अस्माकं भारतदेशस् राष्ट्रचिह्नानि संस्कृतवाक्यैरेव
युक्तानि सन्ति। सर्वकारेषु दलेषु सत्यमेव जयते, AIIMS-संस्थायां शरीरमाद्यं खलु
धर्मसाधनम्, दूरभाषाविभागे अहर्निशं सेवामहे, भारतीय-जीव-भीम-निगमे योगक्षेमं
वहाम्यहम्, इत्यादयः जीवनोपयोगानि वाक्यानि अङ्कितानि भवन्ति॥
राजनीतिक, आर्थिक, सामाजिक, धार्मिक इत्यादि सकल-विधस्तरेषु संस्कृतभाषा देदीप्यमाना विलसति। कौटिल्य इति विष्णुगुप्त इति अपरनाम्नः चाणक्यस्य अर्थशास्त्रं महत्तया अधुनापि अत्यन्तमुपकारात्मकं भवति। किं बहुणा विना संस्कृतमं भारत- देशस्य संस्कृतिरेव नास्ति॥
दण्डी नाम महाकविः स्वकीये काव्यादर्शे नामके अलङ्कारलक्षणग्रन्थे, संस्कृतं नाम दैवी वाक् अन्वाख्याता महर्षिभिः इति संस्कृतभाषायाः दैविकं तथा आर्षिकं चिन्तनं -उक्त्वा तदनन्तरं, इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम्। यदि शब्दाह्वयं ज्योतिः आसंसारं न दीप्यते॥
इति संस्कृतभाषायाः शब्दाः एव ज्योतिः भूत्वा एतत् लोकत्रयं प्रकाशयति इति वदति॥
No comments:
Post a Comment