मानवजीवने प्रतिदिनं करणीयेषु कार्येषु
दीपज्वलनं मुख्यं
स्थानं वहति। अनेन दीपज्वलनेन तमो निरसनं क्रियते। ततोऽपि
अज्ञानाख्यस्य अन्धकारस्य निरसनं दीपः सूचयति। एतत् विषयं किञ्चिज्जानीमः-
1.
दीपज्वलनं
मानवानां पुरोगतिं द्योतयति॥
2. दीपज्वलनं मानवानां मङ्गलार्थं क्रियते॥
3. कोऽपि दैनन्दिनशुभारम्भः दीपज्वलनेन क्रियते॥
4.
प्रतिदिनं
अस्माकं गृहेषु मन्दिरेषु मुख्यतः पूजागृहेषु च शुभार्थं, कल्याणाय, आरोग्यार्थं,
पुष्टिवर्धनाय, सुख-सम्पद्विवर्धनार्थं, बुद्धिप्रकाशाय, आत्मतत्त्वप्रबोधार्थं दीपज्वलनं
मानवैः अवश्यं करणीयम्॥
प्रतिदिनं
अस्माकं गृहेषु मन्दिरेषु मुख्यतः पूजागृहेषु च
अधोनिर्दिष्ठैः श्लोकैः देवताः दीपरूपेण
पूजनीयाः -
5.
दीपो ज्योतिः
परं ब्रह्म दीपो ज्योतिर्जनार्दनः।
दीपो हरतु मे पापं प्रातर्दीप नमोऽस्तु ते॥
6. शुभं भवतु कल्याणं आरोग्यं सुखसमपदाम्।
मम बुद्धिप्रकाशाय दीपज्योते नमोऽस्तु ते॥
7. शुभं करोतु कल्याणं आरोग्यं पुष्टिवर्धनम्।
आत्म तत्त्वप्रकाशाय सन्ध्यादीप नमोऽस्तु ते॥
महाकविः कालिदासः
दीपस्य अनिवार्यत्वम् इत्थं सूचयति-
अर्थं सप्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव।
दृश्यं
तमसि न पश्यति दीपेन विना सचक्षुरपि॥
No comments:
Post a Comment