Friday, 11 June 2021

चाणक्यदृशा क्रय-विक्रयवस्तूनां स्वरूपलक्षणयोग्यतायाः नियमनम्

 

कौटिल्य इति विख्यातवैभवः विष्णुगुप्तो नामा भारतीयराज नीतिकशास्त्रे अग्रेसरः विलसति। पश्चात् एषः चाणक्य इति च स्तुतः सर्वैः। अनेन रचितमर्थशास्त्रं नाम ग्रन्थरत्नं प्रपञ्चे अत्यन्तं प्रसिद्धमित्यत्र न कोऽपि संशयः। एषः स्वकीयं शास्त्रग्रन्थं पञ्चदश (15) अधिकरणैः, पञ्चाशदधिकशतात्मकैः (150) अधिकारैः, अशीत्यधिकशतात्मकैः (180) प्रकरणैश्च अर्थशास्त्रमिति नामयन् लिलेख। तत्र पञ्चदशसु अधिकरणेषु मण्डलयोनिः इति नामनि षष्ठे अधिकरणे, क्रय-विक्रय-योग्यानां तथा अर्थसम्पादनकारक- वस्तूनां मूलं, तेषां निरीक्षणं, तत्संरक्षणं, तेषां प्रयोजन-मिति विविधविषयाः संयक् चर्चिताः सन्ति।

स्वामी-अमात्य-जनपद-दुर्ग-कोश-दण्ड-मित्राणि प्रकृतयः।

 इति प्रकारप्रकृतिसम्पदधिकृत्य प्रथमं सूत्रम्। प्रकृतयः स्वाम्यमात्यजनपददुर्गकोशदण्डमित्राणि, एताः सर्वाः परस्पर-मुपकुर्वन्ति, तासां सम्पदः अपेक्षितगुणपुष्कलताः इह उच्यन्ते। लोकयात्राविद् राजानमात्मद्रव्यप्रकृतिसम्पन्नमाश्रयेत इति च आगामिप्रकरणान्तरे उक्तं भवति। अत्र इयमात्मसम्पदेषा प्रकृति-सम्पदिति एषः विभागः अत्र प्रदर्श्यते। स्वाम्यादयः सप्त। एतानि सप्त अन्योन्यसहकारीणि त्रिविष्टब्धकवदन्योन्याश्रयाणि परस्परं प्रकृष्टमुपकुर्वन्तीत्यतः प्रकृतय इत्याख्यायन्ते।

1. स्वामी - अत्र स्वामी अमात्यादीनां पञ्चानां द्रव्यप्रकृतीना मधिपतिः। अत्र स्वामी द्विविधः राजा युवराजश्च।

2. अमात्यः - एते बुद्धिसहायाः। एते च त्रयः, चत्वारः, द्वादश, षोडश तथा विंशतिरिति विविधात्मकत्वेन मन्त्राधिकारे निर्दिष्टास्सन्ति।   

3. जनपदः – ग्रामादि भेदेन अष्टविधः।व्रज-ग्राम-घोष-जानपदेभ्यः गोसमृद्धि-धान्यसमृद्धि-भोजन-वेष्ठन-वसनसौकर्यसमृद्धिभिः आयसम्पादनम्।

 

4. दुर्गानि - दुर्गम् अन्तर्द्वीपमित्यादिना विभक्तम्। राज्यस्य मुख्यानि भवन्ति दुर्गानि। तत्र गमनागमन-  पर्यवेक्षणेन प्रजाभ्यः शुल्काः लभ्यन्ते।

5. कोशः – कोशो हि रत्नसारफल्गुकुप्यभेदाच्चतुर्विधम्। विविधाभ्यः प्रजाभ्यः दैनन्दिनीयव्यवस्थानां  सङ्कल्पने राजकीयसर्वविधप्रबन्धनेन अधोनिर्दिष्ठैः माध्यमैः आयः लभ्यते।

खनिः - जीवनोपायभूतानाम् अमूल्यानां रत्न-काञ्चन-वज्र-रसायण-आङ्गारादीनां वस्तूनामुत्पादनेन आयः लभ्यते।

सेतुः - अनेन शकटादिभिः यानैः पर्यटनव्यवस्थां प्रकल्प्य आयसंवर्धनम्।

वनम् - वनेभ्यः वनान्तरेभ्यश्च विशिष्ठानां चन्दन-अगरु-कर्पूर-जतु-मधु-दारुखण्डादीनां वन्यवस्तूनां वन्यपशूणां च द्वारा आयसंपादनम्।

