Tuesday, 23 June 2020

संस्कृतसङ्ख्यायाम् "एकम्" इति सङ्यायाः महत्वम्





      संस्कृतभाषायां सङ्ख्याया स्थानं महत्वं भवति। सङ्ख्यां विना किमपि शास्त्रं न विद्यते। द्रव्य-गुण-कर्म- सामान्य-विशेष-समवाय-अभावेष्वति सप्तपदार्थेषु द्वितीयः गुणः इति पदार्थः। सः च रूप-रस-गन्ध-स्पर्श इत्यादिभिः चतुर्विंशत्यात्मकः। तेषु चतुर्विंशतिभेदेषु पञ्चमः भवति सङ्ख्या इति। "एकत्वादि-व्यवहार-हेतुः सङ्ख्या" इति सङ्यायाः लक्षणं वदति तर्कसङ्ग्रहः इति न्यायग्रन्थः। सा एकत्वादि परार्धपर्यन्ता इति परिमिता। तासु सङ्ख्यासु "एकम्" इति सङ्यायाः महत्वं किञ्चित् पश्यामः॥
1.  परमात्मा-परमात्मा एक एव।
एकं सत् तद्विप्राः बहुधा वदन्ति।–उपनिषद्।
यं वैदिका मन्त्रदृशः पुराणाः इति श्लोकः, यं प्रार्थयन्ते जगदीशितारं स एक एव प्रभुरद्वितीयः इति वदति.
मृत्पिण्डमेकं बहुभाण्डरूपम्। - उपनिषद्।
2.  एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा।
 विद्यैका परमा तृप्तिः अहिंसैका सुखावहा॥-विदुरनीतिः
3.  नाट्यम्-नाट्यं भिन्नरुचेरजनस्य बहुधाप्येकं समाराधनम्
कातिदासीय मालविकाग्निमित्रमिति नाटके॥

No comments:

Post a Comment

PANDYAS OF TAMIL NADU AND THE SANSKRIT SOURCES

  The Pandyas were one of the ancient and important Tamil dynasties of South India. Their kingdom occupied the southern part of present-da...