Tuesday, 6 October 2020

इतिहासपुराणानि Part IV

 श्रीमद्रामायण-श्रीमन्महाभारतयोः इति द्वयोः इतिहासयोः श्रीमद्रामायणं पुरातनम्। श्रीमद्रामायणे दृश्यमानानां वर्ण्यमानानां रघु-दशरथ-रामप्रभृतीनां सूर्यवंशीयानां  राज्ञां, वसिष्ठ-विश्वामित्र-अगस्त्य-भरद्वाजादिमहर्षीणां, वालि-सुग्रीवनामयोः सहोदरयोः, रावण-कुम्भकर्ण-विभीषणानामानां भ्रातॄणां, हनुमान्, जाम्बवान् इति  नेतॄणां नायकानांश्च अनेककथापात्राणां वर्णनं श्रीमन्महाभारतेऽपि लभ्यते। श्रीमन्महाभारते वनपर्वणि युधिष्ठिरसमाश्वसनरूपेण "रामोपाख्यानम्" इति कथनं सर्वैरपि  ज्ञातुं द्रष्टुं च शक्यते॥   

 

                                        ..... अनुवर्तते.......,

Monday, 5 October 2020

इतिहासपुराणानि Part III

 इतिहासः इत्यस्य निरुक्तदिशा "इति ह आस" अर्थात् इत्थम् आसीत्     उत एवं समभवत् इत्यर्थसिद्धिः। अतः पुरा संभूतानि चरितानि बहूनि इतिहास तथा पुराणात्मकानि भवन्ति। वस्तुतः आख्यानमित्यस्य पुरातनकथनमित्येव भवति। संस्कृतभाषायां विद्यमानानि कथाख्यानादीनि इतिहासपुराणसंज्ञया, इतराणि अन्यानि काव्यसंज्ञया   च व्यपदिश्यन्ते। संस्कृतभाषायां द्वे इतिहासे भवतः। ते श्रीमद्रामायणं श्रीमन्महाभारतञ्च। तयोः इतिहासयोः द्वयोः श्रीमद्रामायणं प्रथमं तथा श्रीमन्महाभारतं द्वितीयमिति सर्वपण्डितपिण्डितसम्मतम्॥

Sunday, 4 October 2020

इतिहासपुराणानि Part II

         इतिहासपुराणसमयस्तावत्  संस्कृतवाङ्मयस्य वैदिकलौकिक-कालयोरन्तरेऽर्धपथो भवति। इतिहासपुराणेषु लौकिकसंस्कृतापेक्षया वैदिकसंस्कृतसमानतया आर्षिकशब्दप्रयोगाः वैयाकरणात् स्वतन्त्राः आर्षत्वात् साधवः इति अमन्यन्त। आख्यान-इतिहास-पुराणादि शब्दाः वेदैः पूर्वं प्रतिपाद्यमानत्वात्  "इतिहासपुराणाभ्यां वेदः समुपबृंहयेत्" इति सूक्तिमनुसृत्य इतिहासपुराणादयः वैदिकविषयाविष्करणाय महर्षिवचोभिः परिपुष्टा जाता। यम-यमीसंवादः, पुरूरव-ऊर्वशीसंवादः इत्यादीनि आख्यानानि वैदिक-साहित्येषु नाटकीय-आख्यायिकभूताः बहवः अंशाः दृश्यन्ते। प्रायशः एतद्युज्यते यत् वैदिकाः अर्वाचीन-नाटकीयांशैः, लौकिकाः पुरातनीयैः आख्यायिकांशैश्च निवेशिताः इत्यत्र न कोऽपि संशयः वर्तते॥      

                                             ..... अनुवर्तते.......,

Saturday, 3 October 2020

इतिहासपुराणानि Part I

     "भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा" इति आभाणकः अस्माकं भारतदेशस्य संस्कृतभाषा तथा अस्माकं भारतीयानांच संस्कृतिश्च अनितरसाधारणा तथा समस्तलोकसमेषां सम्मता इति उद्घोषयति। एतद्विषयं करतलामलकीकरोति अस्माकं भारतदेशस्यश्रीमद्रामायणं श्रीमन्महाभारतमिति इतिहासद्वयम्। श्रीमद्रामायण-महाभारत-मितीतिहासद्वयं चतुर्वेदानां तथा तत्तद्वेदानां षड्वेदाङ्गानां च सारं निष्पिष्य सर्वान् मानवान् नेये मार्गे नयन् समस्तलोकपावनात्मकं  सुषमया शोभयद्विराजते। समस्तजनपावनं सकललोकपापशमार्हं सर्वशास्त्रातिरिक्तसारं समस्तसाक्षराणां नेत्रात्मकं विलसति एतदितिहासद्वयम्॥

                                                ..... अनुवर्तते.......,

Friday, 2 October 2020

ज्यौतिषम् Part VII

    भगवाञ्चतुर्मुखब्रह्मा जैमिनिमहर्षिमुखेण ज्यौतिषशास्त्रं प्रवर्तितवान्। सः जैमिनिमहर्षिः ज्यौतिषशास्त्रं सूत्ररूपेण उपादिदेश। "उपदेशं व्याख्यास्यामः" इति प्रथमसूत्रं भवति। भगवाञ्चतुर्मुखब्रह्मा ज्यौतिषशास्त्रं  नारदमहर्ष्यारभ्य इतरबहुभ्यः महर्षिभ्योऽपि उपादिदेश, तत्  नारदमहर्षिः नारदसंहिता इति स्वकीये ग्रन्थे     

