लोकेऽस्मिन्
जातः केनापि मानवेन स्वजीवनयापनार्थं तस्मै 
विहितं कर्तव्यं तावत् तेन अनिवार्यतया
करणीयमेव। अमुं 
विषयमधिकृत्य किञ्चित् जानीमः-
     1.           
 कर्तव्यमेव  कर्तव्यं
प्राणैः कण्ठगतैरपि।
         अकर्तव्यं न
कर्तव्यं प्राणैः कण्ठगतैरपि॥
      अस्माकं जीवनस्य अन्तिमदशायामपि अकर्तव्यं नैव
कर्तव्यं,               कर्तव्यं तु कर्तव्यमेव॥ 
     2.           
अकृत्यं नैव कर्तव्यं प्राणत्यागेऽप्युपस्थिते।
         न च कृत्यं
परित्याज्यम् एष धर्मः सनातनः॥ इति च 
      अयमेव अंशः उक्त्यन्तरेण उच्यते॥
     3.
 अमुं विषयमेव
श्रीमद्भगवद्गीतायां भगवान् एवं वदति-
      कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः।
      अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥
     4. श्रीमद्वेदान्तदेशिकाचार्यवर्यः एतं विचित्रतया अकृत्य-
करणे कृत्यवर्जने निरतं मां पाहि इति विषयं द्रढीकरोति इत्थं-
करणे कृत्यवर्जने निरतं मां पाहि इति विषयं द्रढीकरोति इत्थं-
     अकृत्यानां च करणं कृत्यानां वर्जनं च मे।
     क्षमस्व निखिलं देव प्रणतार्तिहर प्रभो॥ इति न्यासदशके॥
No comments:
Post a Comment