Thursday, 9 July 2020

कूत्तनूरु-क्षेत्रमहिमा



Koothanur Maha Saraswathi Temple, Thiruvarur - Tripadvisor

      एतस्मिन् भारते दक्षिणदेशे द्रमिडराष्ठ्रे पूर्वं तञ्जावूरुमण्डले 
संप्रति तिरुवारूरुमण्डले कूत्तनूरु इति ग्रामः भवति। अत्र देव्याः सरस्वत्याः कृते मात्रं पृथक्तया एकं मन्दिरमस्ति। अनेन कारणेन 
एतत् कूत्तनूरु दिव्यक्षेत्रात्मना विराजते। तद्वैभवम् अधिकृत्य वयं किञ्चित् जानीमः-
1.  अस्मिन् दिव्यक्षेत्रे देव्याः सरस्वत्याः कृते मात्रमेव बृहत्तमं 
विशिष्टतया एकं मन्दिरमस्ति। अन्येषां दैवतानां कृते बृहत्तमं 
विशिष्टतया मन्दिरं नास्ति॥
2. कावेर्यादि पञ्चनदीनां दक्षिणदिग्भागे एतत् दिव्यक्षेत्रं विराजते॥
3. अस्मिन् दिव्यक्षेत्रे ओट्टक्कूत्तनार् इति प्रसिद्धः द्रमिडभाषामहाकविः (सडैयप्पवळ्ळल् इति तञ्जावूरु-शासक-सार्वभौमस्य सभास्थाने विराजमानेषु महाकविवर्येषु एकतमः) निवसति स्म इति कारणात् एतत् दिव्यक्षेत्रं (कूत्तनार् वाळ्न्द ऊरु इति) कूत्तनूरु इति सर्वैः  आह्वयते॥
                                                                                   
                                   Ottakoothar: Indian writer
4. अस्मिन् दिव्यक्षेत्रे विराजमानां देवीं सरस्वतीं ओट्टक्कूत्तनार् 
इति प्रसिद्धः द्रमिडभाषाकविः स्तोत्रयामास। एतां देवीं सरस्वतीं 
स्तुत्वा, सरस्वत्याः अनुग्रहबलेन दक्षयागभरणी इति आरभटीवृत्तियुता भरणीकाव्यम् अलिखत्॥
5. महाकविकम्भः इति विख्यातवैभवः द्रमिडभाषा-महाकविः सडैयप्पवळ्ळल् इति तञ्जावूरु-शासक-सार्वभौमसभास्थानं विराजमानेन ओट्टक्कूत्तनार् इति प्रसिद्धेन द्रमिडभाषामहाकविना 
सह अलञ्चकार। एषः अपि, कूत्तनूरु इत्यस्मिन् दिव्य-क्षेत्रे विराजमानां देवीं सरस्वतीं स्तुत्वा सरस्वती अन्तादि इति स्तोत्रग्रन्थेन 
सन्तोषय्य, देव्याः सरस्वत्याः अनु-ग्रहबलेन संस्कृतभाषायां विद्य-
मानं श्रीमद्रामायणं द्रमिड-भाषायां रामगाथा इति नाम्ना महा-
काव्यमेकं रचयामास। तदेव कालान्तरे कम्बरामायणम् इति लोक-
प्रसिद्धं महाकाव्यमिति अधुनापि विलसन्नस्ति॥

                                     kamban | dosa365

No comments:

Post a Comment

INTERNATIONAL LITERACY DAY

  Today, 8 september 2026, is international literacy day. A very suitable UNESCO quotation, “Literacy is a fundamental human right for all...