Saturday, 11 July 2020

संस्कृतकवितायां वृत्तानि




           संस्कृतसाहित्यशास्त्रे कवितायाः स्थानं पद्यगद्यरूपैः मुख्य-तमं भवति। तत्र पद्यं तावत् प्रमुखं भवति। एकैकस्य वेदस्य कृते तदर्थावगमनाय षडङ्गानि सन्ति। तेषु षट्सु छन्दः उत वृत्तम् तृतीयमङ्गम्। तच्छास्त्रस्य मुख्यप्रणेता पिङ्गलमहर्षिः। तमनु-सृत्यबहवः महर्षयः कवयश्च श्रुतबोधः, वाणीभूषणं, वृत्तदर्पणः, वृत्तरत्नाकरः, वृत्तकौमुदी, छन्दोमञ्जरी इत्यादयः ग्रन्थाः ग्रथिताः भवन्ति। तेषु केदारभट्टेन महाचार्येण कृतः वृत्तरत्नाकरः अति-
प्रसिद्धः यद्ग्रन्थः बहुभिः सम्मान्यते। वृत्तविषयमधिकृत्य किञ्चित् 
वयं जानीमः-
  1. पद्यम् इत्युक्ते वृत्तम् उत जाति इति ज्ञातव्यम्। तत् चतुष्पदं 
     पद्यम् इति तस्य लक्षणम् अर्थात् एकस्य पद्यस्य चत्वारः पादाः 
     उत चतस्रः रेखाः भवेयुः इति ज्ञायते॥
  2. पद्यं मात्रावृत्तं वर्णवृत्तमिति द्विविधम्। तत्र मात्रावृत्तेषु एकै-
     कस्य वर्णस्य ह्रस्व-दीर्घरूपानुसारं ह्रस्वस्य कृते एकमात्रा तथा     दीर्घस्य कृते द्वे मात्रा दातव्या इति नियमः ज्ञायते। वर्णवृत्तेषु 
    त्रीणि अक्षराणि उत त्रयः वर्णाः स्वीकृत्य कं गणं निर्मातव्यम्। 
    तत्र, तेषु त्रिषु वर्णेषु प्रथमः, मध्यमः, अन्तः इति क्रमेण संस्थाप्य 
    ते ह्रस्वः वा दीर्घः वा इति ज्ञातव्यम्। अनेन वृत्तानि बहूनि 
    उत्पाद्यन्ते॥
  3.  सानुस्वारश्च दीर्घस्य विसर्गी च गुरुर्भवेत्। वर्णः संयोगपूर्वस्य 
   तथा पादान्तगोऽपि वा॥ इत्यनेन केषां वर्णानां दीर्घत्वं विधीयते 
   इति ज्ञायते। एतत् विहाय ये वर्णाः भवन्ति ते ह्रस्वाः इति च 
   ज्ञायते। ह्रस्वः लघु इति, दीर्घः गुरु इति च ध्येयम्। इतोऽपि 
   ह्रस्वः उत लघु "।" इति चिह्नेन तथा दीर्घः उत गुरु "ऽ" इति           चिह्नेन च अङ्कितव्यः ॥
  4. त्रीणि अक्षराणि उत त्रयः वर्णाः स्वीकृत्य कं गणं निर्माणात्   अनन्तरम्, अधो निर्दिष्ठितया अनया पद्धत्या-
 आदि - मध्य - अवसानेषु य-र-ताः यान्ति लाघवम्।
 भ-ज-साः गौरवं यान्ति म-नौ तु गुरु-लाघवौ॥ अर्थात् -
1. । ऽ ऽ = यगणः.         2. ऽ । ऽ = रगणः.
       3. ऽ ऽ । = तगणः.         4. ऽ । । = भगणः.
       5.। ऽ । = जगणः.          6. । । ऽ = सगणः.
       7.। । । = नगणः.        8. ऽ ऽ ऽ = मगणः.
      9. । = ह्रस्नः उत लघु    10. ऽ  =  दीर्घः उत गुरु
          इति ज्ञातव्यम्॥

No comments:

Post a Comment

INTERNATIONAL LITERACY DAY

  Today, 8 september 2026, is international literacy day. A very suitable UNESCO quotation, “Literacy is a fundamental human right for all...