Tuesday, 30 June 2020

मन्दिरं सहोदराणाम्




         Jagannath Puri & Konark Sun Temple - Vasantkamal ToursVasantkamal ...


     अस्मिञ्जगतितले अस्माकं भारतदेशः पुण्यभूमिरिति सर्वैः ज्ञातपूर्व एव। एतादृशे अस्मद्देशे पुरी इति अपरनामकं जगन्नाथक्षेत्रमिति इति दिव्यक्षेत्रमस्ति। अत्र विद्यमानं मन्दिरं सर्वैः आराध्यमानं स्तूयमानं च भवति। तद्वैभवं किञ्चित्  जानीमः
1. एतस्मिन् मन्दिरे भगवतः श्रीभद्रस्य कृष्णस्य, तस्य ज्येष्ठसहोदरस्य भगवतो बलभद्रस्य, तस्य सहोदर्याः सुभद्रायाश्च मूर्तयः सन्ति॥
2. महाराजस्य वसुदेवस्य प्रथमायां पत्न्यां देवक्यां      पुत्रत्वेन भगवान् श्रीकृष्णः अवतीर्णः। महाराजस्य वसुदेवस्य द्वितीयायां भार्यायां रोहिण्यां भगवान् बलरामः ज्येष्ठपुत्रत्वेन तथा भगवती योगमाया इति विष्णुमाया पुत्रीत्वेन जाता॥
3. एतेषां सहोदरी-सहोदराणां कृते एव एतस्मिन् भुवनमण्डले एकमेव मन्दिरम् अस्ति। न केवलमेतदेव वैशिष्ठ्यम् ,अपि तु एतेषां मूर्तयः काष्टखण्डैः निर्मिताः भवन्ति॥
4. कंसस्य सहोदरी देवकी आसीत्। किन्तु कंसे सहोदरी-प्रेमा नासीत्। तद्दोषदूरीकरणार्थं भगवान् सहोदर-सहोदरी-प्रेमभावं तथा बान्धव्यम् इत्थं प्रकटी-कृतवान्॥
5. अस्मिन् मन्दिरे श्रीकृष्णः, नील-मा-धवः इति अर्थात् नीलः इत्यनेन श्रीकृष्णभद्रः इति, मा इत्यनेन सुभद्रा इति, तथा धवः इत्यनेन बलभद्रः इति च सर्वैः वन्द्यमानः विराजते॥
6. अद्यापि अस्माकं भारतदेशे रक्षावन्धनं, भाई धूज् इत्यादयःमहोत्सवाः एतस्मिन् क्षेत्रे महता कोलाहलेन वैभवेन च अनुष्ठीयन्ते। एतत् स्मृत्वा, पुरा चित्तूरु राज्ञी कर्णवती ह्यूमायून् इति मुहम्मदीयनृपाय रक्षाबन्धनं प्रेषितवती इती प्रथा॥

No comments:

Post a Comment

SEVEN FASCINATING TOPICS FROM SANSKRIT LITERATURE - 7. THE KATHASARITSAGARA

  THE KATHĀSARITSĀGARA: AN OCEAN OF INTERTWINED STORIES The Kathāsaritsāgara , meaning “The Ocean of the Streams of Stories,” is one of t...