Tuesday, 28 July 2020

यकृत्-रक्षणम्



Embolization Therapy for Liver Cancer
      अद्य जूलै 28-07-2020 अखिलभुवन-यकृत्-पीडानिवारण-
दिनं (World Hepatitis Day) सर्वैः मन्यते। प्रतिमानवानां शरीरेषु हृदयम्, मस्तिष्कम्, फुफ्फुसः इति मुख्यभूतानि अङ्गानि सन्ति। तादृशाङ्गेषु अवयवेषु यकृत् अपि (Liver) अन्यतमं भवति। "यं संयमं करोति इति यकृत्"। "कालेयम् इति अपरं नाम, "कं सुखमा-लेयमम् आदेयं यस्मात् " इति तस्य व्युत्पत्तिः। तस्य कार्यमपि अधिकमस्ति। तदधिकृत्य किञ्चित् जानीमः-
 1. कशेरुयुक्तप्राणिनां तद्रहितप्राणिनामपि यकृत् मुख्यभूतमस्ति    यतः भुक्तानां भोजनानां जीरणार्थं भगवता सृष्टं भवति।
 2. जन्तुषु प्रादुर्भूतेन व्याधिना यकृत् नितरां पीडितमपि                   75% स्वयमुत्तेजीकरोति। शरीरात् टाक्सिन् इति कालुष्यं             निष्कासयति। जन्तुभिः भुक्तानाम् आहाराणां जीरणाय             पित्तद्रवमुत्पादयति।
 3. जन्तुषु प्रादुर्भूतेन व्याधिना यकृत् नितरां पीडितसमये पैल्            इति द्रवः अधिकेन उत्पाद्यते। अनेन पादेषुस्फीतम्,पीतवर्ण-
    युक्त नेत्रम्, उदरवेदना, वमनं तथा आलस्यम्, ज्वरः, शिरो-         भ्रमणं, कुक्ष्यां वमनेच्छा, पीतवर्णमूत्रविसर्जनम्, इत्यादयः    रोगाः जायन्ते।
    4.            यकृत्-पीडानिवारणार्थं,  हारीतपत्राणि (Greens  like       Spinach),लशुनं, शिखामूलम् (Beetroot ) बीट्रूट्, मधु,   नारिकेल-तैलं, तृणचायम् (Green - tea)ग्रीन् टी, स्ट्राबेर्रिफलम्,  सुलभ-जीर्णयोग्यभोजनानि, सत्त्वगुणवर्धकाः शाकाः, फलानि इत्यादयः खादनीयाः इति वैद्यानां सदुपदेशाः॥
॥यकृत् इति शरीरावयवं पालयामः, सुखं जीवामः॥

PROTECT YOUR LIVER…. | myklluli's Blog

Monday, 27 July 2020

फलानि




Fresh Fruits Manufacturer in Malappuram Kerala India by MALABAR ...

      फलानि बहुविधानि सन्ति। तानि अधिकृत्य किञ्चित् आस्वादयामः-
1. मनुष्याणां जीवने फलानां स्थानं मुख्यतमं भवति।
2. रसाल-चूत-सहकारादिभेदयुक्तम्-आम्रम्, कण्टकिभेदयुक्तं- पनसम्, वारणबुसा-रम्भा-मोचा-अंशुमत्फलादिभेदयुक्तं-कदलीफलम्, पिचुमन्द-जम्बीरादिभेदयुक्तं-निम्बुफलम्, आमलकम्, बदरी, कपित्थम्, भेरी, बहुबीजम्, दाडिमम्, नारङ्गम्, सेवम्, मृद्वीका-गोस्तनी-स्वाद्वी-मधुरसादिभेद-युक्तं-द्राक्षाफलम्, जम्बूफलम्, अन्नासफलम् इत्यादीनि अनेकानि फलानि भवन्ति।
3."अभुक्तादामलकं पथ्यं भुक्त्वा तु बदरीफलम्।
  कपित्थं  सर्वदा  पथ्यं  कदली   कदाचन॥" इति श्लोकः पथ्यभूतानि फलानि अधिकृत्य वदति।
                        Image result for Image of Srirama and Sabari
4."सादरं शबरीदत्त-फल-मूलाभिलाषिणे"  इति भगवान् श्रीरामः सर्वैः स्तूयते।
5. कपित्थ-जम्बूफलानि गजानामिष्टतमानि इति कारणेन
कपित्थ-जम्बूफलसारभक्षितमिति भगवान् विनायकः स्तूयते।
6. फलानि मनुष्याणां पुष्टिदानि सन्ति। तानि फलानि भुक्त्वा सन्तोषेण जीवामः॥

