Thursday, 6 August 2020

संस्कृतभाषायाः वैदिककालः

        

        संस्कृतभाषा तावत् तद्गत-नानाविध-ग्रन्थ-समुदाय-स्वभाव-विशेषानुरोधेन वैदिकी लौकिकीति द्वेधा विभज्यते इति पूर्वं अपश्याम। भारतीय-सारस्वतसंबन्धी चरित्रकालः वैदिककालः लौकिककालः इत्युभयोः आद्यः क्रिस्तवाब्दारम्भात् बहुपूर्वमेव पञ्चशतोत्तर-सहस्रवत्सरीतः समारभ्य तत्रैव द्वितीयशतकाब्द-पर्यन्तं व्यापृतः इति (1500 – 200 ) विदुषां सम्मतिः। वैदिक-कालस्य अन्तिमभागादनन्तरं लौकिककालस्य स्थितिरिति तेषां सर्वसम्मतनिर्णयः॥
      तत्र वैदिक्यां वेदाः वेदाङ्गानि भागं लभन्ते। श्रीमद्भागवतं
वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः।
वेदो नारायणः साक्षात् स्वयम्भूरिव शुश्रुम॥
(6-1-40) इति वदति। वेदशब्दस्तावत् ज्ञानार्थबोधकः। तत्र  

अदादिगणीय विद ज्ञाने इति धातोः करणे घञ् प्रत्यययुक्तेन निष्पन्नः। अर्थात्  वेत्ति- जानाति धर्मादिपुरुषार्थचतुष्टयोपायान् अनेन इति वेदः।

② दिवादिगण विद सत्तायां भावे घञ् प्रत्यययुक्तेन वेदः इति।③रुधादिगण विद विचारणे करणार्थे घञ् प्रत्यययुक्तेन विन्दे - विचारयति सृष्ठ्यादि प्रक्रियामनेन इति वेदः,

④तुदादिगण विदॢ लाभे इति धातोः करणार्थे घञ् प्रत्यययुक्तेन विन्दते-लभते धर्मादिपुरुषार्थान् अनेन इति वेदः,
⑤चुरादिगण विद चेतनाख्याननिवासेषु इति धातोः करणार्थे घञ् प्रत्यययुक्तेन वेदयति-सृष्ट्यादि पूर्वकल्पानुसारेण सर्वेषां प्राणिनां कर्म, तेषां नाम, आख्यानानि तथा निवासयोग्यस्थानानि अधिकृत्य अस्मभ्यं सूचयति इति वेदः इति पञ्चधा वेदार्थःअस्माभिः ज्ञायते॥

                                                ..... अनुवर्तते.......,


No comments:

Post a Comment

A SHORT TREATISE ON SANSKRIT PROSODY - Part I

       PROSODY means the study of poetry.  In Sanskrit it is called Chandas or Vruttam.     The earliest and most important work in Sanskrit...