ब्रह्माऽऽचार्यो वसिष्टोऽत्रिः मनुः पौलस्त्यरोमशौ। 

मरीचिरङ्गिराव्यासः नारदः शौनको भृगुः॥                       

श्यवनो यवनो गर्गः कश्यपश्च पराशरः।                           

अष्टादशैते गम्भीराः ज्योतिश्शास्त्रप्रवर्तकाः॥                  

इत्यतिशयेन उल्लिलेख। इतोऽपि वराहमिहिरः, कल्याणवर्मन्, मन्दिरेश्वरः, कालिदासः इत्यादयः महाकवयः महर्षयश्च बृहज्जातकम्, सारावलिः, फलदीपिका, ज्योतिर्विदाभरणम् इत्यादीन् बहुग्रन्थान् व्यरचयन्॥

Thursday, 1 October 2020

ज्यौतिषम् Part VI

अप्राप्यप्राप्तिः योगः, प्राप्तरक्षणं क्षेमः, तदेव योगक्षेमः इति सर्वैः ज्ञायते। तत्तु ज्यौतिषशास्त्रेण प्राप्तुं शक्यते। इतोऽपि एतद्विषयः ज्ञातव्यः यत् अधोलिखितः एकः बृहत्पाराशर्यहोराशास्त्रश्लोकः                                      अहोरात्राद्यन्तलोपात् होरेति प्रोच्यते बुधैः।                                  तस्य  हि  ज्ञानमात्रेण  जातकर्मफलं  वदेत्॥                          अर्थात् अहोरात्र इति पदस्य आद्यन्तात्मकयोः अ-त्र इति वर्णयोः लोपेण होरा इति शब्दः जायते। होरा अथवा लग्नः इत्यस्य ज्ञानमात्रेण मानवानां जातककर्मणः शुभाशुभफलं वक्तुं शक्यते॥

 

 

                                    ..... अनुवर्तते.......,

Wednesday, 30 September 2020

ज्यौतिषम् Part V

    मानवसंसारे नक्षत्रग्रहादीनां प्रभावः भवति। अतः मनुष्याणां तथा नक्षत्रग्रहादीनां च परस्परसंबन्धः अस्ति। अमुमंशं                     चित्राणि साकं दिवि रोचनानि सरीसृपाणि भुवने जवानि।         तुर्मिशं सुमतिमिच्छमानो अहानि गीर्भिः सपर्यामि नाकम्॥         यानि नक्षत्राणि दिव्यन्तरिक्षे अप्सु भूमौ यानि नगेषु दिक्षु।प्रकल्पयंश्चन्द्रमा यान्येति सर्वाणि ममैतानि शिवानि सन्तु॥ अष्टाविंशानि शिवानि शग्मानि सह योगं भजन्तु मे।                    योगं प्रपद्ये क्षेमं च क्षेमं प्रपद्ये  योगं च नमोऽहोरात्राभ्यामस्तु॥                                      इति मन्त्रत्रयेण अथर्नववेदः स्पष्टयति॥

 

                                    ..... अनुवर्तते.......,

Tuesday, 29 September 2020

ज्यौतिषम् Part IV

 

वेदस्य ज्योतिषामयनं चक्षुः इत्यनेन चक्षुरिति शब्दस्य नयनमित्यर्थः। नयतीती नयनमित्युच्यते अर्थात् न्याये नेययोग्ये मार्गे मानवान् नयतीती ज्यौतिषशास्त्रं नयनमित्यवगम्यते। ज्यौतिषशास्त्रे त्रयः स्कन्धाः सन्तीत्यनेन इदं शास्त्रं स्कन्धत्रयात्मकमिति च आहूयते। गर्ग-नारद-पराशरादि महर्षयः अस्मिन् शास्त्रविषयं संहिता इति नाम्ना अलिखन्। भगवान् सूर्यः एतच्छास्त्रं देवशिल्पि- मयाय उपादिदेश इत्यनेन इदं शास्त्रं सूर्यसिद्धान्तमिति च उच्यते॥

Monday, 28 September 2020

ज्यौतिषम् Part III

  यज्ञस्य सफलता न केवलं समुचितविधानेन सम्भवेत् अपितु समुचिते निर्दिष्टनक्षत्र-तिथि-वासर-पक्ष-मास-ऋतु-अयन- संवत्सरादियुक्तकाले प्रयोगेनैव हि सिद्ध्यति। अमुं विषयं उक्त्यन्तरेण सिद्धान्तशिरोमणि नामके ग्रन्थे ज्यौतिषमार्ताण्डः श्रीभास्कराचार्यः -                 वेदास्तावद् यज्ञकर्मप्रवृत्ता यज्ञाः                                       प्रोक्तास्ते तु कालाश्रयेण।                                           शास्त्रादस्मात् कालबोधो यतः स्यात्                                वेदाङ्गत्वं ज्यौतिषस्योक्तमस्मात्॥


