Saturday, 29 August 2020

वेदस्य षडङ्गेषु - शिक्षा Part I


         वेदस्य षडङ्गेषु प्रथमं भवति शिक्षा। "शिक्षा घ्राणं तु वेदस्य"        इति लक्षणानुसारं वेदात्मकस्य पुरुषस्य नासिकारूपेण भवति शिक्षा।  यतो हि नासिकां विना कस्यचन पुरुषस्य मुखसौन्दर्यं न प्राप्यते।     "स्वर-वर्णाद्युच्चारण-प्रकारो यत्र शिक्ष्यते उपदिश्यते सा शिक्षा" इति वेदभाष्यकारः सायणाचार्यः, शिक्षायाः लक्षणं ददौ। तैत्तिरीयोपनिषद् "अथ शीक्षां व्याख्यास्यामः, वर्णः, स्वरः, मात्रा, बलम्, साम, सन्तानः इत्युक्तः शीक्षाध्यायः" इति शिक्षायाः मुख्यत्वं बोधयति॥

                                                ..... अनुवर्तते.......,

No comments:

Post a Comment

नालन्दा पुस्तकसमीक्षा

  AUTHOR : ABHAY. K GENRE : NON FICTION PUBLISHER : Penguin Random House BOOK BUY LINK :   @Amazon नालन्दा पुस्तकसमीक्षा नालन्दा नामानं पुस्...