Friday 10 July 2020

नारिकेलमहिमा


Image result for image of coconut tree
मनुष्याणां जीवने बहुवस्तूनि परमप्रयोजकानि सन्ति। तेषु नारिकेलमन्यतममस्ति। नारिकेलं जीवने प्रतिदिनं बहूपकारमस्ति l तद्विषयमधिकृत्य किञ्चित् जानीमः-
1.  नारिकेलवृक्षाणां पर्णानि संस्पृश्य पवनः मलयमारुतवत् शीतः 
     वाति। सायङ्कालसमये एतत् सुखानुभूतिं जनयति॥
2.  नारिकेलवृक्षाणां पर्णानि कुटीरनिर्माणे वेष्टनाय उपयुज्यन्ते।
अनेन अर्थव्ययः लघूक्रियते॥
3. नारिकेलपानं शरीरस्य आरोग्यदायकं भवति। अनेन दाहशान्ति-
   रपि जायते। पुष्टिकरं भवति॥
4.  प्रतिदिनं पाकक्रियायां नारिकेलखण्डाः अतीव उपयुज्यन्ते। नारिकेलतैलेन नारिकेलक्षीरेण च शष्कुली प्रभृतीनि, नारिकेले 
   शर्करां घृतं च उपयुज्य बर्फ़ि इति स्वादूनि च क्रियन्ते। व्यञ्जनेषु क्वथितेषु नारिकेलखण्डाः रुचिसंवर्धकाः भवन्ति॥
5. दैवतपूजासु, होमादिषु पूर्णकुम्भरूपेण नारिकेलं मङ्गलात्मकत्वात् सर्वथा समाद्रियते। अतिथीन् सम्माननार्थं पूर्णनारिकेलं दीयते॥
6. मनुष्याणां नित्योपयोगे मुख्यतया केशवर्धनाय नारिकेलतैलं बहूपकारकं भवति। शरीरे नारिकेलतैल-लेपनेन त्वक् संयक् परिपाल्यते। व्रणनिवारणाय नारिकेलतैलं बहुधा उपकरोति। 7.शरीरोष्णतां निवारणार्थमपि  नारिकेलतैलेन केशादिपादपर्यन्तं 
   लेपनं कृत्वा किञ्चित्कालादनन्तरं स्नाननमाचरेत्॥  कृतज्ञताविषयमधिकृत्यापि, तदुदाहरणार्थं, प्रथमवयसि पीतं तोय-मल्पं स्मरन्तः ...... न हि कृतमुपकारं साधवो विस्मरन्ति इति नारिकेलं स्तूयते॥

                       Coconut Products in Sholingur , Vellore , G. G. Raj Exports | ID ...

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...