वणिक्पथः - प्रकृतीनां दैनन्दिनजीवनोपायसहकारभूतानि क्रय-विक्रयात्मकानि पण्यवस्तूनि विपणिभ्यः पण्यवीथिका-भिश्च सम्पाद्यन्ते। अनेन शुल्करूपाः करकूपाः अर्थात्मिकाः आयाः संलभ्यन्ते।

6. दण्डः - दण्डश्चतुर्विधो भवति रथ-गज-तुरग-पदातिभेदात्।

दण्डमूलो हि कोशः।

7. मित्राणि - मित्रं सहज-कृत्रिम-प्रकृतभेदेन त्रिप्रकारम्।

      यद्यपि राजनीतिः युगे युगे परिवर्तमानम्, देशे देशे विभिन्नं सत् वैविध्यं भजते । युगधर्मानुसारं राजधर्मोऽपि परिवर्तनशीलः दृश्यते । देशे विदेशेष्वपि आधुनिकराज्य-शास्त्राणां भाषाः भिद्यन्ते, न तु सार्वजनीना नीतयः । यतः जनाः=प्रजाः राज्ञः सकाशात् रक्षणम् इच्छन्ति । राजा तु प्रजाः सर्वाः पुत्रवत् रक्षेत् । न तु पीडयेत् । तादृशः राजा प्रत्यक्ष-देवता  इति प्रशंसापात्रं भवति ॥

अस्मिन् ग्रन्थे षण्मासपर्यन्तं क्षुधानिवारणाय तत्कालीनाः वैद्याः विविधाः गोलिकाः निर्मान्ति स्म, अपि च अन्नं पानीयं च अक्षयं कर्तुम् औषधानि तत्काले आसन्निति वर्णितमस्ति । शत्रुजयार्थं नानाविधाः कृत्याऽऽभिचारिकाः क्रियाश्च समन्त्र-प्रयोगाः वर्णिताः सन्ति । कौटल्यः स्वस्य अर्थशास्त्रस्य स्वयमेव व्याख्यां चकार । तत्र कारणं च एवम् ब्रवीति । यथा-

द्ष्ट्वा विप्रतिपत्तिं बहुधा ग्रन्थेषु सूत्रकाराणाम् ।

स्वयमेव विष्णुगुप्तश्चकार सूत्रं च भाष्यं च ॥ इति ।

अस्य ग्रन्थस्य कर्तुः गर्वोक्तिः एवमस्ति-

येन शास्त्रं च शस्त्रं च नन्दराजगता च भूः ।

अमर्षेणोद्धृतान्याशु तेन शास्त्रमिदंकृतम् ॥ इति ॥


(27.05.2021 तमे दिने 03.00 वादनसमये प्रचलितायां अन्तर्राष्ट्रियअन्तर्जालीय-सङ्गोष्ट्यां काचिगूडा, हैदराबाद्, तेलुङ्गानाराष्ट्रे विद्यमान बद्रुका कलावैज्ञानिककला शालायाः संस्कृतविभागे उस्मेनिया विश्वविद्यालयः, हैदराबाद्, तेलुङ्गानाराष्ट्रे विद्यमानात् संस्कृतविभागात् वरिष्ठप्राध्यापिका भूत्वा निवृत्ता डा. पि. शशिरेखा महोदया, विष्णुगुप्त-कौटिल्यनाम्ना महात्मना चाणक्यदृशाक्रय-विक्रयवस्तूनां स्वरूपलक्षणयोग्यतायाः नियमनम् (Kautilya on Quality control of commodities) इति शीर्षके उपन्यासं कृतवती। तच्छ्रुत्वा तदधिकृत्य मया स्वकीयया वाचा लिखितः अयं व्यासः। अस्य कार्यक्रमस्य निर्देशकः श्रीमान्, डा.एम. श्रीनिवासः, उपप्रांशुपालः तथा संस्कृतविभागाध्यक्षः। अस्य कार्यक्रमस्य संयोजिका प्राध्यापिका श्रीमती. डा. सि. भवानी त्रिपुरा ॥) 

 

Tuesday, 1 June 2021

"श्रीमद्भागवतपुराणकार्यशाला"

