Friday 31 July 2020

श्रीवरलक्ष्मीव्रतम्



Varalakshmi devi | Durga goddess, Goddess lakshmi, Devi durga

     संसारेऽस्मिन् अस्माकं सर्वेषां जननं तावत् अस्मत्पुण्यपापा-नुसारमेव अजायत। एतस्मिन् जन्मनि अस्माकं जीवनं सुखेन यापनार्थं विविधमार्गेषु बहुधा प्रयत्नं कुर्वन्तः स्मः। तादृशमार्गेषु भक्तिभावनया कामपि देवतामुद्दिश्य उपवासादि-व्रतानि, पूजादयश्च भवन्ति। तादृशव्रतेषु श्रीवरलक्ष्मीव्रतम् अन्यतमं भवति। तदधिकृत्य किञ्चित् जानीमः-

   1.            श्रीवरलक्ष्मीव्रतम् नाम श्रीमहाविष्णोः पत्नीं श्रीमहालक्ष्मी-  मुद्दिश्य क्रियमाणं व्रतम् भवति।

   2.            एतत्-श्रीवरलक्ष्मीव्रतं प्रतिसंवत्सरे ग्रीष्मर्तौ कर्कटकमासे (आषाढमासे) पौर्णमास्याः पूर्वस्मिन् शुक्रवासरे सर्वैः विशेषेण अनुष्ठीयते। शार्वरी नाम संवत्सरे, दक्षिणायने, ग्रीष्मर्तौ, कटकमासे, शुक्लपक्षे (आषाढमासे) मूलानक्षत्र-युक्ते अस्मिन् दिने (31.07.2020) शुक्र(भृगु)वासरे,द्वादश्यां  शुभतिथौ अर्थात् अद्य महता वैभवेन अभिनन्द्यते।

   3.            श्रीमहालक्ष्मीः अष्टविधैश्वर्याणां, नवविधनिधीनां,सौवर्ण्य-सौभाग्य-सौमाङ्गल्यादीनां च स्वरूपिणी विराजते। अनेन श्रीमहालक्ष्मीः दारिद्र्यनाशिनी इति च स्तूयते।

   4.            अस्मिन् दिने जनाः सर्वे, विशिष्य स्त्रियः, प्रातःकाले, अभ्यङ्गस्नानं कृत्वा, शुद्धात्मना दैनन्दिनपूजादीन् समाप्य,  वरलक्ष्म्याः प्रतिकृतिरूपामेकां प्रतिमां प्रकल्प्य विविधाभिः मालादिभिः अलङ्कृत्य श्रीमहालक्ष्मीमहिम्नः स्तोत्रादिकं पारायणं च कृत्वा श्रीमहालक्ष्मीं पूजयन्ति।

   5.            स्वकीयं गृहं प्रति आगतवद्भ्यः सर्वाभ्यः महिलाभ्यः ताम्बूलादिकं स्वादुभक्षणानि च वितरणं कृत्वा मोदन्ते।

अतः वयं सर्वे श्रीमहालक्ष्मीं  स्तुत्वा दारिद्र्यतां दूरीकृत्य सकलविध-सौभाग्य-सौमाङ्गल्यादींश्च प्राप्त्वा सुखं जीवामः॥


Varalakshmi Vratham Kalash Decoration Pics

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...