                                    ..... अनुवर्तते.......,

Sunday, 27 September 2020

ज्यौतिषंम् Part II

वेदस्य ज्योतिषामयनं चक्षुः इत्युच्यते। यज्ञानां विधानं कालस्य अपेक्षां प्रति विद्यते। अतः ज्यौतिषं कालविज्ञापकशास्त्रम् इत्यप्युच्यते। यज्ञादि क्रियाकलापाः नक्षत्र, तिथि, वासर, पक्ष, मास, ऋतु, अयन, संवत्सरादयः निश्चितरूपेण ज्यौतिषशास्त्राधीनाः। अत एवोच्यते-                       वेदा हि यज्ञार्थमभिप्रवृत्ताः कालाभिपूर्वा विहिताश्च यज्ञाः।     तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेदयज्ञम्॥ 

Saturday, 26 September 2020

ज्यौतिषम् Part I

 

असंख्याः ग्रहाः सन्ति, अन्यसौरमण्डलानि अपि भवितुम् अर्हन्ति इत्यादयः विचाराः भारतीये ज्योतिश्शास्त्रे रुढमूलाः सन्ति । ग्रहाणां स्थितिः, परस्पराकर्षणं, ग्रहणस्वरुपम् इत्यादयः अत्र विस्तरेण उक्ताः । कुजग्रहस्य स्वरुपं चपलः सरक्तगौरः मज्जासारश्च माहेयः इत्येवम् उक्तवान् अस्ति आचार्यः वराहमिहिरः । आधुनिकशास्त्रकाराः वदन्तिकुजस्य उपरि उग्रतुषारावरणम् अस्ति इत्यतः रक्तवर्णयुक्तधवलवर्णः तत्र दृश्यते इति । कुजः (भूमिपुत्रः ) इति शब्दः एव तदग्रहे जीवसम्भाव्यतां प्रकाशयति । आधुनिकाः अपि एतत् एव वदन्ति खलु ? सूर्यादीनां सञ्चारः भ्रममूलः, ग्रहाणां स्वप्रकाशता नास्ति इत्यादयः बहवः वैज्ञानिकाः अंशाः आर्यभटेन प्रतिपादिताः 

Friday, 25 September 2020

कल्पः - Part XI (सूत्रकाराः)


काशीनिवासी नारदस्य पुत्रः शिवदासनामको विद्वान् आसीत् । अस्य जन्म विद्यापीठतया प्रथिते काश्यामेवाभवत् । अत्रैव विद्या-पीठे स्थित्वा मानवशुल्वसूत्रस्य टीकाग्रन्थं निबबन्ध । शिवदास-स्यानुजः शङ्करभट्टी मैत्रायणीयशुल्वसूत्रोपरि स्वकीयां टीकां निरमात्। द्वाभ्यां भ्रातृभ्यां स्व-स्वटीकाग्रन्थे श्रीरामवाजपेयी-मतानि स्मर्यन्ते स्म, यतः शिवदासः रामवाजपेयीमहोदयस्य मतमित्युदाजहार । अयं हि महोदयः सायणस्य मतमपि समुद्धृ-तवान् । तेनास्य चतुर्दश शतकात्परवर्त्तित्वं मन्यते। शुल्वसूत्रैः सह सम्बद्धस्य प्राचीनसाहित्ये इयमेव रूपरेखा वर्तते ॥

 

                                    ..... अनुवर्तते.......,

Thursday, 24 September 2020

कल्पः X

 

मैत्रायणीयशुल्वसूत्रम्

मानवशुल्वस्यैव द्वितीयसंस्करणमिदमस्ति । उभयोः सूत्रयोर्मध्ये न केवलं विषयस्य समानत्वमस्ति, प्रत्युत श्लोकानामपि समरूपता अस्ति। किञ्चोभयोर्मध्ये कतिपयानि अन्तराण्यपि सन्ति, विशेषतः क्रमव्यवस्थायाञ्चेति॥

वाराहशुल्वसूत्रम्

शुल्वसूत्रमिदं मानवशुल्वसूत्रमिव । मैत्रायणीयशुल्वसूत्रस्यापीदं छायामनुवहति । कृष्णयजुर्वेदेनैव सम्बद्धोऽयं ग्रन्थोऽस्ति॥

Wednesday, 23 September 2020

कल्पः Part IX

 

आपस्तम्बशुल्वसूत्रम्

आपस्तम्बस्य शुल्वसूत्रं षट् पटलेषु विभक्तमस्ति । अस्य ग्रन्थस्य आभ्यन्तरे अन्यावान्तरवर्गाः सन्तिअनेन प्रकारेण अस्मिन्कविंशतिः अध्यायाः, २२३ सूत्राणि च सन्ति । अन्तिमाध्याये काम्येष्ट्यै आवश्यकविभिन्नवेद्या आकारप्रकारस्य विशदं विवेचनमस्ति॥


Tuesday, 22 September 2020

कल्पः VIII

 

