Thursday, 2 July 2020

करुणरसः

नवविधरसेषु तृतीयो भवति करुणरसः। एषः करुणः
परदुःखदुःखित्वं दया इति सूक्त्या दया इत्यप्युच्यते। करुणा
उत दया इत्युक्ते अस्माकं स्मृतिपदे विषयद्वयं तावत् माता तथा इष्टदेवः इत्येव चिन्तनमागच्छति।
1. तत्र प्रथमं मातुः स्वकीयं शिशुं प्रति विद्यमानं वात्सल्यं तावद् वाचाम् अगोचरं भवति। माता एव मनुष्याणां दैवतानां च दैवतम्, नास्ति मातृसमो गुरुः, वात्सल्यनिर्भरतया जननी शिशुं च स्तन्येन वर्धयति दष्टपयोधराऽपि, मातृ देवो भव, कुपुत्रो जायेत क्वचिदपि कुमाता नैव भवति इत्यादयः नीतयः मातृवात्सल्यतां प्रकटयन्ति॥
2. द्वितीयं तावत्, भगवतः भक्तवात्सल्यं भवति। भगवतः भक्तस्य च भक्तिरेव सेतुर्भवति। करुणा काकुत्स्थः इति भगवन्तं राममेव निर्दिशति वेदान्तदेशिकः। भगवतो नृसिंहस्य प्रह्लादं प्रति, परमशिवस्य मार्कण्डेयं प्रति, श्रीमहालक्ष्म्याः शङ्कराचार्यं तथा वेदान्तदेशिकं प्रति इति बह्व्यः पुराणेतिहासकथाः, भगवतो भक्तवात्सल्यता-मुद्घोषयन्ति॥
3.  इतोऽपि संस्कृतसाहित्यशास्त्रदृशा, "शोकः स्थायी भवेद्भावः यत्रासौ करुणो रसः" इति लक्षणेन शोकभावः करुणरसं द्रढयति। सर्वेन्द्रियपरिक्लेश शोक इत्यभिधीयते। भोजराजेन दशमो रसः वात्सल्याख्यः उदीरितः इति हरिपालः सूचयति॥
4.  एको रसःकरुण एव निमित्तभेदादिति भवभूतिः द्रढयति॥

No comments:

Post a Comment

INTERNATIONAL LITERACY DAY

  Today, 8 september 2026, is international literacy day. A very suitable UNESCO quotation, “Literacy is a fundamental human right for all...