Wednesday, 12 August 2020

सामवेदः Part III

 

        सामवेदे एकसहस्रशाखाः आसन्निति "सहस्रवर्त्मा सामवेदः"    इति महाभाष्ये महर्षिः पतञ्जलिः उल्लिलेख। सामतर्पणसन्दर्भे  1.राणायन,  2.सात्यमुग्रि-व्यास,  3.भागुरि-औलुण्डि,  4.गौल्मुलवि,  5.भानुमान,  6.औपमन्यव,  7.दाराल,  8.गार्ग्य,  9.सावर्णि,  10.वार्षगणि,  11.कुथुमि,  12.शालिहोत्र,  13.जैमिनि इत्येतेषां सामगानां आचार्याणां कृते अधुनाऽपि तर्पणादिकर्माणि क्रियन्ते        इति ज्ञायते॥

      उपर्युक्तेषु राणायन, कुथुमि तथा जैमिनीति आचार्याणां नामभिः प्रसिद्धाः राणायनीय, कौथुमीय तथा जैमिनीया इति तिस्रः शाखाः अद्यत्वे लभमानाः सन्ति। एतासु त्रिषु, राणायनीय-शाखा दक्षिण   भारते व्यवह्रियते। कौथुमीयशाखा विन्ध्याचलात् उत्तरभारते तथा केरळदेशे जैमिनीयशाखायाः अध्ययन-अध्यापन-पद्धतिः च दरीदृश्यते। सामवेदस्य प्रत्येकस्याः शाखायाः उच्चारण-गतिभेदैः नागरपद्धतिः, मद्रपद्धतिः, गोवर्धनीपद्धतिः इत्यादि नैक-पद्धतयः भवन्ति॥

      सामवेदे अनेकान्  अवान्तरस्वरान्  अतिरिच्य सप्तस्वराणां माध्यमेन गीतिपूर्ण-स्वरूपाः लभ्यन्ते। "गीतिषु सामाख्या" इति जैमिनीयसूत्रे गीतिप्रधानमन्त्रैः जैमिनीय-शाखा इति ज्ञायते॥

                                                     ..... अनुवर्तते......., 

No comments:

Post a Comment

CHARUCHARYA Part XIX

  अरागभोगसुभगः स्यात्‌ प्रसक्तविरक्तधीः । राज्ये जनकराजोऽभून्निर्लेपोऽम्भसि पद्मवत्‌॥७३॥ Arāga-bhoga-subhaga ḥ sy ā t prasakta-virakta-dh...