बोधायनशुल्बसूत्रम्

सप्तोपलब्धसूत्रेषु बौधायनशुल्वसूत्रमेव प्रायः सर्वाधिकं प्राचीनं

प्रथमपरिच्छेदे ११६ सूत्राणि सन्ति । द्वितीयपरिच्छेदे ८६ सूत्राणि

सन्ति । तृतीयपरिच्छेदे ३२३ सूत्राणि सन्ति । यज्ञयागादिविषये

एवास्य ग्रन्थस्य मुख्यवर्ण्यविषयोऽस्ति

Monday, 21 September 2020

कल्पः Part VII

 

शुल्वसूत्रं वेदाङ्गान्तर्गतकल्पसूत्रस्यान्यतम् अङ्गमस्ति। शुल्वसूत्रं भारतवर्षे रेखागणितस्य पुरातनेतिहासस्य ज्ञानाय नितान्तमावश्यकमस्ति। वैदिककर्मकाण्डमेव शुल्वसूत्रस्य मुख्यविषयोऽस्ति। शुल्वशब्दस्य रज्जुः'इत्यर्थो भवति। अतः          रज्वा मापितवेद्या रचना' शुल्वसूत्रस्य प्रतिपाद्यविषयोऽस्ति ।सैद्धान्तिकदृष्ट्या प्रत्येकस्याः वैदिकशाखायाः स्वं विशिष्टं शुल्वसूत्रं भवति, किञ्च व्यवहारत एवं न भवति । कर्मकाण्डेन सह मुख्यतः सम्बद्धत्वेन यजुर्वेदस्य शाखायामेव शुल्वसूत्राण्युपलब्धानि भवन्ति अर्थाति यजुर्वेदस्यैवानेकशाखायां शुल्वसूत्राणामुपलब्धिः दृश्यते शुक्लयजुर्वेदसम्बद्धं कात्यायनशुल्बसूत्रमेकमेवास्ति, किञ्च कृष्ण-यजुर्वेदसम्बद्धानि षट् शुल्वसूत्राणि लभन्ते। तद्यथा बौधायन-आपस्तम्ब-मानव-मैत्रायणीय-वाराह-वावुलशुल्वसूत्राणि चेति एतदतिरिक्तःआपस्तम्बशुल्वसूत्रस्यटीकायां करविन्दस्वामिना मशकशुल्वसूत्रस्य, हिरण्यकेशीशुल्वसूत्रस्य चोल्लेखः कृतः । आपस्तम्बशुल्वसूत्रे हिरण्यकेशीशुल्वसूत्रादेकमुद्धरणमप्युपलभ्यते ॥

                                                    .....अनुवर्तते....,

Sunday, 20 September 2020

कल्पः Part VI

 

धर्मसूत्रविषये, वसिष्ठधर्मसूत्रं ऋग्वेदीयमिति उच्यते। गौतम धर्मसूत्रं सामवेदीयं प्रसिद्धं भवति। बौधायन, आपस्तम्ब, सत्या षाढ इति त्रीणि धर्मसूत्राणि कृष्णयजुर्वेदे भवन्ति। एतानि विविधाश्रमीणामर्थात् ब्रह्मचर्य-गार्हस्थ्य-वानप्रस्थ्य-पारिव्राजिक धर्मान्, विविधवर्णानामर्थात् ब्राह्मण-क्षत्रिय-वैश्य-शूद्रेति तत्तज्जातीयवर्ण-तत्तदनुगुणान् धर्मान्, शुद्धाशुद्ध-    आ चरणविचारान्, कार्याकार्य-विषयान्, सामाजिकधर्मान्, राजकीयधर्मान्, स्त्रीधर्मान्, आपद्धर्मान् बोधयन्ति॥

                                                            ..... अनुवर्तते.......,

Saturday, 19 September 2020

कल्पः Part V

 

    आश्वलायनगृह्यसूत्रम्, शाङ्खायनगृह्यसूत्रमिति ऋग्वेदीय-गृह्यसूत्रद्वयम्। सामवेदीयं खादिर-गोभिल इति गृह्यसूत्रद्वयमस्ति। कृष्णयजुर्वेदीयानि बौधायन, आपस्तम्ब, सत्याषाढ, मानव, काठक इति पञ्चगृह्यसूत्राणि। शुक्लयजुर्वेदीयं पारस्करीयगृह्यसूत्रम् । अथर्ववेदीयं कौशिकगृह्यसूत्रम्। एतेषु सर्वेष्वपि गृह्यसूत्रेषु श्रौतसूत्रोक्त (14) चतुर्दशश्रौतयज्ञाः,(7) सप्त पाकयज्ञाः, (5) पञ्चमहायज्ञाः तथा तत्तद्वेदीयगृह्यसूत्रोक्ताः गर्भाधान, पुंसवन (पुत्रजन्मानुष्ठान), गर्भवतीनां स्त्रीणां केशविन्यासात्मकं सीमन्तोन्नयनं, जातकर्म, नामकरण, निष्क्रमण, अन्नप्राशन, चूडाकरण, उपनयन, वेदाध्ययनसमये अनुष्ठेय महानाम्नीव्रत, महाव्रत, उपनिषद्व्रत, गोदानव्रत, समावर्तन, विवाह, अन्त्येष्टि इत्यादि (16) षोडश संस्काराः आहत्य (42) द्विचत्वारिंशत् संस्काराः तत्तदवसरानुसन्दर्भे विवर्णिताः भवन्ति॥