 

वेदवेदान्ताध्ययनशोधसंस्थानेन संस्कृतभारतीविद्वत्परिषदः संयुक्ततत्वावधाने  1-5-2021 तः 15-05-2021 पर्यन्तं, (अपराह्णे 3-00 तः 5-00 समये)               

पञ्चदशदिवसीया अन्तर्जालीया "श्रीमद्भागवतपुराणकार्यशाला" श्रीविजयध्वज-तीर्थश्रीचरणानां पुण्यतिथिमुपलक्ष्य समायोजितमासीत्।

Ø तत्र प्रथमे दिने समारोह-कार्यक्रमे पेशावर्मठाध्यक्षाणां तीर्थपादानामाशिषः सर्वान् पुनन्ति स्म। संस्कृतभारतीमुख्यप्रमुखः दिनेशकामतः, श्रीनिवास वरकेटि, तिरुमलाकुलकर्णी प्रभृतयाः प्रमुखाः कार्यशालोद्घाटन सन्दर्भानु गुणम् उपोद्घातवचोभिः श्रोतॄन् प्रैरयन्।

Ø द्वितीयदिने सहस्रावधानिनः श्रीमाडुगल नागफणिशर्माणः श्रीमद्भागवत प्रथमस्कन्धस्य नैमिशारण्ये शौनकादिमुनिभिः पृष्टः सूतः प्रतिवदति, नारद व्याससंवादः, अश्वत्थाम्नाकृतपञ्चपाण्डवपुत्रवधः, परीक्षित्जननं-तस्य राज्य लाभः, दिग्विजयः, मुनिकुमारेण शप्तः, भगवतश्शुकागमनप्रतीक्षा इति सारां शं वितरणं चक्रुः। तदनन्तरं श्रीमधुसूदनपेन्ना महोदयः श्रीमद्भागवतीयां सर्वप्रथमां श्रीधरीव्याख्यामधिकृत्य तस्य महत्त्वं तत्रत्य दर्शनविशयाञ्च विश दीकृत्य व्याख्याति स्म।

Ø तृतीये दिने श्रीमता के. रघुपति उपाध्यायमहोदयेन ब्रह्माण्जनिर्माणवर्णनं, भगवतो विराट्स्वरूपनर्मनं, परीक्षितः प्रश्नाः, पुराणलक्षणादिभिः विविध विषयैस्साकं द्वितीयस्कन्धविमर्शं व्याख्याति स्म। तदनन्तरं वैष्णवतोषिणी व्याख्यां स्वीकृत्य डा. श्रीमान् राकेशदासः गौडीयमतसिद्धान्ताविष्करणं संयक् प्रतिपादयामास।

Ø चतुर्थे दिने श्रीमता अमृतेशाचार्यवर्येण विदुरस्य उद्धवेन सह समागमः, श्रीकृष्णबाललीलावर्णनं, यदूनां प्रभासक्षेत्रगमनं, हिरण्याक्षहिरण्यकशिपो र्जन्म, कपिलावतारः भक्तियागरहस्यमित्यादयः  तृतीयस्कन्धसारः सङ्ग्रहः अनु गृहीतः। तदनन्तरं दोर्बलप्रभाकरशर्मभिः वीरराघवीयव्याख्यांशाः प्रति -पादिताः।

Ø  पञ्चमे दिने  श्रीमता हेच्.के.सुरेशाचार्येण भगवतः श्रीमन्नारायणस्य तपः -करणं, इन्द्रेण कृतम तपःप्रतिहननं, तदात्वे ऊर्वशीजन्म, तामुद्दिश्य इन्द्र याचनं, दक्षयागविषयः वेनस्य ऊरुमथनान्निषादोत्पत्तिः (अद्यतनीय क्लो निङ्प्रक्रिया) इत्यादयः चतुर्थस्कन्धसारः प्रतिपादिताः। तदनन्तरं श्रीमता वि.एन्.विजयीन्द्राचार्येण यादुपत्यव्याख्यानविमर्शः कृतः।

Ø षष्ठे दिने श्रीमता डा. रङ्गरामानुजाचार्येण प्रियव्रत-जडभरताख्यानादिभिः सह पञ्चमस्कन्धसारः प्रशाधितः। तदनन्तरं श्रीमता जयकान्तशर्मणा सारार्थ दर्शिनीव्याख्याविषयाः वितरिताः।

