वेदस्तावत्
श्रवणमाध्यमत्वात् श्रुतिः इति, आम्नायः इति, आगमः इति च
आह्वयते। येन केनापि न लिखितत्वात् वेदः अपौरुषेयः इति च कथ्यते॥
नैव वेदाः प्लीयन्ते महाप्रलयेऽपि।
महाप्रलयकालेऽपि सूक्ष्मरूपेण परमात्मनि वेदराशिः स्थितः।
एवमुपरिनिर्दिष्टैः वाक्यैः वेदानां तत्त्वं संयक् ज्ञायते। इतोऽपि "इष्टप्राप्तये अनिष्टपरिहाराय च अलौकिकोपायं यो ग्रन्थः वेदयति सः वेदः" इति "वेदो नाम वेद्यन्ते ज्ञाप्यन्ते धर्मार्थकाममोक्षाः अनेनेति व्युत्पत्त्या चतुर्वर्गज्ञानसाधनभूतो ग्रन्थ-विशेषः" इति सुगमः। किं बहुणा, "शब्दातिरिक्तं शब्दोपजीविप्रमाणातिरिक्तं च यत्प्रमाणं तज्जन्यप्रमितिविषयानतिरिक्तार्थको यो यस्तदन्यत्वे सति आमुष्मिकसुखजनकोच्चारणकत्वे सति जन्यज्ञानाजन्यो यो प्रमाणशब्दस्तत्त्वं वेदत्वम् " इति वेदार्थपारिजात इति ग्रन्थे आचार्यचरणाः स्वामिनः श्रीकरपात्रमहाराजानां वेदभाष्यकाराः वेदशब्दस्य लक्षणात्मकं तात्पर्यार्थं अनुगृहीतवन्तः॥
वेदमन्त्रान्
ये दृष्ट्वा लोकोपकारार्थं ये प्रकटितवन्तः ते मन्त्रदृष्टारः इति सम्मान्यन्ते।
मन्त्रान् सङ्कलय्य सद्रूपेण सज्जी-कृतत्वात् तत् सङ्कलनं संहिता इति
उच्यते। देवताः उद्दिश्य द्रव्यत्यागरूपेण यज्ञेन तासां देवतानां प्रीणनार्थं वेदमन्त्राः
भवन्ति।
.....
अनुवर्तते.......,
No comments:
Post a Comment