                                    ..... अनुवर्तते.......,

Friday, 18 September 2020

कल्पः Part IV

 गृह्यसूत्रेषु पितृभ्यः,पार्वण(पूर्णिमा तथा अमावास्या)यज्ञ-अष्टकान्वष्टकायज्ञ-श्रावणीयज्ञ-आश्वयुजीयज्ञ-आग्रहायणीयज्ञ-चैत्रीयज्ञात्मकाः पिण्डरूपेण सकुशोदकतिलरूपेण च कर्तव्याः पितृ(श्राद्ध) यज्ञाः, पशुपक्षीभ्यः, अन्नपानादिदानरूपेण कर्तव्याः भूतयज्ञाः, देवतेभ्यः,होम-हवन-सत्र-मख-याग(देवताद्दिश्य-द्रव्यत्यागः यागः)-अश्वमेधादिमहायज्ञरुपेण  कर्तव्याः देवयज्ञाः, वेदानामध्ययन-अध्यापन-मन्त्राणां पठनपाठनरूपेण कर्तव्याः ब्रह्मयज्ञाः, समाजे विद्यमानेभ्यः भिक्षु-साधु-परिव्राजकेभ्यः तथा अस्माकं गृहं प्रति आगतेभ्यः अतिथिभ्यः अर्घ्यपाद्याचमनीय-पानीयस्नानीयभोज्यादिदानरूपेण कर्तव्याः मनुष्ययज्ञाः इति पञ्चमहायज्ञाः विस्तरेण व्याख्याताः भवन्ति॥

                                    ..... अनुवर्तते.......,

Thursday, 17 September 2020

कल्पः Part III

 

    चतुर्ष्वपि वेदेषु आहत्य 1,130 शाखाः भवन्ति। एतदनु-सारेण प्रतिशाखायाः कृते 1,130 कल्पसूत्राणि भवितव्यानि वेदविदुषा-मभिप्रायः। परन्तु अधुना 40 कल्पसूत्राणि एवोप-लभ्यन्ते। श्रौत-सूत्रेषु श्रौतयज्ञाः  अग्न्याधान-अग्निहोत्र-दर्शपूर्णमास-आग्रहायण-चातुर्मास्य-निरूढपशुबन्ध-सौत्रामणि इति चरुपुरोडाशरूपेण हविषा सम्पन्नाःहविर्यज्ञाः सप्त तथा वैदिकयज्ञाः अग्निष्टोम-अत्यग्निष्टोम-उक्थ्य-षोडशी-वाजपेय-अतिरात्र-आप्तोर्यामक  इति सोमरसेन सम्पन्नाः सोमयज्ञाः सप्त इति आहत्य चतुर्दशविधयज्ञाः विवर्णिताः विलसन्ति॥

                                                        ..... अनुवर्तते.......,

Wednesday, 16 September 2020

कल्पः Part II

 

    "कल्प्यते-समर्थ्यते यागप्रयोगोऽत्र  इति कल्पः", "कल्पो वेद-विहितानां कर्मणामानुपूर्व्येण कल्पना शास्त्रम्"  इत्यवगन्तव्यानि कल्पसूत्राणि। तानि श्रौतसूत्र-गृह्यसूत्र-धर्मसूत्र-शुल्बसूत्रादि भेदैः चतुर्विधानि भवन्ति। वैदिकसंहितासु उक्तानां यज्ञादि-विषयकानां विधानानि तद्विवरणानि श्रौतसूत्रेषु व्याख्यातानि। गृहेषु मानवानां जन्मारभ्य मृत्युपर्यन्तं समस्तकर्तव्यकर्माणाम् अनुष्ठानानि (पूर्व-अपरक्रियाकलापाः) गृह्यसूत्रेषु विस्तृतानि भवन्ति। विभिन्न पारमार्थिक, सामाजिक, राजनीतिक कर्तव्यानि, विविधवर्णानां तथा विविधाश्रमीणां कर्तव्यानि, सामान्यतः मानवानां जन्मारभ्य विवाह तथा उत्तराधिकारादि विवरणानि धर्मसूत्रेषु दृश्यन्ते। "ज्यामिति" आदि गणितात्मकविज्ञानानां तत्त्वानि शुल्बसूत्रेषु लभ्यन्ते॥

                                                    ..... अनुवर्तते.......,

Tuesday, 15 September 2020

कल्पः Part I

 

    वेदस्य षडङ्गेषु पञ्चमं भवति कल्पः। "वेदस्य हस्तौ कल्पोऽथ पठ्यते" इत्यनेन वेदपुरुषस्य हस्तरूपो भवति कल्पः। कॢप् (कल्प्) सामर्थ्ये इति धातोरुत्पन्नोऽयं कल्पशब्दः। विधि-नियम-न्यायादीनां शब्दानामर्थबोधकः कल्पशब्दः। विधि-नियम-न्यायादीनां संक्षिप्त-सारवत्-दोषरहितवाक्यसमूहानां प्रतिपादनं करोति कल्पसूत्राणि, भारतीय विशिष्य हिन्दुत्व-हिन्दुधर्म-हिन्दुसंस्कृतीनां प्राण-भूतानि कल्पसूत्राणि। कर्मभूमिः धर्मभूमिः इत्युच्यते भारतभूमिः। कल्प-सूत्राणामाधारशिला भवति कर्मकाण्डः। सकलसंस्काराः, तेषां निखिलानामनुष्ठानानि समुचितरीत्या इत्थमनु-सरणयोग्यानि इति  प्रतिपादयन्ति कल्पसूत्राणि॥

