अस्माकं भारतदेशनाम्नी जन्मभूमिः विविधविषयसर्वस्व-भूतया संस्कृतभाषया पोषिता, संवर्धिता विरराज, विराजते तथा विराजिष्यते च। अस्यां हि भूमौ, बहुकालात्पूर्वमेव, संस्कृतभाषया विरचिताः ग्रन्थाः प्रथमं तालपत्रात्मकाः तदुपरि तथा अधश्च फलकखण्डाभ्यां च आच्छाद्य, यासां रन्ध्रयुक्तं पार्श्व-कोटि-द्वयमपि सूत्रेण आबध्यन्ते। क्वचित् लोहितैः पट्टवस्त्रैश्च परिवेष्ट्यन्ते। तथाविधाः ग्रन्थाः संप्रत्यपि देवालय, सन्न्यासीनां मठ,विद्यालय, राजभवनादि-ग्रन्थागारेषु, विशेषतः केषुचिद्गृहेषु च परिरक्ष्यन्ते।॥
संस्कृतभाषा तावत् तद्गत-नानाविध-ग्रन्थ-समुदाय-स्वभाव-विशेषानुरोधेन वैदिकी लौकिकीति द्वेधा विभज्यते। तत्र वैदिक्यां वेदाः वेदाङ्गानि चेति तथा लौकिक्यां इतिहासपुराणानि, महा-काव्यानि (पद्यम्), खण्डकाव्येषु शृङ्गारकाव्यानि, स्तोत्रकाव्यानि, नीतिकाव्यानि, कदम्ब-बिरुद-प्रबन्धाः, महा-काव्यानि (गद्यम्), चम्पूः, बृहत्कथा तथा तस्याः पाठभेदाः, पशु-पक्षिग्रन्थाः, नाटकानि तेषां प्रमुखानि दशविधानि, चरित-काव्यानि, साहित्य-शास्त्रम्, व्याकरणम्, छन्दःशास्त्रम् (वृत्तानि), उपवेदेषु आयुर्वेदः, गान्धर्ववेदः, धनुर्वेदः, अर्थशास्त्रम्, ज्योतिषम्, वैज्ञानिकशास्त्राणि, धर्मशास्त्रम्, शिल्पशास्त्रम् उत स्थापत्यवेदः, चित्रकलाः, दर्शनानि तथा तेषु चार्वाकीयम्, बौद्धधर्मः, जैनधर्मः, षड्दर्शनानि, लेखन-लिपयः, शिलालेखाः, ताम्रपट्टाः, हस्तलेखम्, लेख्यम्, तालपत्रादि लेखनोपकरणानि, तद्रक्षणम्, लेखनस्पष्टी-करणम्, मूलग्रन्थः, पाठभेदाः, प्रकटीकरण-शोधन-प्रकाशनम्, प्रकटीकरण-शोधन-प्रकाशनेषु नवीनपारिभाषिकविज्ञानम् इत्यादीनि निर्दिश्यन्ते॥
.....
अनुवर्तते.......,
No comments:
Post a Comment