Ø सप्तमे दिने श्रीमता रामसलाहिमहोदयेण नारायणशब्दविमर्श-अजामिलो पाख्यानादिभिः सह षष्ठस्कन्धविषयाः विशदीकृताः। तदनन्तरं श्रीमता श्रीकान्तपुरोहितमहाशयेण श्रीमद्भागवततात्पर्यनिर्णयविमर्शात्मकाः विषयाः विवर्णिताः।

Ø अष्टमे दिने श्रीमान् श्रीरामविट्टलाचार्यः नवविधभक्ति-प्रह्लादोपाख्यान-विनाशकाले विपरीतबुद्धिरितिनीतियुक्ताविचारणादीन् विषयान् प्रतिपादयामास। तदनन्तरं श्रीमद्भागवतोपाख्यानानां श्रीस्वामिनारायण वचनामृते उल्लेखात्मकविचाराः श्रीमता श्रीभद्रेश्वरस्वामिना विस्तारिताः।

Ø नवमे दिने पैतृकदीक्षाचार्यः गजेन्द्रमोक्षाख्यानादिसहितं अष्टमस्कन्ध सङ्ग्रहमनुगृहाण। तदनन्तरं डा. पि.पि. श्रीधरमहाशयेण यादविन्द्रव्याख्या विमर्शिता।

Ø दशमे दिने श्रीमद्भिः श्रीविद्याप्रसन्नतीर्थश्रीपादैः नवमस्कन्धसारः प्रशाधिताः, ततः श्रीमता डा.प्रदीपसिंहाचार्येण ïIv‘ÉacayR> svaRi[ zaSÇai[ s<ygxITy Éagvtpura[< muhumuRhurnusNxanmk raet!, @vmnusNxay bhuz> s> pae;[< tdnu¢h> #it Éagvtpura[vaKySy Aalaecnya puiòmagRm! #it Svmt< àitpaidtvan!, tSy mtSy zuÏaÖEtm! #it namaNtrmiSt,

@k< zaSÇ< devkIpuÇgItm!  @kae dev> devkIpuÇ @v,

@kae mNÇ> tSy namain yain kmaRPyek< tSy devSy seva.

#it ðaekaeidtàma[en Svmt< †F< àitóapyamas. इतीत्थं श्रीमत्कृष्णवल्लभा चार्यकृता सुबोधिनीति श्रीमद्भागवतीया व्याख्या  विचारिता।

Ø एकादशदिने दशमस्कन्धस्य पूर्वार्धविषयाः सर्वे श्रीमद्भिः श्रीविद्याधीश-तीर्थश्रीपादैः सत्यव्रतं सत्यपरमिति यदा भगवान् श्रीमन्नारायणः कृष्णांश -त्वेन अवततार तदा देवबृन्दैः स्तूयमाणेन एकेन श्लोकेनैव बीजकोशरूपेण अनुगृहीताः। ततः श्रीमता श्रीबदरीनारायणाचार्येण सत्यधर्मीयव्याख्या विचारिता।

Ø द्वादशदिने दशमस्कन्धस्य उत्तरार्धविषयाः रासलीला हृद्रोगशमनार्थं चात्म लाभाय, युद्धानि अधर्मनाशाय नतु स्वार्थसाधनाय, जरासन्धकृतमाक्रमणं, मुचुकुन्दोपाख्यानमित्यादयांशाः सर्वे पवर्पाइण्ट्प्रेसेन्टेषन् रूपेण श्रीमता अष्टावधानिना श्रीरामकृष्मपेजत्तायेण द्रष्टृ-श्रोतृजनानां विशयनिवारणपूर्वकं विमर्शिताः। अनन्तरं डा. श्रीहरिवाळ्वेकरः भगवन्तरायटिप्पणीं आविष्क्रियाञ्चकार।

Ø त्रयोदशदिने श्रीमान् डा.के. उन्नीकृष्णन् महोदयः एकादशस्कन्धविषयान् प्रतिपादयामास। ततः डा. एन्.वादिराजाचार्यः मन्दनन्दिनीव्याख्यां विच चार।

Ø चतुर्दशदिने श्रीमता दिनेश.पि.रसाल महाशयेण द्वादशस्कन्धसारः

व्याख्यातः। तदनन्तरं डा.ए. वि. नागसम्पिगे महोदयः विजयध्वजीय व्याख्यां विमर्शयामास।

