कालिदासात्प्राचीनः
महाकविः भासः प्रकृतिनिरीक्षणे तावत् सूक्ष्मदर्शी तथा व्यापकश्च। 
1. स्वकीये स्वप्नवासवदत्ते नाटके सायङ्कालसमयमित्थं
      वर्णयति। यथा- 
    "खगा वासोपेताः सलिलमवगाढो
मुनिजनः
    
प्रदीप्तोऽग्निर्भाति प्रविचरति धूमो मुनिवनम्।
   
 परिभ्रष्टो दूराद्रविरपि च
संक्षिप्तकिरणो
     रथं
व्यावर्त्यासौ प्रविशति शनैरस्तशिखरम्॥" इति॥    इममेवांशं किञ्चित्
विधानान्तरेण कविकुलगुरुः कालिदासः स्वकीये अभिज्ञानशाकुन्तले नाटके
आकाशमार्गात् इन्द्ररथमारूढ्य आगतेन  दुःष्यन्तेन दृष्टं सायङ्कालं - 
      "शैलानामवरोहतीव
शिखरादुन्मज्जतां मेदिनी
      पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात् पादपाः।
      सन्तानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगाः
 केनाप्युत्क्षिपतेव
पश्य भुवनं मत्पार्श्वमानीयते॥" इति
वर्णयति॥
2.महाकविः भासः स्वकीये प्रतिमानाटके द्रुतगतिगामिना रथारूढेण भरतेन रथचलनमित्थं
वर्णयति। यथा-
      "द्रुमा धावन्तीव
द्रुतरथगतिक्षीणविषया
      नदीवोद्वृत्ताम्बुर्निपतति मही नेमिविवरे।
      अरव्यक्तिर्नष्टा स्थितमिव जवाच्चक्रवलयं
      रजश्चाश्वोद्धूतं पतति पुरतो नानुपतति॥ इति॥
इममेवांशं अन्येन विधानेन कालिदासः स्वकीये अभिज्ञान-शाकुन्तले नाटके
द्रुतगतिगामिना रथारूढेण दुःष्यन्तेन रथचलनमित्थं वर्णयति। यथा-
"यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां
 यदर्धे विच्छिन्नं
भवति कृतसन्धानमिव तत्।
 प्रकृत्या यद्वक्रं
तदपि समरेखं नयनयोः
 न मे दूरे किञ्चित्
क्षणमपि न पार्श्वे रथजवात् "॥ इति॥
   
एवं भासेन मध्यमव्यायोगनाटके प्रयुक्तं "व्यूढोराः" इति
पदं, भासात् उत्तरकालिना कालिदासेन रघुवंशे "व्यूढोरस्कः" इति
प्रयुक्तं दृश्यते। स्थालीपुलाकन्यायेन ईषदेव दर्शितं मया। इतोऽप्य-धिकतया
सन्त्येव॥
No comments:
Post a Comment