Sunday, 26 July 2020

पञ्चैताः मातरः स्मृताः

      

      अस्माकं भारतीयसंस्कृतौ महिलानां माहात्म्यं श्रेष्ठं भवति। "यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः" इति सूक्तिः स्त्रीणां श्रेष्ठत्वं द्रढयति। स्त्रीषु एताः पञ्चमहिलाः मातृसमाः,
ताः काः इति किञ्चित्  जानीमः-
1. गुरुपत्नी-गुरोः अर्थात् आचार्यस्य पत्नी।
2. राजपत्नी-राज्ञः अर्थात् अस्मान् यः शास्ति तस्य पत्नी।
3. ज्येष्ठपत्नी-अस्माकं ज्येष्ठाणां सहोदराणां अर्थात् अग्रजानां पत्न्यः (प्रजावत्यः)।
4. पत्नीमाता-श्वश्रूः अर्थात् स्वकीयायाः पत्न्याः माता।
5. स्वमाता-अस्माकं जनयित्री (जननी)।
गुरुपत्नी  राजपत्नी  ज्येष्ठपत्नी  तथैव  च।
पत्नीमाता  स्वमाता  च  पञ्चैताः  मातरः  स्मृताः॥
इति ताः स्तूयन्ते॥

Saturday, 25 July 2020

श्रीमद्विहगेश्वरस्य वैनतेयस्य अवतारदिनवैभवम्


                                  Garuda, the carrier of Lord Visnu
      श्रीवैष्णवसंप्रदाये, प्रतिसंवत्सरं, दक्षिणायने, ग्रीष्मर्तौ, कटक-मासे, शुक्लपक्षे, (आषाढमासे) उत्तरफल्गुणी-नक्षत्र-युक्ते दिने, 
पञ्चम्यां शुभतिथौ, श्रीमतो भगवतो पक्षिराजस्य गरुडस्य जन्मदिनोत्सवः मन्यते। शार्वरी नाम संवत्सरे, दक्षिणायने, 
ग्रीष्मर्तौ, कटकमासे, शुक्लपक्षे (आषाढमासे) उत्तरफल्गुणी-नक्षत्र-
युक्ते अस्मिन् दिने (25.07.2020) पञ्चम्यां शुभतिथौ अर्थात् अद्य श्रीमतो भगवतो पक्षिराजस्य गरुडस्य जन्मदिनोत्सवः सर्वैः महता वैभवेन अभिनन्द्यते। । श्रीद्विहगेश्वरस्य वैनतेयस्य माहात्म्यं 
किञ्चित् जानीमः-
 1. गरुडः पक्षिषु श्रेष्ठत्वात् पक्षिराजः इति स्तूयते। भगवतो चतुर्मुखस्य पुत्रः कश्यपर्षिः, तस्य कद्रुः विनता इति द्वे पत्नी आस्ताम्। ते भगिन्यौ। तयोः ज्येष्ठा कद्रुः, कनिष्ठा विनता । कश्यपर्षेः कद्रोः च पुत्रत्वेन अनन्तातदयः नागरूपैः अजायन्त, कश्यपर्षेः विनतायाः च पुत्रत्वेन, अरुणेन सह गरुडः पक्षि-रूपेण अजायत ॥
 2. विनतायाः पुत्रः इति कारणात्  गरुडः, वैनतेयः इति मन्यते॥
 3.कद्रुः स्वकीयां अनुजां विनतां दासित्वेन बन्धीकृत्य, तां स्वपुत्रैः 
    नागैश्च निरीक्षितवती। तादृशस्थित्याः स्वमातरं विनतां, तस्याः 
    पुत्रः गरुडः, कद्रोः अभिसन्ध्यनुसारं, देवलोकं गत्वा, अमृतकलशं महेन्द्रात् प्राप्य, मुमुचे ॥
 4. तदात्वे तस्य शौर्यं दृष्ट्वा प्रीतः भगवान् श्रीमन्नारायणः तं गरुडं, स्वकीयं वाहनार्थं भवितुं वरं ददौ। तदा प्रभृति गरुडः भगवतः श्रीमन्नारायणस्य वाहनं, ध्वजः इति रूपं प्राप्तवान्। किञ्च गरुडः श्रीमन्नारायणस्य वाहनमभवत् इति कारणेन सः वेदात्मा च 
   अभवत्। सः "वेदात्मा विहगेश्वरः" इति स्तूयते। अनेन श्रीवैष्णव-संप्रदाये, श्रीमतो भगवतो पक्षिराजस्य गरुडस्य अधिकप्रामुख्यं भवति॥

              Garuda - Vehicle of Sri Maha Vishnu - Tirumala Tirupati Yatra        Tamilnadu Tourism: Nachiyar Koil (Thirunaraiyur Nambi Temple ...