 

 एवं प्रतिदिनम् एको विद्वान् एकैकस्य स्कन्दस्य सारांशं कथयन्, आधुनिके जगति तस्य साम्प्रतिकतां च प्रत्यपादयत्। अपरश्च श्रीमद्भागवतमधिकृत्य नानामताचार्यैः विद्वद्भिश्च विरचितेषु व्याख्यानेषु अन्यतममादाय विमर्शं करोति। वयं सर्वे  अध्येतारः श्रोतारश्च भूत्वा,  कार्यशालायामस्यां भागं गृहीत्वा कार्यशालायाः नितरां श्रीद्भागवतपुराणामृतसागराम्भसि चिरं मग्नाः भूत्वा, आध्यात्मिकसन्तोषं प्राप्य, आनन्दमन्वभवम्।

चतुर्दशसु विद्यासु पुराणमप्येकविद्या। वेदार्थादधिकं मन्येपुराणार्थं वरानने इति पार्वतीं प्रति भगवत्परमेश्वरस्य वचनम्। पुराण साहित्ये सर्वाधिकं प्रचलति श्रीमद्भागवतपुराणमेव। अस्य विविधाः संस्कृतटीकाः विविधासु भाषासु रूपान्त राणि च वर्तन्ते।  अस्मिन् पुराणे भगवान् श्रीकृष्णः परब्रह्मरूपेण प्रतिपादितः विद्यते। अत्र मिताः द्वादशस्कन्धाः, मिताः  335 अध्यायाः, तथामिताः 1800

श्लोकाश्च उपलभ्यन्ते। अत्र पुराणोत्पत्ति-विराट्- पुरुष-देवोपासना-सृष्टिक्रम- उद्धव विदुरसंवादमुखेन श्रीकृष्णलीला-भूगोल-समुद्रमथन-सूर्यचन्द्रवंशीयराजानां विवरणमित्यादयः विवेचिताः सन्ति। “विद्यावतां कुरु भागवते परीक्षा ” इति  प्रसिद्धाभाणकेन श्रीमद्भागवतपुराणस्य विषयगाम्भीर्यं वैशिष्ट्यं अनुमीयते तथा अनुमन्यते च।

आधुनिकैर्हि स्थूलदृष्ट्या समक्षं दृश्यमानस्य स्थूलजगतो वर्णनं क्रियते।  महर्षिभिस्तु योगशक्त्या मनसा प्रत्यक्षीक्रियमाणानां सूक्ष्मलोकानां चित्रणं विहितमित्युभयत्र सामयाभावः सुस्पष्ट एव।  तस्मात् भगवतः स्थूलरूपा- नुध्यानार्थमेव र्विराट्ब्रह्माण्डवर्णनमिति नात्र विसंवादः।  तथा च शुकेनाप्युक्तम् – “स्थूले भगवतो रूपे मनस्सन्धारयेत् धिया” इति। न चैतावता पुराणानाम् अप्रामाण्यं शङ्क्यम्, पयसामर्णव इव वचसां परमात्मन्येव पर्यवसानमिति कृत्वा परमात्मपरतया पौराणिकवर्णनस्य सर्वथा प्रमाणभूतत्वोपगमात्।। इति गीता-मुद्रणालयप्रकाशकेन घनश्यामदासेनोक्तं स्मार्यं भवति॥    

भक्तिमात्रप्रधानं हि श्रीमद्भागवतपुराणम्। भक्तिस्तावत् कलौ युगे बलीया वर्तते। भक्तिज्ञानविरागाणां सुखमुत्पद्यते कथमिति चेत् श्रीमद्भागवतपुराणं उत्तरं ददाति। कर्मबन्धनमोचना भक्तिरेकं साधनं भवति। यतो हि भक्तिस्साधना रूपा नतु साध्य रूपा। साध्यं तावत् जीवात्मापरमात्मनोरैक्यमिति। सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज इति भगवद्वचनं मनसि निधाय, श्रवण-कीर्तन- स्मरण- पादसेवन-अर्चन- वन्दन-दास्य- सख्य-आत्मनिवेदनमिति नवविधभक्त्या भगवान् श्रीमन्नारायणः स्तोतव्यः इति श्रीमद्भागवतपुराणस्य बीजनिकषांशः। यतो हि उच्यते – न तपोभिर्न वेदैश्च न ज्ञानेनापि कर्मणा। हरिर्हि साध्यते भक्त्या इति श्रीमद्भागवतपुराणमाहात्म्यद्वितीयाध्याये सूचिता।