                                          ..... अनुवर्तते.......,

Monday, 14 September 2020

निरुक्तम् Part V

     द्वितीये नैगमिककाण्डे वेदमन्त्रपदानां तथा तेषामर्थैकविवरणनार्थं  व्याख्यानं दृश्यते                                                                      तृतीये दैवतकाण्डे "अग्निः" इत्यारभ्य "देवपत्नी" इति पर्यन्तं देवतानिरूपणात्मकानां पदानां निरुक्तिविवरणं दृश्यते। वेदमन्त्रपदानां तदर्थानां विवरणार्थं  व्याख्यानारम्भसन्दर्भे वेदमन्त्रपदानां  नाम-आख्यात-उपसर्ग-निपातात्मकैः चतुर्भिः क्रमैः विभज्य, तेषां तात्पर्यचर्चा विस्तृता भवति। अतः इदं सुलभतया अवगम्यते सर्वैः जिज्ञासुभिः यत्, विना निरुक्तशास्त्रं वेदार्थविवरणं संयक् न लभ्यते इत्येव॥

                                                   ..... अनुवर्तते.......,

Sunday, 13 September 2020

निरुक्तम् Part IV


    यास्कनिरुक्ते, नैघण्टुकम्, नैगमम्, दैवतमिति काण्डत्रयमस्ति। एतत्त्रयात्मकस्य निरुक्तिमूलस्य विस्तरशः व्याख्यानं यास्केनैव कृतमस्ति। मूलसूत्रेषु स्वीकृतानां पदानामर्थविवरणं वेदमन्त्रपदाञ्च उदाहरति। एतद्विहाय, अन्तिमे, परिशिष्ठरूपेण अधिस्तुतिः इति वेदमन्त्रैक-व्याख्यनरूपं प्रकरणमस्ति। प्रथमे नैघण्टुककाण्डे पृथिवी, हिरण्यम्, अन्तरिक्षम्, साधारणम्, रशमी,दिक्, रात्रिः, उषस्, अहस्, मेघः, वाक्, उत्कः, नदी, अश्वः आधिष्ठोपयजनम् इत्यादीनां पदानां, तथा ज्वलतीति आर्थिकानां धातूणांश्च विवरणं दृश्यते॥

                              ..... अनुवर्तते.......,

Saturday, 12 September 2020

निरुक्तम् Part III

 

पुरा निरुक्तग्रन्थानि बहूनि बहुभिर्महर्षिभिः कृतानि आसन्। पुरा यास्क-कालव-गार्भ्य-शाकपूणि-तैकिटिः इत्याख्याः महर्षयः, वेदार्थनिर्णये अनितरसाधारणसन्देहदूरीकर्तारः निरुक्तकर्तारः विररेजुः। तेषां कालस्तावत् नैरुक्तसमयः इति कथितोऽभवत्। एतैः कृतेषु निरुक्तग्रन्थेषु यास्कनिरुक्तमेव संप्रति उपलभ्यते॥

 

                              ..... अनुवर्तते.......,

Friday, 11 September 2020

निरुक्तम् Part II

 

    वेदाङगेषु शिक्षा वेदानां बाह्यभूतानां शाब्दिकतत्त्वानां निरूपणं करोति। परं तु निरुक्तं तावत् वेदानां आन्तरिकभूतानां आर्थिकतत्त्वानां स्पष्टतया निरूपणं करोति। वेदामन्त्राणामर्थं विशेषतः अर्थविर्णये दुरवगमभूतानां झर्फरी तुर्फरी इत्यादीनां वेदबोधितपदानामर्थं सुगमरूपेणथा - सुचन्द्र इति पदस्य सुश्चन्द्र इति, कर्णाभ्यां इत्यस्य कर्णेभिः इति, जयति इत्यस्य जयते इति पदानि वेदेषु दृश्यमानाना-मेतादृशानां पदानां वर्णागमः, वर्णविपर्ययः, वर्णविकारः, वर्णविलोपः इत्यादीनामर्थनिर्णयं व्याख्याति निरुक्तम्

                                                      ..... अनुवर्तते.......,

Thursday, 10 September 2020

निरुक्तम् Part I


वेदस्य षडङ्गेषु चतुर्थं भवति निरुक्तम् । वेदस्य "निरुक्तं  श्रोत्रमुच्यते"। वेदभाष्यकारः श्रीसायणाचार्यः स्वकीये चतुर्वेद-भाष्यनामके ग्रन्थे भूमिकायां "अर्थावबोधे निरपेक्षतया पदजातं यत्रोक्तं तन्निरुक्तम्" इति अर्थात् वेदानामर्थज्ञाने निरपेक्षतया अथवा निःशेषरूपेण पदानां व्युत्पत्तिं यद्वदति तत् निरुक्त-मित्युच्यते॥

