Saturday, 18 July 2020

संस्कृतभाषायाः द्विवचनस्य प्रामुख्यम्


      
    सर्वासु भाषासु वचनं तावत् द्विविधं भवति इति सर्वैः ज्ञातः विषयः। एकमेव विषयं, पुरुषं, अर्थं, वस्तु किं बहुना यत्किमपि सूचनार्थं वचनम् एकवचनम् इति उच्यते। एकमतिरिक्तं सूचनार्थं बहुवचनम् इति उच्यते। अपि तु संस्कृतभाषायां वचनबोधनं कथं सूच्यते इति किञ्चित् जानीमः-
1.  संस्कृतभाषायां वचनबोधनं विस्मयदायकं तथा विशिष्ठं च भवति॥
2.  विषयद्वयं, पुरुषद्वयं, अर्थद्वयं, वस्तुद्वयं सूचनार्थं वचनम् द्विवचनम् इति उच्यते॥
3.      138."द्वि-एकयोः  द्विवचन-एकवचने"॥1 । 4 । 22 ॥
143. "बहुषु बहुवचनम्"॥1 । 4 । 21 ॥  इति द्वाभ्यां पाणिनिसूत्राभ्यां ज्ञायते यत् द्वित्व-एकत्वयोः एते स्तः 
अर्थात् एकत्वविवक्षायां एकवचनम्, द्वित्वविवक्षायां 
द्विवचनम् इति, बहुत्वविवक्षायां बहुवचनम् भवेत् इति चावगम्यते॥
      4. 60. "ईदूदेद्द्विवचनं प्रगृह्यम्"॥1 । 1 । 11 ॥ इति सूत्रेण                  ईकारान्त, ऊकारान्त, एकारान्तानां अर्थात् हरी-विष्णू-                   गङ्गे इत्यादीनां द्विवचनसूचक-पदानां द्विवचनम् प्रगृह्यम् 
         इति संज्ञा पाणिनिना बोध्यते॥

No comments:

Post a Comment

INTERNATIONAL LITERACY DAY

  Today, 8 september 2026, is international literacy day. A very suitable UNESCO quotation, “Literacy is a fundamental human right for all...