Monday 22 June 2020

रघुवंशे पशुकथापात्राणि




कविकुलगुरोः कालिदासस्य रघवंशमहाकाव्ये काश्चन पशवः अपि कथापात्रत्वेन चित्रिताः सन्ति। तासु 
1. नन्दिनी-कामधेनोः वत्सा
सुतां तदीयां सुरभेः....॥81-1 ॥
अनिन्द्या नन्दिनी नाम धेनुः... ॥ 82-1 ॥
सन्ततिहीनौ सुदक्षिणा-दिलीपौ कुलगुरोः वसिष्टमहर्षेः मार्गदर्शनानुसारं कामधेनोः वत्सां नन्दिनीं आराध्य सन्ततिम् अलभेताम् ॥
2.            कुम्भोदरः-सिंहः
अवेहि मां किङ्करमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥ 35-2 ॥
भगवान् परमेश्वरः, भगवत्या पार्वत्या वर्धितं देवदार्विति दिव्यवृक्षं पालयितुं कुम्भोदरं नाम किङ्करं सिंहरूपेण निययुङक्त ॥
3.             प्रियंवदः-वन्यगजः
        अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां.... ॥ 53-5 ॥  
 रघोः पुत्रः अजः, विदर्भराजपुत्रीं इन्दुमतीं स्वयंवरे परिणेतुं गमनसमये मार्गे स्वसैन्यं पीडितं वन्यगजमेकं निपातितवान्।
सः वन्यगजः पूर्वं, मतङ्गमहर्षिणा शप्तः गन्धर्वपतेः प्रियदर्शनस्य तनूजः प्रियंवदः ॥

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...