वेदस्य आरण्यकं बृहदारण्यकमिति ज्ञायते। शुक्लयजुर्वेदस्य उपनिषद् एकोनविंशत्युपनिषत्सु ईशावास्यं तथा बृहदारण्यकोपनिषच्च प्रसिद्धा भवति। शुक्लयजुर्वेदस्य कल्पग्रन्थेषु कात्यायनश्रौतसूत्रम् (अस्मिन् कात्यायन श्राद्धसूत्रमतिप्रसिद्धम्), पारस्कर-बैजवाप इति गृह्यसूत्रद्वयम्, कात्यायनशुलबसूत्रम् इति ज्ञायते। शुक्लयजुर्वेदस्य व्याकरणांशात्मकं प्रातिशाख्यं वाजसनीय-प्रातिशाख्यमिति चोच्यते॥    

                                ..... अनुवर्तते......., 

No comments:

Post a Comment

SEVEN FASCINATING TOPICS FROM SANSKRIT LITERATURE - 7. THE KATHASARITSAGARA

  THE KATHĀSARITSĀGARA: AN OCEAN OF INTERTWINED STORIES The Kathāsaritsāgara , meaning “The Ocean of the Streams of Stories,” is one of t...