Thursday, 25 June 2020

पतिव्रतापदविचारः


      भारतीयसमाजे स्त्रीणां स्थानं तावत् अत्युत्तमं भवति।
"अहल्या द्रौपदी तारा सीता मन्दोदरी तथा।
 पञ्चकन्याः स्मरेन्नित्यं महापातकनाशिनीः"॥ इत्युक्तोऽपि सर्वाः नार्यः स्मरणीयाः पूजनीयाश्च। तासु स्त्रीषु विवाहिताः गृहिण्यः इति कथ्यन्ते। ताः स्वं स्वं पतिं धर्मे मार्गे अनुसरन्ति। अतः ताः सहधर्मचारिण्यः इत्यपि स्तूयन्ते॥
1. ताः स्वकीयानां पतीनां (भर्तॄणां) सेवां कुर्वन्ति। पतिसेवा एव तासां व्रतं भवति। अर्थात् पतिमात्रपरायणाः पतिव्रताः इति स्तूयन्ते॥
2. तासां स्त्रीणां स्व-स्वपतयः देवाः भवन्ति इत्यनेन ताः पतिदेवाः इत्यपि संभावयन्ते॥
3.  पतिसेवायां निरताः भूत्वा तस्य शुश्रूषायाम् ताः अनुकूलाः भवन्ति॥
4.  स्वकीयैः वाक्यैः, सत्यैः, प्रियैः कर्मभिः, काले काले आपदि अपतितं पतिं भजन्ती, सन्तुष्टा, अलोलुपा, सर्वकार्यदक्षा, धर्मज्ञा, अप्रमत्ता, पतिस्निग्धा च परिव्रता भवति॥  




No comments:

Post a Comment

INTERNATIONAL LITERACY DAY

  Today, 8 september 2026, is international literacy day. A very suitable UNESCO quotation, “Literacy is a fundamental human right for all...