Wednesday 24 June 2020

अंशचतुष्टयम् आहारनियमे

     "आहारप्रमादः सर्वप्रमादः" इति वदति भगवदज्जु कीयमिति      प्रहसनरूपात्मकं नाटकम्। "अन्नमयं हि सौम्यमनः" आहारशुद्धौ हि      सत्त्वशुद्धिः" इति च श्रूयते। आहारविषयमधिकृत्य,

1. वेङ्कटनाथः इति श्रीमद्वेदान्तदेशिकः क्रिस्तोः परं त्रयोदशशताब्दीयः आचार्यसार्वभौमः, आहारनियमम् इति द्रमिडभाषायाम् ग्रन्थरत्नमेकं विरचयामास॥
2.  तत्र एकविंशति पद्यानि सन्ति। एकं पद्यं अष्टपदात्मिकम्   अस्ति॥
3.    तत्र अधिकतया एतादृशानि अन्न-पान-विधानि अस्माभिः अवश्यं वर्जनीयानि इति अर्थात् रजो-गुणवर्धकानि तमो-गुणविवर्धकानि आहारमयानि त्यक्तव्यानि इति उक्तानि।
शाकादीनि, तण्डुलादीनि अग्नौ पचनं कृत्वा भोक्तव्यानि, पर्युषितहीनानि भार्ज्यानि, अपूपाः, रोटिका, पुराणमधूनि एव भोजनार्हाणि, नूतममधूनि त्याज्यानीति च संयक् सूचितानि॥
 4.आहारविषयमधिकृत्य "आयुस्सत्त्व-बलारोग्य-सुख-प्रीति-        विवर्धनाः। रस्याः स्निग्धाः स्थिराःहृद्याः आहाराः सात्त्विकप्रियाः"॥ इति श्रीमद्भगवद्गीतायां, "यथाहारः तथा वुद्धिः" इति मनुस्मृत्यां च उक्तान् विषयानाधारी-कृत्य, हितैषिभिः सज्जनैः सत्त्वगुणसंवर्धने सात्त्विकाः आहाराः एव सेव्याः अर्थात् स्वीकरणीयाः इति निर्धारयति श्रीमद्वेदान्तदेशिकः॥

No comments:

Post a Comment

ZARAA (JARAA)

                                                     ZARAA (JARAA) Zaraa (JARAA) was a harpy (Raakshasi) . Though she was a harpy she love...