Sunday, 5 July 2020

गुरुपूर्णिमा



Vyāsa: A seer of social reforms - Indus Scrolls

      देशेऽस्मिन् भारते सर्वैः भारतीयैः गुरुपूर्णिमा इति पर्वदिवसः महता वैभवेन मन्यते। भारते सर्वलोकस्य प्रिया भवति गुरुपूर्णिमा। सर्वे सर्वत्र भक्त्या एतां  गुरुपूर्णिमां व्यासपूर्णिमा इति नाम्ना जुह्वति। तदधिकृत्य किञ्चित् जानीमः -
1.  भगवान्व्यासः भारतवर्षे वेदानां ग्रन्थरूपेण त्राता, अष्टादश-पुराणानां स्रष्टा, महाभारत-भागवत-ब्रह्मसूत्रमीमांसादि-ग्रन्थानां कर्ता। भारतीयस्य वाङ्मयस्य मूलधर्ता, भारतीय-परम्परायाः अय-मेव गुरुः, अतः तत्सम्माननार्थं गुरुपूर्णिमा व्यासपूर्णिमा इति परिगण्यते॥
2.  अस्मिन् दिने सर्वे गुरवः पूज्यन्ते। गुरूणां सेवया शिष्याणां मनोरथाः पूर्णाः भवन्ति। साधारणविद्यां गुरवः कल्पलता-त्वेन शिष्याणां कृते प्रयच्छन्ति॥
3.  गुरोः अधिकं तत्त्वं वा अधिकं तपः वा नास्ति, तत्त्वज्ञानात्    परमपि नान्यदस्ति। तद्बोधकाय गुरवे नमः। ज्ञानाञ्जनशला-कया अज्ञानतिमिरान्धस्य चक्षुरुन्मीलनं करोति गुरुः। सः एव गुरुः एव ब्रह्म-विष्णुः-परमेश्वरः- किं बहुना स एव साक्षात् परब्रह्म भवति, अतः तादृशं गुरुं नमामः॥
4. सत्संप्रदाये सिद्धः, स्थिरः,अनघधीः, श्रोत्रियः, ब्रह्मनिष्ठः, सत्त्वस्थः, सत्यवाक्, समयनियतः, साधुवृत्तिसमेतः, डम्भा-असूयादिमुक्तः, जितविषयिगणः, दीर्घबन्धुः, दयालुः, शिष्यं स्खालित्ये शासिता, स्व-परहितपरः गुरुः भवति। तादृशं गुरुम् उपगम्य ज्ञानं प्राप्नुमः, सुखं जीवामः॥
5.            "षडङ्गादि वेदो मुखे शास्त्रविद्या
 कवित्वादि पद्यं सुगद्यं करोति।
 मनश्चेत् न लग्नं गुरोरङ्घ्रिपद्मे
 ततः किं ततः किं ततः किं ततः किम्॥"
Rajesh Reviews: Being A Student And A Disciple Is Not The Same Thing!

No comments:

Post a Comment

THE BEAUTY OF SHADE AND THE GLORY OF SUNLIGHT

  Nature presents us with many contrasts, and among the most significant are shade and sunlight. Both play essential roles in our lives,...