 5.गरुडस्य गरुत्मान्, वैनतेयः, सुपर्णः, तार्क्ष्यः, खगेश्वरः, 
    नागान्तकः,  पन्नगाशनः, विष्णुरथः इत्यादीनि नामानि सन्ति॥
 6.अतः वयं सर्वे, अस्मिन् दिने भगवनन्तं पक्षिराजं गरुडं,
"कुङ्कुमाङ्कितवर्णाय  कुन्देन्दुधवलाय च।
  विष्णुवाह  नमस्तुभ्यं  पक्षिराजाय ते नमः"॥ इति स्तुत्वा
जीवने वृश्चिक-सरीसृप-सर्पादिविषजन्तूणां भयं विहाय सकलविधसौभाग्यं, सौमाङ्गल्यं च प्राप्य सुखं जीवामः॥ 

Garuda Facts for Kids

Friday, 24 July 2020

श्रीगोदादेव्याः अवतारदिनम्




Did you Know who is Andal and How she married the Lord ...

श्रीवैष्णवसंप्रदाये, शार्वरी नाम संवत्सरे दक्षिणायने 
ग्रीष्मर्तौ कटकमासे शुक्लपक्षे (आषाढमासे) पूर्वफल्गुणी-
नक्षत्र-युक्ते अस्मिन् दिने (24.07.2020) श्रीमत्याः गोदादेव्याः जन्मदिनोत्सवः सर्वैः महता वैभवेन 
अभिनन्द्यते। श्रीमत्याः गोदादेव्याः माहात्म्यं किञ्चित् जानीमः-
  1. एषा श्रीमती गोदादेवी श्रीवैष्णवसंप्रदाये "आழஂवार्गळ्" इति       स्तूयमानेषु द्वादशदिव्यसूरिषु अन्यतमा॥
  2. एषा श्रीमती गोदादेवी, श्रीवैष्णवसंप्रदाये "आழஂवार्गळ्" इति       स्तूयमानेषु द्वादशदिव्यसूरिषु  "पेरियाழஂवार्गळ्" इति नाम्नः   श्रीमद्विष्णुचित्ताख्यस्य पुत्रीत्वेन अवततार॥
  3. श्रीकृष्णावतारे यथा गोप्यः कात्यायनीव्रतेन श्रीकृष्णम्     आत्मीयवल्लभत्वेन ववरुः, तादृशमार्गं तिरुप्पावै इति नाम्ना, 
    एषा श्रीमती गोदादेवी अपि स्वसखीभिः सह व्रतमाचरन्ती
 भगवन्तं श्रीकृष्णमेव आत्मीयवल्लभत्वेन ववार॥
  4. अनेन एतस्याः "सङ्घे शक्तिः कलौ युगे" इति न्यायानुसारं स्वकीयैः     सखीभिः सह सत्सङ्गतिमुत्पाद्य अस्मिन् जगति सर्वेषां   सौमाङ्गल्यार्थं सौभाग्यार्थं च त्रिंशत्पद्यात्मिकेन तिरुप्पावै इति   प्रबन्धरत्नेन भगवन्तं श्रीकृष्णं स्तौति स्म॥
  5. भगवन्तं श्रीकृष्णमेव आत्मीयवल्लभत्व-वरणं स्वकीये स्वप्ने दृष्ट-मिति, एतस्याः वारणमायिरम् इति प्रबन्धः ज्ञापयति। 
"वारणैरावृतः वीथियात्रां चरन्
कारणो मामकः मत्पुरेऽसञ्चरत्।
  पूरणान् न्यस्तहैमान्घटान् सर्वतो
तोरणस्थापनं स्वप्नमैक्षे सखि॥
इति मया तत्प्रथमश्लोकः द्रमिडभाषायामनूदितः। एतस्मिन् सुदिने, 
वयं सर्वे, भगवतीं श्रीमतीं गोदादेवीं स्तुत्वा, तस्याः प्रवन्धान् च अनुसन्धानं कृत्वा, जीवने पुरोगतिं प्राप्नुमः॥

Hari Charanam: ThiruAdi Pooram - The Birth Nakshatram of Andal

ĀVAṆI 1 AND ṢAṢṬHĪ VRATA - 18th August 2026

  On 18 August 2026, Tamil Nadu observes Āva ṇ i 1, the first day of the auspicious Tamil month of Āva ṇ i. The day also coincides with Śu...