किं बहुणा, कलौ भागवती वार्ता भवरोगविनाशिनी इत्युक्त्वा समापयामि ॥

                                                     

                   

Monday, 12 April 2021

श्रीमन्महाभारतम् - Part I ( श्रीमन्महाभारतम् - पञ्चमो वेदः)

 

इतिहासयोर्द्वयोः द्वितीयं भवति श्रीमन्महाभारतम्। वेदोपबृह्मणानां मध्ये श्रीमन्महाभारतम् उत्तमोत्तमं भवति। परमकारुणिकेण भगवता महर्षिणा कृतमित् -

कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम्।

को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत्॥ इत्यनेन ज्ञायते। इतिहासत्वं च श्रीमन्महाभारतस्यैव मुख्यं, ऋग्वेदं, सामवेदं, यजुर्वेदमथर्वमवेदमितिहासपुराणं पञ्चमम् इति छान्दोग्योपनिषदि इतिहासपुराणनाम्ना निर्दिष्टं वर्तते॥

यस्य द्वैपायनः पुत्रस्स्वयं विष्णुरजायत।

प्रकाशो जनितो येन महाभारत चन्द्रमाः॥ इति मत्स्यपुराणे।

बिभेति गहनाच्छास्त्रान्नरस्तीव्रादिवौषधात्।

भारतश्शास्त्रसारोऽयमतः काव्यात्मना कृतः॥

आस्तिक्यारोहसोपानमेतद्भारतमुच्यते।

तच्छ्रुत्वा स्वर्गनरकौ लोकस्साक्षादिवेक्षते॥

अजिह्मो भारतः पन्था निर्वाणपथगामिनाम्।

मोक्षधर्मार्थकामानां प्रपञ्चो भारते कृतः॥

एवंविधं भारतं वै प्रोक्तं येन महात्मना।

सोऽयन्नारायणस्साक्षाद्वयासरूपी महामुनिः॥

कार्ष्ण्यं वेदं पञ्चमं तद्न्महाभारतं स्मृतम्॥ इति भविष्यत्पुराणे।

 

                                                  ..... अनुवर्तते.......,

Sunday, 11 April 2021

श्रीमद्रामायणम् Part VII (श्रीमद्रामायणस्य साहित्यिकं महत्त्वम्)

 


    श्रीमद्वाल्मीकिप्रणीतमेतदादिमहाकाव्यं श्रीमद्रामायणं संस्कृतवाङ्मयस्य अनुपमं रत्नभूतं विद्यते। काव्यक्षेत्रे एतस्य        विलक्षणं साहित्यिकं महत्त्वं वर्तते। तद्यथा -

1.  रसः - मा निषाद प्रतिष्ठां त्वगमः शाश्वतीः समाः।

         यत्क्रौञ्चमिथुनादेकम् अवधीः कामकोहितम्॥ इति क्रौञ्चवधरूपकारुण्यद्योतनघचनात् उद्भूतरामायणे ग्रन्थे करुणरसस्य एव प्राधान्यम् - रामायणे हि करुणो रसः।     नवरुचिरं ग्रन्थरत्नमेतत् श्रीमद्रामायणम्। अत्र यथास्थानं सर्वेषामपि रसानामभिव्यक्तिश्च दृश्यते। तत्र विप्रलम्भशृङ्गारस्य तथा करुणरसस्य चाभिव्यक्तौ चरमोत्कर्षत्वं लक्ष्यते॥

2.  छन्दः - श्रीमदादिकविवाल्मीकिमुखात् निर्गतस्य अनुष्टुभ् छन्दसः एव अत्र प्राधान्यं वर्तते। सर्गान्ते उपजाति- भुजङ्गप्रयात-पुष्पिताग्रा इत्यादीनि अन्यच्छन्दांसि अपि लभ्यन्ते॥

3.  अलङ्कारः - श्रीमद्रामायणे अनुप्रास-यमक-उपमा-रूपक-उत्प्रेक्षा-अर्थान्तरन्यासादि शब्दार्थालङ्काराः स्वाभाविक-तया प्रयुक्ताः॥

