Friday, 26 June 2020

शुक्रवासरमहिमा


      
Image result for Image of Sukra star
   सप्तवासरेषु षष्ठः वासरः शुक्रवासरः। नवग्रहेषु शुक्राचार्यः सूर्यादनन्तरं वयसा ज्येष्ठः। भृगुमहर्षेः पुत्रः शुक्राचार्यः। एषः दैत्यानाम् अर्थात् असुराणाम् आचार्यः।
एतेन कृतं शास्त्रं शुक्रनीतिः इति कथ्यते। आङ्ग्लभाषायां वीनस् इति कथ्यते। एतस्य अपरनाम "कवीनाम् उशना कविः" इति श्रीमद्भगवद्गीतावचनानुसारम् उशना इत्यपि श्रूयते। भगवान् परशुरामः भृगोः अंशः इति ज्ञायते, एतद्वासरस्य महिमां तावत् किञ्चित् जानीमः॥
1. महर्पिभृगोः श्रीमहालक्ष्मीः पुत्रीत्वेन जाता। अतः श्रीमहालक्ष्मीः भार्गवी इत्यपि च सम्मान्यते॥
                    Mahalakshmi homam |Homam | Puja | Pandit Purohit for Havan ...
2. श्रीमहालक्ष्म्याः प्रीतिकरः वासरः एषः शुक्रवासरः। "भृगुवारे शतं धीमान् पठेत् वत्सरमात्रकम्" इति शुक्रवासरे श्रीमहालक्ष्मीशतनामपठनेन  कोऽपि नरः एतस्मिन् भूतले कुबेरः इव अष्टैश्वर्यम् अवाप्नोति॥
3. शुक्रग्रहस्य अधिदेवता-प्रत्यधिदेवतारूपेण श्रीमद्रङ्ग-नाथः स्तूयते। अतः शुक्रग्रहप्रीत्यर्थं श्रीमद्रङ्गनाथः सर्वैः उपास्यते॥
श्रीमत्या गोदादेव्या "वेळ्ळि एषुन्दु व्याषम् उरङ्गिट्रु" इति कथनेन अर्थात् "गुरुवासरादनन्तरं शुक्रवासरः आगतः" इत्यनेन अवगम्यते यत् सामान्यतः सर्वैः मानवैः जीवने शुक्रग्रहेण शुभोदयः(Prosperity) प्राप्यते (विडिवेळ्ळि)इति॥


Image result for Image of Sukra star

No comments:

Post a Comment

SEVEN FASCINATING TOPICS FROM SANSKRIT LITERATURE - 7. THE KATHASARITSAGARA

  THE KATHĀSARITSĀGARA: AN OCEAN OF INTERTWINED STORIES The Kathāsaritsāgara , meaning “The Ocean of the Streams of Stories,” is one of t...