मनुष्यः
अन्येन मनुष्येण सह स्वभावस्य आविष्करणाय 
  कामपि भाषां भजते। यतो हि भाषा एव
भावाविष्कर-
  णाय माध्यमभूता भवति। यथा संप्रति आङ्ग्लभाषा विश्व-
  भाषात्वेन वर्तते तथा
पूर्वं संस्कृतभाषा विरराज। अधुनापि 
  लोकेषु बहुभिः मानवैः संस्कृतभाषा तत्र तत्र
संभाषमाणा 
  विलसत्येव। अतः वयमपि तया संस्कृतभाषया संभाषणं 
  कर्तुं अधोनिर्दिष्टान् ध्येयान्
अंशान् जानीमः-
  1.वाचं वदत भद्रया,
सत्यं वद, स्वस्ति नो बृहस्पतिर्ददातु 
    (भाषणे), इति वेदवाक्यानि ध्येयानि। तमेव
वेदं अवतु 
    वक्तारम्, आवीत् वक्तारमिति च उपनिषद्वचनरूपेण प्रार्थयामः॥
  2. एकः शब्दः, संयक् ज्ञातः, सुष्टु प्रयुक्तः, स्वर्गे लोके
कामदुघ् 
    भवति इति पतञ्जलिमहर्षिः समीचीनशब्दं, तद्ज्ञानं, तत्प्रयोग-
    विधानं च
उपदिशति। अनेन अपशब्दप्रयोगः मास्तु इति ज्ञायते॥
  3. सः कविः कथ्यते स्रष्टा रमते यत्र भारती।
  रस-भाव-गुणीभूतैः अलङ्कारैः गुणोदयैः॥ 
 इति वेदान्तदेशिकोक्तिः, रमणीयार्थप्रतिपादकः शब्दः 
 इति
पण्डितजगन्नाथोक्तिः, योऽर्थः सहृदयश्लाघ्यः इति 
 आनन्द-वर्धनोक्तिः इत्यादयः संयक् ज्ञेयाः॥
  4.संस्कृतेन अर्थात् व्याकरणेन तथा संस्कारैः च शुद्धा 
    वाणी
एव मानवान् भूषयति। व्याकरणेन शोभते अथवा 
    शुद्ध्यते भाषा इति च अस्माभिः
अवगन्तव्यम्॥
  5. नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम्।        
  बहुव्याहरतानेन न किञ्चिदपशब्दितम्॥
  संस्कारक्रमसंपन्नाम् अद्रुतामविलम्बिताम्।
  उच्चारयति कल्याणीं वाचं हृदयहारिणीम्॥ 
  इति श्रीमद्रामायणे आञ्जनेयः कथं रामेण सह भाषणं चकार 
  इति
केचन अंशाः संभाषणाय उपकुर्वन्ति॥
No comments:
Post a Comment