Tuesday 23 June 2020

संस्कृतसङ्ख्यायाम् "एकम्" इति सङ्यायाः महत्वम्





      संस्कृतभाषायां सङ्ख्याया स्थानं महत्वं भवति। सङ्ख्यां विना किमपि शास्त्रं न विद्यते। द्रव्य-गुण-कर्म- सामान्य-विशेष-समवाय-अभावेष्वति सप्तपदार्थेषु द्वितीयः गुणः इति पदार्थः। सः च रूप-रस-गन्ध-स्पर्श इत्यादिभिः चतुर्विंशत्यात्मकः। तेषु चतुर्विंशतिभेदेषु पञ्चमः भवति सङ्ख्या इति। "एकत्वादि-व्यवहार-हेतुः सङ्ख्या" इति सङ्यायाः लक्षणं वदति तर्कसङ्ग्रहः इति न्यायग्रन्थः। सा एकत्वादि परार्धपर्यन्ता इति परिमिता। तासु सङ्ख्यासु "एकम्" इति सङ्यायाः महत्वं किञ्चित् पश्यामः॥
1.  परमात्मा-परमात्मा एक एव।
एकं सत् तद्विप्राः बहुधा वदन्ति।–उपनिषद्।
यं वैदिका मन्त्रदृशः पुराणाः इति श्लोकः, यं प्रार्थयन्ते जगदीशितारं स एक एव प्रभुरद्वितीयः इति वदति.
मृत्पिण्डमेकं बहुभाण्डरूपम्। - उपनिषद्।
2.  एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा।
 विद्यैका परमा तृप्तिः अहिंसैका सुखावहा॥-विदुरनीतिः
3.  नाट्यम्-नाट्यं भिन्नरुचेरजनस्य बहुधाप्येकं समाराधनम्
कातिदासीय मालविकाग्निमित्रमिति नाटके॥

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...