Thursday, 30 July 2020

कृषिविद्या


Image result for image of farming

      कृषीलवाः अस्मभ्यं, तथा अस्माकं सुखमयजीवन-यापनाय च, भूमौ व्रीहि-सस्य-धान्यादीन् बहुप्रयत्नेन संवर्धयन्तः, अन्नपाना-दीन्  सज्जी-कुर्वन्तः  विराजन्ते। तादृशीं  कृषिविद्यां किञ्चित् जानीमः। 

    Farmers busy sowing paddy seeds - The Hindu    Farmers busy in sowing the seeds of rice in a rice field

1. क्षेत्रे कदा बीजानि वपनीयानि इत्युक्ते-

      वैशाखे वपनं श्रेष्ठं ज्येष्ठे तु मध्यमं स्मृतम्।

      आषाढे चाधमं प्रोक्तं श्रावणे चाधमाधमम्॥

  रोपणार्थं तु बीजानां शुचौ वपनमुत्तमम्।

  श्रावणे चाधमं प्रोक्तं भाद्रे चैवाधमाधमम्॥

  वृषान्ते मिथुनादा च त्राण्यहानि रजस्वला।

  बीजं न वाजयेत्तत्र जनः पापाद्विनश्यति ॥ - कृषिपराशरम्

इति ग्रन्थः,

2. तथा कस्मिन् काले कीदृशानि सस्यानि संवर्धितव्यानि इति विषयं

     ततः प्रभूतोदकमल्पोदकं वा सस्यं वापयेत्।

     शालि-व्रीहि-कोद्रव-तिल-प्रयङ्गु-दारक-वरकाः पूर्ववापाः।

     मुद्ग-माष-शैम्ब्याः मध्यवापाः।

  कुसुम्भ-मसूर-कुलत्थ-यव-गोधूम-कलाय-अतसी-सर्षपाः   पश्चाद्वापाः।   2.24 ।

  इति कौटिल्य-अर्थशास्त्रम् इति ग्रन्थश्च  सूचयतः।

3. एतान् कृषिविद्याज्ञानविषयान् केचन महाकवयोऽपि स्वकीयेषु साहित्येषु उल्लेखनं कुर्वन्ति।

     चीयते बालिशस्यापि सत्क्षेत्रपतिता कृषिः।

     न शालेः स्तम्बकरिता वप्तुर्गुणमपेक्षते॥

          इति ①विशाखदत्तो नाम महाकविः स्वकीये मुद्राराक्षसे,            "कृषीवलः ज्ञानी वा भवतु अज्ञानी वा भवतु, सः ज्ञात्वा वा          अज्ञात्वा वा कृषिकार्याणि कृतवानपि, व्रीह्यादि शालीनां           प्रभूतमयानि उत्पन्नानां फलितत्वादीनि क्षेत्राणां गुणमेव            द्योतयति न तु कृषीवलस्य" इति उल्लिलेख ।Traditional Water Saving Methods in Indian Agriculture  What are the modern methods of irrigation practised in India? - Quora

     ②अभिवर्षयति योऽनुपालयन्विधिबीजानि विवेकवारिणा।

        स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति॥

          इति महाकविः भारविरपि स्वकीये किरार्जुनीये, अमुं                      विषयमेव उक्त्यन्तरेण द्रढयति अर्थात्  "कृषीवलः युक्ते              समये क्षेत्रे वीजानि वपनं कृत्वा युक्ते समये तानि बीजानि              जलसिञ्चनेन उत अभिवर्षणेन युक्ते समये फलप्राप्तिं च                 लभते" इत्येव


No comments:

Post a Comment

ĀVAṆI 1 AND ṢAṢṬHĪ VRATA - 18th August 2026

  On 18 August 2026, Tamil Nadu observes Āva ṇ i 1, the first day of the auspicious Tamil month of Āva ṇ i. The day also coincides with Śu...