Monday, 6 July 2020

ताण्डव-लास्यात्मकं नाट्यम्


sivasakti thandavam | Durga goddess, Shiva art, Hindu art

     लोकस्य यादृशा अवस्था सुखदुःखसमुद्भवा अस्ति, तस्याः अभिनयः नाट्यमिति प्राज्ञैः लक्षणमुच्यते। सा एव अवस्था तथा स्वभावः वा, वाचिक-आङ्गिक-आहार्यिका-दिभिः उपेता वर्तते l नाट्यप्रयोगस्तावत् भरतेन इत्थमुच्यते-
कण्ठेनालम्बयेत् गीतं पस्तेनार्थं प्रदर्शयेत्।
चक्षुर्भ्यां दर्शयेद्भावं पादाभ्यां तालमाचरेत्॥
यतो हस्तः ततो दृष्ठिः यतो दृष्ठिः ततो मनः।
यतो मनः ततो भावः यतो भावः ततो रसः॥
1.      उद्धृत्योद्धृत्य सारंयमखिलनिगमान्नाट्यवेदं विरिञ्चिः
चक्रे यस्य प्रयोगं मुनिरपि भरतः ताण्डवं नीलकण्ठः।
शर्वाणी लास्यमस्य प्रतिपदमपरं लक्ष्म कः कर्तुमीष्ठे
नाट्यानां किंतु किञ्चित्प्रगुणरचनया लक्षणं सङ्क्षिपामि॥
इति दशरूपके धनञ्जयः सूचयति॥
2.      आसारितादिभिः गीतैरुद्धतप्रायवर्तितैः।
करणैरङ्गहारैश्च निर्वृत्तं विषमैरिव॥
ताण्डवं तण्डुना प्रोक्तं नृत्तं नृत्तविदो विदुः॥ इति कुम्भः॥
3.      ललना-ललिताङ्गैयत्साधितं कामवर्धनम्।
तत् लास्यम्॥ इति कुम्भः॥
4.      अयमेवांशः कालिदासेन स्वकीये मालविकाग्निमित्रनामके नाटके इत्थमुच्यते-
देवानामिदमामनन्ति मुनयः कान्तं क्रतुं चाक्षुसं
रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा।
त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते
नाट्यं भिन्नरुचेर्जनस्य बहुधाऽप्येकं समाराधनम्॥


Perini Sivatandavam - Wikipedia     ലാസ്യ കലാസന്ധയിൽ നൃത്തരൂപങ്ങൾ ...


No comments:

Post a Comment

SEVEN FASCINATING TOPICS FROM SANSKRIT LITERATURE - 7. THE KATHASARITSAGARA

  THE KATHĀSARITSĀGARA: AN OCEAN OF INTERTWINED STORIES The Kathāsaritsāgara , meaning “The Ocean of the Streams of Stories,” is one of t...