कृष्णयजुर्वेदस्य षडशीतिशाखासु (86) अद्यत्वे केवलं तैत्तिरीय,मैत्रायणी,कठ,कपिष्ठल नाम्ना चतस्रः शाखाः एव उपलभ्यन्ते। कृष्णयजुर्वेदस्य मन्त्रम्, ब्राह्मणम्, आरण्यकम् इत्यादयः "त्रीणि मन्त्रब्राह्मणारण्यकानि यस्मिन् वेदशब्दराशौ सह तरन्ति पठ्यन्ते, असौ तित्तिरिः" इति उक्त्या तैत्तिरीयनाम्ना ज्ञायन्ते। कृष्णयजुर्वेदस्य तैत्तिरीयशाखा तैत्तिरीयसंहिता इत्यपि आह्वयते। कृष्णयजुर्वेदस्य ब्राह्मणम् तैत्तिरीय ब्राह्मणं वर्तते। काठक ब्राह्मणम् इति श्रुतं ब्राह्मणम् अधुना नोपलभ्यते। तैत्तिरीय ब्राह्मणं काण्डनाम्ना भागत्रयात्मकं भवति। तत् अष्टकनाम्ना ज्ञायते। तत् प्रश्नमित्यपि श्रूयते। अस्य अवान्तरविभाजने 343 अनुवाकाः सन्ति। कृष्णयजुर्वेदस्य उपनिषदः 32 द्वात्रिंशत्। तासु तैत्तिरीय, मैत्रायणीय, कठ, श्वेताश्वतरोपनिषदः प्रमुखाः भवन्ति। कृष्ण- यजुर्वेदस्य कल्पग्रन्थेषु बौधायन, आपस्तम्ब, सत्याषाढ, मानव, वैखानस, भारद्वाज, वाराह इति सप्तश्रौतसूत्राणि। बौधायन, आपस्तम्ब, सत्याषाढ, मानव, काठक इति पञ्चगृह्यसूत्राणि। बौधायन, आपस्तम्ब, सत्याषाढ इति त्रीणि धर्मसूत्राणि। बौधायन, आपस्तम्ब, मानव इति शुल्बसूत्राणि। कृष्णजुर्वेदस्य व्याकरणांशात्मकं प्रातिशाख्यं तैत्तिरीयप्रातिशाख्यमिति चोच्यते। कृष्णयजुर्वेदस्य शिक्षाग्रन्थेषु संहिताशिक्षेति अपरनाम्नी भरद्वाज- शिक्षा, व्यासशिक्षा इति शिक्षाद्वयं प्रसिद्धं भवति॥
..... अनुवर्तते.......,
No comments:
Post a Comment