                                                  ..... अनुवर्तते......., 

Wednesday, 9 September 2020

छन्दः शास्त्रम् Part III

 

"छद अपवारणे" इत्यस्मात् धातोरुत्पन्नोऽयं शब्दः छन्दः। महर्षिः यास्कः "छन्दांसि छन्दः" इति छन्दसां लक्षणमनुजग्राह अर्थात् छन्दः वेदस्य आवरणमुत आवरणयोग्यं साधनं भवतीत्यर्थः। महर्षिः कात्यायनः "यदक्षरपरिमाणं तच्छन्दः" अर्थात् अक्षराणां गणेषु, लघु(ह्रस्व)-गुरु(दीर्घ)क्रमानुसारं नियमं करोति इति उल्लिलेख॥

                              ..... अनुवर्तते.......,

Tuesday, 8 September 2020

छन्दः शास्त्रम् Part II

 

    वेदस्य षडङ्गात्मकस्य छन्दः शास्त्रस्य  प्रप्रथमः  प्रवर्तकः पिङ्गलाचार्याख्यो महर्षिः। अनेन महर्षिणा कृतं छन्दःसूत्रम् नाम ग्रन्थः लोकप्रसिद्धः। एषः ग्रन्थः सूत्ररूपेण अष्टभागेन विभक्तः भवति। अस्मिन् ग्रन्थे वैदिक तथा लौकिकभेदैः छन्दसां वर्णनं कृतम्। प्राचीनपरम्परायां गद्यमपि पद्यात्मकीयछन्दोयुक्तवत् स्वीकृतम्। निरुक्तवृत्तिग्रन्थे "नाच्छन्दसि वागुच्चरति" इति दुर्गाचार्येन उल्लिखितम् । "छन्दोहीनो न शब्दोऽस्ति न छन्दः शब्दवर्जितम्" इति भरतमुनेरभिप्रायः॥                                                          ..... अनुवर्तते......., 

Monday, 7 September 2020

छन्दः शास्त्रम् Part I

 

    वेदस्य षडङ्गेषु तृतीयं भवति छन्दः शास्त्रम् । " छन्दः पादौ            तु वेदस्य " अर्थात् वेदरूपस्य पुरुषस्य पादद्वयात्मकं भवति छन्दः। छन्दहीनः पुरुषः पङ्गुः भवति। अतः पङ्गुदोषात् वेदः अस्माभिः रक्षणीयः। वेदमन्त्राणामुच्चारणार्थं छन्दसां ज्ञानमावश्यकम्।                यो ह वा अविदितार्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वा अध्यापयति वा स्थाणुं वर्च्छति गर्ते वा पात्यते वा पापीयान् भवति इति महर्षिकात्यायनवचनं वेदमन्त्राणामुच्चारणं छन्दसां ज्ञानं विना दोषावहं भवतीति द्रढयति॥                                                              ..... अनुवर्तते.......,

Sunday, 6 September 2020

व्याकरणम् Part VI


    पञ्चमं भवति असन्देहः। यथा स्थूलपृषतीम् इत्यत्र अत्र बहुव्रीहिसमासः वा तत्पुरुषसमासः इति सन्देहो जायते। अतः    तत्सन्देहः अपवार्यः। सन्देहदूरीकरणाय व्याकरणाध्ययनम्    आवश्यकम्॥                                                                             अतः अस्माभिः, एतत् मनसि सर्वथा संयक् निधातव्यं यत्,                      यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम्।                          स्वदनः श्वजनो माभूत् सकलं शकलं सकृत् शकृत्॥              अपशब्दनिवारणार्थं तथा अपशब्दप्रयोगनिरसनार्थं च व्याकर-णाध्ययनमावश्यकम्। "एकः शब्दः, संयक् ज्ञातः, शास्ज्ञान्वितः, सुप्रयुक्तः, स्वर्गे लोके च कामदुघ् भवति" इति वचनं व्याकरणाध्ययनावश्यकत्वं द्रढयति॥ 

Saturday, 5 September 2020

व्याकरणम् Part V

 

    तृतीयं भवति आगमः। व्याकरणाध्ययनाय स्वयं प्रमाणभूता वर्तते श्रुतिः। निष्कारणधर्माचरणार्थं अङ्गसहितवेदाध्ययनं करणीयं वेदार्थिना इति वेदाज्ञा॥

    तुरीयं भवति लघु। पुरा देवगुरुः बृहस्पतिः देवेन्द्राय दैवीक-एक-सहस्रसंवत्सरपरिमितं विद्याध्यापनं कृत्वापि, विद्या तावत् अनन्ता इत्यनेन तत् न समापितम्। अतः शास्त्राणां संक्षेपीकरणाय व्याकरणम् आवश्यकम् ॥

    

                                                      ..... अनुवर्तते.......,

Friday, 4 September 2020

व्याकरणम् Part IV

 

    रक्षा-ऊहा-आगम-लघु-असन्देहाः इति व्याकरणप्रयोजनेषु           प्रथमं भवति रक्षा। वेदानां रक्षा व्याकरणादेव शक्यते। अक्षर उत वर्णानां लोप-आगम-वर्णविकारज्ञेनैव वैयाकरणेन वेदः रक्षितो भवति। वेदार्थज्ञानं, तदनुगुणकर्मानुष्ठानं, तज्जनितोपनिषद्ज्ञानं तज्जनितसुखम् अर्थात् ब्रह्मानन्दसुखं व्याकरणाध्ययनस्य फलं भवति॥

