Saturday, 27 June 2020

दशविधरूपकेषु प्रहसनम्



    संस्कृतभाषायां दृश्यकाव्यारूपाणि नाटकानि बहूनि भवन्ति तानि तावत् सामान्यतः नाटकानि इति उच्यमा-नान्यपि  वस्तुतःरूपकाणि इत्येव वक्तव्यानि। तद्रूपकाणि
          नाटकं   सप्रकरणं    भाणः  प्रहसनं  डिमः।
व्यायोग-समवाकारौ वीथ्यङ्केहामृगाः दश॥
इति दशविधानि भवन्ति। तत्र चतुर्थविधं प्रहसनमधिकृत्य किञ्चित् पश्यामः॥
1. प्रहसनम् इति रूपकं शुद्धं सङ्कीर्णमिति द्विविधं भवति।
2. प्रहसने वस्तु कवेः काल्पनिकमनुसृत्य उत्पाद्यं भवति। धीरललितात्मकाः नीचपात्रभूताः तापस-सन्नयासी-विटाद्याः नेता भवितुमर्हन्ति। हास्यरसःप्रधानरसो भवति॥
3. शुद्धप्रहसनस्य उदाहरणं भवति शशिविलासः इति। सङ्कीर्णविधस्य बोधायनकविप्रणीतं भगवदज्जुकी-यम्, महेन्द्रवर्मपल्लवभूपकृतं मत्तविलासप्रहनम् इति द्वे अतिप्रसिद्धे॥
4. इतोऽपि गङगाधरकविकृतं लटकमेलकम्, जगदीशकृतं हास्यार्णवम्, गोपीनाथचक्रवर्तिकृतं कौतुकसर्वस्वम् इत्यादीनि कानिचन प्रहसनानि सन्ति॥

No comments:

Post a Comment

PANDYAS OF TAMIL NADU AND THE SANSKRIT SOURCES

  The Pandyas were one of the ancient and important Tamil dynasties of South India. Their kingdom occupied the southern part of present-da...