4.  भाषा भावश्च - श्रीमद्रामायणे काव्यसौन्दर्यदृष्ट्या भाषा सहजा सरला प्रवाहात्मिका च वर्तते॥

5.  पञ्चसन्धयः - श्रीमद्रामायणे मुखसन्धिः, प्रतिमुखसन्धिः, गर्भसन्धिः, विमर्शसन्धिः, निर्वहणसन्धिश्च इत्यादि पञ्चसन्धयः यथासन्दर्भं प्रयुङ्क्ताः दृश्यन्ते॥

इत्थं रघुवंशं, जानकीहरणम्, रामायणचम्पूः,उत्तररामचरितम् इत्यादि ग्रन्थानाम् उपजीव्यत्वात् श्रीमद्रामायणस्य काव्य-वैशिष्ट्यं, साहित्यिकमहत्त्वं च स्वयमेव सिद्ध्यति॥

Thursday, 8 April 2021

श्रीमद्रामायणम् Part VI (श्रीमद्रामायणस्य उपजीव्यत्वम् उत प्रेरकत्वम्)

 

    महाकाव्यं श्रीमद्रामायणं परवर्तिनां काव्यानां नाटकानां चोपजीव्यत्वेन संस्तूयते। महाकाव्यमेतदाश्रित्य प्रवृत्तानि कानिचित् काव्यानि नाटकानि च उदाह्रियन्ते . . . . ,

श्रीमद्रामायणनाम्ना अन्यग्रन्थाः -

1.  अध्यात्मरामायणम्,      2. अद्भुतरामायणम्,

3. अगस्त्यरामायणम्,       4. आनन्दरामायणम्,

5. मयन्दरामायणम्,         6. भुसुण्डिरामायणम्।

काव्यग्रन्थाः -

   1. महाकविना कालिदासेन कृतं रघुवंशमहाकाव्यम्,

   2. महाकविना कुमारदासेन कृतं जानकीहरणम्,

  3. महाकविना प्रवरसेनेन कृतं सेतुबन्धमहाकाव्यम्,

  4. महाकविना भट्टिना कृतं रावणवधमिति भट्टिमहाकाव्यम्,

  5. महाकविना क्षेनेन्द्रेण कृतं रामायणमञ्जरी।

नाटकानि -

  1. महाकविना भासेन कृतम् प्रतिमानाटकम् अभिषेकनाटकञ्च,

  2. महाकविभवभूतिना कृतं महावीरचरितम् उत्तररामचरितञ्च,

  3. महाकविना मुरारिना कृतम् अनर्घराघवम्,

  4. महाकविना राजशेखरेण कृतं बालरामायणम्,

  5. महाकविना दिङ्नागेन कृतं कुन्दमालानाटकम्,

  6. महाकविना जयदेवेन कृतं प्रसन्नराघवम्,

  7. महाकविना दामोदरमिश्रेण कृतं हनुमन्नाटमिति महानाटकम्।       

चम्पूकाव्यानि -

  1. महाराजेन भोजेन कृता रामायणचम्पूः,

  2. महाकविना अनन्तभट्टेण कृता रामकथा,

  3. महाकविना वेङ्कटाध्वरिणा कृता उत्तरचम्पूः,

  4. महाकविना लक्ष्मणभट्टेण कृतं चम्पूरामायणम्।   

Tuesday, 6 April 2021

श्रीमद्रामायणम् Part V (श्रीमद्रामायणकालीनः समाजः )


    श्रीमद्रामायणकालिकसमाजे परिवारस्य स्वरूपं पितृसत्तात्मकं आसीत्। यथा - पितरि शुश्रूषा तस्य वा वचनक्रिया। अयोध्यातः पितुराज्ञया एव रामः वनं अगच्छत्। पतिव्रताः - स्त्रीषु सीता-अनसूया-कौशल्या-सुलोचना इत्यादीनां नामानि प्रसिद्धानि आसन्। तद्यथा - स्त्रीणाम् आर्यस्वभावानां परमं दैवतं पतिः। शिक्षायाः स्वरूपं मौखिकम् आसीत्। बालकाः प्रायः गुरुकुलेषु आचार्याणां सान्निध्ये उषित्वा अध्ययनं कुर्वन्ति स्म। राजकुलानां बालकानां कृते अन्याभिः विद्याभिः कलाभिश्च सह सैन्यविद्यायाः अध्ययनमनिवार्यमासीत्। वेदविद्यायाः अध्ययनमपि सर्वेभ्य एव अत्यावश्यकमसीत्। तदानीं, ब्राह्मण-क्षत्रिय-वैश्य-शूद्राः इति चत्वारः वर्णाः, ब्रह्मचर्य-गृहस्थ-वानप्रस्थ-सन्न्यासाः इति चत्वारः आश्रमाः, गर्भाधान-जातकर्म-नामकरण-अन्नप्राशन-यज्ञोपवीताः इत्यादयः षोडशसंस्काराश्च प्रचलिताः आसन्॥