    द्वितीयम् ऊहः। वेदसंस्कृतपदानि कस्यां विभक्त्यां, कस्मिन् लिङ्गे, कस्मिन् वचने, कस्मिन् पुरुषे, कस्मिन् कालबोधके वर्तन्ते इति तर्क-वितर्कादि नूतनकल्पनाज्ञानं दुर्गममपि तदूहात्मकेन व्याकरणाध्ययनेन लभ्यते॥                                   

..... अनुवर्तते......., 

Thursday, 3 September 2020

व्याकरणम् Part III

 

       ऐन्द्रं चान्द्रं काशकृत्स्नं कौमारं शाकटायनम्।                                    सारस्वतं चापिशलं काश्यपं पाणिनीयकम्॥ इति श्लोकेन             व्याकरणानि नवविधानि इति ज्ञायते। अपि तु मुग्धबोधे -                      इन्द्र-चन्द्र-काशकृत्स्नापिशली-शाकटायनाः।                                    पाणिन्यमरजैनेन्द्राः जयन्त्यष्टा हि शाब्दिकाः॥  इति वोपदेवस्य   श्लोकेन वैयाकरणाचार्याः अष्ट इति च ज्ञायते। इतोऽपि,             वोपदेव-कातन्त्र-सौपद्म इति नामभिः व्याकरणानि चोच्यन्ते।           एवं व्याकरणानि अनेकान्यपि तेषु पाणिनीयव्याकरणमेव सर्वोत्कृष्ठं        तथा सुगममिति च विदितमेषां समेषाम्॥ 

                                                ..... अनुवर्तते.......,

Wednesday, 2 September 2020

व्याकरणम् Part II

 

  "वाग् वै पराच्यव्याकृताऽवदत्, ते देवा इन्द्रमब्रुवन्-इमां नौ वाचं व्याकुर्विति। तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत्" इति तैत्तिरीय-संहिता(6।4।7) इति वेदवचनात् व्याकरणपरम्परा इन्द्रादारब्धा इति अवगम्यते। पाणिनेः पूर्वं माकिं अशीति-संख्याकाः भारतीयवैया-करणा-चार्याः आसन्निति प्रथा। भगवान् पाणिनिरपि "आपिशली-काश्यप-गार्ग्य-गालव-चाक्रवर्मण-भारद्वाज-शाकटायन-शाकल्य-सेनक-स्फोटायन" तान् भारतीयवैयाकरणपूर्वाचार्यान्  स्वकीये अष्टाध्यायी नामके ग्रन्थे सूत्ररूपेण मनसि निधाय उल्लिलेख॥

                                               ..... अनुवर्तते......., 


Tuesday, 1 September 2020

व्याकरणम् Part I

 

    वेदस्य षडङ्गेषु द्वितीयं भवति व्याकरणम्"मुखं व्याकरणं प्रोक्तम्" इति लक्षणानुसारं वेदात्मकस्य पुरुषस्य मुखरूपेण भवति व्याकरणम्। "रक्षा-ऊहा-आगम-लघु-असन्देहाः व्याकरणप्रयोज-नम्" इति कात्यायनमहर्षेः वचनं व्याकरणप्रयोजनमधिकृत्य ज्ञापयति। वेदाध्ययनाय वर्ण-उच्चारणसौष्ठवाय शिक्षायाः अध्ययनादनन्तरं वर्ण उत अक्षरसमूहात्मकस्य पदस्य ज्ञानं संपादनीयं मुख्यं भवति। तत्पदं कीदृशं?,तत्पदस्य प्रकृतिः किं?, विकृत्यपरनाम्न्याः प्रत्ययम् किम् ? इति व्याकरणं बोधयति। पदज्ञापनेन व्याकरणं पदशास्त्रमित्यपि कथ्यते॥ 

                                                ..... अनुवर्तते......., 

Monday, 31 August 2020

शिक्षा Part III

 

        शिक्षाग्रन्थानामुद्देश्यं न केवलं वर्णोच्चारणशुद्धये अपि तु शिष्ठा-चारादि शीलसंरक्षणाय च। व्यास-लक्ष्मी-भारद्वाज-आरण्य-शम्भु-आपिशली-पाणिनि-कौहलीय-वासिष्ठशिक्षाः इति प्रधानशिक्षाः नव, याज्ञ्यवल्क्य- आत्रेय-नारदीय-गौतम-लोमश-कौण्डिन्य-प्लाक्षायम-अगस्त्य-व्याळिशिक्षाः इति उपशिक्षाः नव इति आहत्य अष्टादशशिक्षाः सन्ति। शिक्षाग्रन्थानां मुख्योद्देस्श्यं वेदग्रन्थानां रक्षणमेव॥

                                                ..... अनुवर्तते......., 

A SHORT TREATISE ON SANSKRIT PROSODY - Part I

       PROSODY means the study of poetry.  In Sanskrit it is called Chandas or Vruttam.     The earliest and most important work in Sanskrit...