Wednesday, 24 June 2020

अंशचतुष्टयम् आहारनियमे

     "आहारप्रमादः सर्वप्रमादः" इति वदति भगवदज्जु कीयमिति      प्रहसनरूपात्मकं नाटकम्। "अन्नमयं हि सौम्यमनः" आहारशुद्धौ हि      सत्त्वशुद्धिः" इति च श्रूयते। आहारविषयमधिकृत्य,

1. वेङ्कटनाथः इति श्रीमद्वेदान्तदेशिकः क्रिस्तोः परं त्रयोदशशताब्दीयः आचार्यसार्वभौमः, आहारनियमम् इति द्रमिडभाषायाम् ग्रन्थरत्नमेकं विरचयामास॥
2.  तत्र एकविंशति पद्यानि सन्ति। एकं पद्यं अष्टपदात्मिकम्   अस्ति॥
3.    तत्र अधिकतया एतादृशानि अन्न-पान-विधानि अस्माभिः अवश्यं वर्जनीयानि इति अर्थात् रजो-गुणवर्धकानि तमो-गुणविवर्धकानि आहारमयानि त्यक्तव्यानि इति उक्तानि।
शाकादीनि, तण्डुलादीनि अग्नौ पचनं कृत्वा भोक्तव्यानि, पर्युषितहीनानि भार्ज्यानि, अपूपाः, रोटिका, पुराणमधूनि एव भोजनार्हाणि, नूतममधूनि त्याज्यानीति च संयक् सूचितानि॥
 4.आहारविषयमधिकृत्य "आयुस्सत्त्व-बलारोग्य-सुख-प्रीति-        विवर्धनाः। रस्याः स्निग्धाः स्थिराःहृद्याः आहाराः सात्त्विकप्रियाः"॥ इति श्रीमद्भगवद्गीतायां, "यथाहारः तथा वुद्धिः" इति मनुस्मृत्यां च उक्तान् विषयानाधारी-कृत्य, हितैषिभिः सज्जनैः सत्त्वगुणसंवर्धने सात्त्विकाः आहाराः एव सेव्याः अर्थात् स्वीकरणीयाः इति निर्धारयति श्रीमद्वेदान्तदेशिकः॥

No comments:

Post a Comment

PANDYAS OF TAMIL NADU AND THE SANSKRIT SOURCES

  The Pandyas were one of the ancient and important Tamil dynasties of South India. Their kingdom occupied the southern part of present-da...