    वाल्मीकि-भरद्वाज-विश्वामित्रादि ऋषीणाम् आश्रमेषु निरन्तरं यज्ञ-अग्निहोत्र-वेदाध्ययन-युद्धविद्यादीनाम् अध्ययनं भवति स्म। रामायणकालीनसमाजे अष्टविधाः विवाहाः प्रचलिताः आसन्॥

       इत्थं रामायणे उल्लिखितैः अनेकैः उदाहरणैः स्पष्टं भवति यत् तदानीं भारतीयसमाजस्य स्थितिः उन्नता आसीत्। समाजे सर्वेषामेव सुख-सौविध्यानि एवम् उन्नतेः अवसराः संप्राप्ताः आसन्। अद्यापि प्रायः इदमेव मन्यते यत् रामायणकालीनसमाजः सर्वप्रकारेण समुन्नतः, समृद्धः, आदर्शपूर्णः, सुदृढः, सुसङ्घटितश्च आसीत्॥

Monday, 5 April 2021

श्रीमद्रामायणम् Part IV (श्रीमद्रामायणस्य कालक्रमः)

 


    विद्वांसः श्रीमद्रामायणस्य रचनाकालं निम्नाङ्कितप्रकारेण स्थिरीकुर्वन्ति।

1. मगधनरेशः अजातशत्रुः (500 क्रि.पू) पाटलिपुत्रस्य स्थापनां कृतवान्। अनेनैव राज्ञा शत्रोराक्रमणात् रक्षार्थं गङ्गानदी-शोणानद्योः सङ्गमस्थले दुर्गमेकं निरमिमीत। श्रीमद्रामायणे गङ्गानदी-शोणानद्योः सङ्गमात् श्रीराम(वन)गमनं वर्णितमस्ति। किन्तु दुर्गस्य उल्लेखनं नास्ति। अतः  श्रीमद्रामायणस्य रचनाकालः 500 क्रि.पू प्रागेव सिद्ध्यति॥

2. श्रीमद्रामायणे कोशलनरेशस्य राजधानी अयोध्या इति वर्णिता अस्ति। परन्तु बौद्ध-जैनग्रन्थेषु नगरमिदं साकेत नाम्ना प्रसिद्धं दृश्यते। श्रीरामपुत्रो लवः, स्वराजधानीं श्रावस्त्यां स्थापितवान्। बुद्धस्य समये कौशलनरेशः श्रावस्त्यामेव राज्यं करोति स्म। अतः श्रीमद्रामायणस्य रचना बुद्धात् प्रागेव भवितुमर्हति॥

3. श्रीमद्रामायणे विशाला मिथिला चेति द्वे राज्ये वर्णिते भवतः। बुद्धस्य समये एते द्वे नगर्यौ अपि वैशाली-राज्यान्तर्गतमेव वर्णिते भवतः। अनेनैव प्रमाणेन श्रीमद्रामायणं बुद्धादपि प्राचीनमिति सिद्ध्यति॥

    इत्थं श्रीमद्रामायणस्य रचना संहितायाः एवं ब्राह्ममकालस्य च पश्चात् तथा बौद्धकालात् प्राक् अर्थात् 500 क्रि.पू सञ्जाता भवेत्। अतः श्रीमद्रामायणस्य रचनाकालः 500 क्रि.पू प्रागेव स्वीकर्तव्यः इति समीचीनं प्रतिभाति॥

VĀMANA BHAṬṬA BĀṆA: LIFE AND SANSKRIT WORKS

  Vāmana Bha ṭṭ a Bā ṇ a ( वामनभट्टबाण) was a Sanskrit poet, dramatist, and prose writer associated with the later classical period of Sans...