Sunday, 9 August 2020

ऋग्वेदः Part II

        

        ऋग्वेदे 64 अध्यायाः, 8 अष्टकाः, 10 मण्डलाः, 2006 वर्गाः, 1000 सूक्ताः, 84 अनुवाकाः, 10,440 मन्त्राः सन्तीति कात्यायनीय श्रौतसूत्राणि इति स्वकीयेन प्रचुरिते पुस्तके श्रीविद्याधरगौडपादैः भूमिकायाम् उल्लिलेख। प्रति मण्डले 141, 43, 62, 58, 87,75, 104,92,114, 141 इति क्रमशः आहत्य 1017 इति सूक्तानां सङ्ख्या निर्धारितरूपेण संप्रति दृश्यते।
         ऋग्वेदपरम्परा पैलर्षेः आरब्धा। संप्रति शाकल,बाष्कल, आश्व-
लायन, शाङ्खायन, माण्डूकायन इति नामभिः पञ्चशाखाः उपलभ्यन्ते।

         ऋग्वेदे प्रथमो मन्त्रः "अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्। होतारं रत्नधातमम्" इति। शाकलशाखानुसारेण "समानी व आकूतिः" इत्येव अन्तिमो मन्त्र इति, बाष्कलशाखानुसारेण "तच्छंयोरावृणीमहे" इत्येव अन्तिमो मन्त्र इति च भिन्नमताः।

        ऋग्वेदे प्रबन्ध-काव्य-नाटक-कथन-उपकथनरूपेण माकिं 20 सूक्तानि दृश्यन्ते। प्रसिद्ध, रोचक, नैतिक-मूल्यप्रदायक आख्यायिकाभिः संवादसूक्तानि  विलसन्ति। तेषु पुरूरवा-ऊर्वशीसंवादः, यमयमी-संवादः,सरमा-पाणिसंवादः मुख्यतमाः। श्रीसूक्तं, रात्रि-सूक्तं, मेधा-  सूक्तं, शिवसङ्कल्पसूक्तं तथा  संज्ञानसूक्तमित्यादीनि दृश्यन्ते।

        ऋग्वेदे  शौनकशिक्षा वासिष्ठशिक्षा इति शिक्षाद्वयमस्ति।   अस्मिन् ऋग्वेदस्य प्रातिशाख्यम् उत व्याकरणं तावत् ऋग्वेद-प्रातिशाख्य-मिति कथ्यते। आश्वलायनगृह्यसूत्रम्, शाङ्खायनगृह्य-सूत्रमिति ऋग्वेदीयगृह्यसूत्राणि। धर्मसूत्रं तावत् आश्वलायनधर्मसूत्र-मिति उच्यते। ऋग्वेदीय ब्राह्मणम्, आरण्यकम्, संहिता, उपनिषद् इत्यादयः ऐतरेय इति नाम्ना आह्वयते।

                                                      ..... अनुवर्तते.......,

No comments:

Post a Comment

INTERNATIONAL LITERACY DAY

  Today, 8 september 2026, is international literacy day. A very suitable UNESCO quotation, “Literacy is a fundamental human right for all...